संयोगादेरातो धातोर्यण्वतः

8-2-43 संयोगादेः आतः धातोः यण्वतः पदस्य पूर्वत्र असिद्धम् निष्ठातः नः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संयोगादिर्यो धातुराकारान्तो यण्वान्, तस्मादुत्तरस्य निष्ठातकारस्य नकारादेशो भवति। प्रद्राणः। प्रद्राणवान्। म्लानः। म्लानवान्। संयोगादेरिति किम्? यातः। यातवान्। आत इति किम्? च्युतः। च्युतवान्। प्लुतः। प्लुतवान्। धातोरिति किम्? निर्यातः। निर्वातः। यण्वत इति किम्? स्नातः। स्नातवान्॥

Siddhanta Kaumudi

Up

निष्ठातस्य नः स्यात् । द्राणः । स्त्यानः । ग्लानः । म्लानः ॥

Laghu Siddhanta Kaumudi

Up

निष्ठातस्य नः स्यात्। द्राणः। ग्लानः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संयोगादेरातो धातोर्यण्वतः>> - संयोगादेः । निष्टातस्य नः स्यादति । शेषपूरणमिदम् । द्राण इति ।द्रा कुत्सायां गतौ॑अस्मात् क्तः, तनत्वम्, णत्वम् । ग्लान इति । 'ग्लै हर्षक्षये' 'आदेचः' इत्यात्त्वे नत्वम् । ल्वादिभ्य एकविंशतेरिति । क्र्यादिषु प्वादयो द्वाविंशति, तेषु आद्यं पूञं विहाय ल्वादिभ्य एकविंशतेरित्यर्थः । ज्येति । धातुसूचनम् । ग्रहिज्येति । संप्रसारणसूचनम् । जीन इति । ज्या- त इति स्थितेसंयोगादे॑रिति निष्टानत्वस्याऽसिद्धत्वात्ततः प्रागेव संप्रसारणे पूर्वरूपे च कृते आतः परत्वाऽभावात् 'संयोगादेरातः' इति नत्वस्याऽप्राप्तावनेन नत्वम् । दुग्वार्दीर्घश्चेति । वार्तिकमिदम् । दु गु आभ्यां परस्य निष्ठातस्य नत्वं प्रकृतेर्दीर्घश्च इत्यर्थः । 'मृदुतया दुतया' इति माघकाव्ये दुतशब्दं साधयितुमाह — टु दु उपतापे इत्यादि । गून इति । गुधातोः क्ते दीर्घः । पूञो विनाशे इति । वार्तिकमिदम् । विनाशार्थात् पूञः परस्य निष्ठातस्य नत्वमित्यर्थः । सिनोतेरिति । वार्तिकमिदम् । कर्मैव कर्ता कर्मकर्ता, ग्रासः कर्म कर्ता यस्यस ग्रासकर्मकर्तृकः, तस्मात् 'षिञ् बन्धने' इत्यस्मात्परस्य निष्ठातस्य नत्वमित्यर्थः ।

Padamanjari

Up

प्रद्राण इति ।'कृत्यचः' इति णत्वम् । निर्यात इति । योऽत्र दातुर्नासौ संयोगादिः, यश्च संयोगादिर्नासौ धातुः । न चात्र संयोगादित्वस्य बहिरङ्गत्वम् । कथम् ? पूर्वं धातुरुपसर्गेण युज्यते, ततश्च निष्ठोत्पतेः प्रागेव संयोगः सन्निहितः । प्रद्राण इत्यादावप्येतावदेव ॥