अलोऽन्त्यात् पूर्व उपधा

1-1-65 अलः अन्त्यात् पूर्वः उपधा

Sampurna sutra

Up

अन्त्यात् अलः पूर्वः उपधा

Neelesh Sanskrit Brief

Up

शब्दे अन्तिमवर्णात् पूर्वम् विद्यमानस्य वर्णस्य 'उपधा' इति संज्ञा भवति ।

Neelesh English Brief

Up

The second-last letter of a word is called उपधा.

Kashika

Up

धात्वादौ वर्णसमुदायेऽन्त्यादलः पूर्वो यो वर्णः, सोऽलेवोपधासंज्ञो भवति। पच्, पठ् — अकारः। भिद्, छिद् — इकारः। बुध्, युध् — उकारः। वृत्, वृध् — ऋकारः। अल इति किम्? शिष्टः। शिष्टवान्। समुदायात् पूर्वस्य मा भूत्। उपधाप्रदेशाः — <<अत उपधायाः>> ७.२.११६ इत्येवमादयः॥

Siddhanta Kaumudi

Up

अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'उपधा' इति संज्ञा । प्रत्येकम् शब्दस्य यः अन्तिमः वर्णः, तस्मात् पूर्वम् विद्यमानस्य वर्णस्य (इत्युक्ते, उपान्त्यवर्णस्य - the second-last letter) 'उपधा' इति संज्ञा भवति - इति अस्य सूत्रस्य आशयः । यथा — 1. 'राम' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ' इति । अस्मिन् वर्णविभागे अन्तिमः वर्णः अकारः, तस्मात् पूर्वं विद्यमानः वर्णः मकारः । अतः अत्र मकारस्य 'उपधा' इति संज्ञा भवति । 2. 'रामम्' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ, म्' इति । अत्र अन्तिमः वर्णः मकारः, तस्मात् पूर्वं विद्यमानः वर्णः अकारः । अतः अत्र अकारस्य 'उपधा' इति संज्ञा भवति । 'उपधा' इति संज्ञा बहुषु स्थलेषु स्थानस्य निर्देशार्थम् अपि प्रयुज्यते । यथा, 'उपधायाम् विद्यमानः वर्णः' इत्युक्ते उपधास्थाने विद्यमानः वर्णः, तस्यैव अर्थः 'उपधासंज्ञकः वर्णः' इति । 'उपधा'संज्ञायाः प्रयोजनम् अष्टाध्याय्याम् 'उपधा'संज्ञायाः साक्षात् प्रयोगः बहुषु (40+) सूत्रेषु कृतः दृश्यते ।अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति । अस्याः प्रयोगेण अष्टाध्याय्याम् अनेके विधयः उक्ताः सन्ति । उदाहरणरूपेण अत्र द्वौ विधी अत्र दर्श्येते - 1. यस्य धातोः अन्ते 'प'वर्गस्य वर्णः अस्ति तथा च उपधायाम् ह्रस्वः अकारः विद्यते, तस्मात् धातोः <<पोरदुपधात्>> 3.1.98 इत्यनेन 'यत्' इति कृत्-प्रत्ययः भवति । प्रक्रिया इयम् — गम्यते इति [कृद्वृत्तिः] → गम् + यत् [गम्-धातोः अन्ते पवर्गस्य वर्णः अस्ति, उपधासंज्ञकः च ह्रस्वः अकारः विद्यते । अतः अत्र <<पोरदुपधात्>> 3.1.98 इत्यनेन 'यत्' प्रत्ययः भवति ।] → गम् + य [इत्संज्ञालोपः] → गम्य 2. यस्मिन् धातौ इत्संज्ञकः इकारः नास्ति, तस्य धातोः उपधा-नकारस्य कित्/ङित्-प्रत्यये परे <<अनिदितां हल उपधायाः क्ङिति>> 6.4.24 इत्यनेन लोपः भवति । यथा, मन्थ्-धातोः क्त-प्रत्ययान्तरूपस्य प्रक्रियायाम् अङ्गस्य उपधायां विद्यमानस्य नकारस्य लोपं कृत्वा 'मथित' इति रूपं सिद्ध्यति । प्रक्रिया इयम् — मन्थँ (विलोडने, भ्वादिः<{1.48}>) → मन्थ् + क्त [<<निष्ठा>> 3.2.102 इति क्तप्रत्ययः] → मन्थ् + त [इत्संज्ञालोपः] → मन्थ् + इट् + त [<<आर्धधातुकस्येड् वलादेः>> 7.2.35 इति इडागमः] → मथ् + इ + त [कित्-प्रत्यये परे अनिदित्-धातोः उपधा-नकारस्य <<अनिदितां हल उपधायाः क्ङिति>> 6.4.24 इत्यनेन लोपः] → मथित कुत्रचित् उपान्त्यभिन्नवर्णस्य निर्देशार्थम् अपि उपधाशब्दस्य प्रयोगः यद्यपि अस्मिन् सूत्रे 'उपधा' इति संज्ञा उपान्त्यवर्णस्य निर्देशार्थम् पाठिता अस्ति; तथापि केषुचन स्थलेषु इयं संज्ञा 'विशिष्टात् वर्णात् पूर्वं विद्यमानः वर्णः' (The previous letter of a given letter) इत्यस्मिन् अर्थे अपि प्रयुक्ता दृश्यते । उदाहरणद्वयम् एतादृशम् — 1. <<उपधायां च>> 8.2.68 इति सूत्रे विद्यमानेन 'उपधा'शब्देन उपान्त्यवर्णस्य निर्देशः न भवति, अपितु शब्दस्य उपान्त्यवर्णात् पूर्वं विद्यमानस्य वर्णस्य निर्देशः क्रियते । 'उपधायाः अपि उपधायाम् विद्यमानः वर्णः' इति अत्र अर्थः सिद्ध्यति । यथा, 'कॄत्' धातोः णिच्-प्रत्ययस्य प्रक्रियायाम् आदौ <<उपधायाश्च>> 7.1.101, तदनन्तरं च <<उपधायां च>> 8.2.78 इति द्वे सूत्रे प्रयुज्येते । तत्र, <<उपधायाश्च>> 7.1.101 इति सूत्रेण अङ्गस्य उपधा-ऋकारस्य 'इर्' आदेशे कृते, ततः अस्मिन् आदेशे विद्यमानः यः रेफः, तस्मात् पूर्वं विद्यमानस्य इकारस्य दीर्घः <<उपधायां च>> 8.2.68 इति सूत्रेण विधीयते । सम्पूर्णा प्रक्रिया इयम् — कॄतँ (संशब्दने, चुरादिः, <{10.155}>) कॄत् + णिच् [चुरादिगणस्य कॄत्-धातोः स्वार्थिकः णिच्-प्रत्ययः] --> कॄत् + इ [इत्संज्ञालोपः] --> किर् त् + इ [<<उपधायाश्च>> 7.1.101 इति सूत्रेण अङ्गस्य उपधा-ॠकारस्य इकारादेशः । <<उरण् रपरः>> 1.1.51 इति सः रपरः ] --> कीर् त् + इ [<<उपधायां च>> 8.2.78 इति अङ्गस्य उपधायां विद्यमानः यः रेफः, तस्यापि उपधायां विद्यमानस्य इकारस्य दीर्घः भवति ] --> कीर्ति [<<सनाद्यन्ता धातवः>> 3.1.32 इति धातुसंज्ञा । अग्रे अस्मात् धातोः यथायोग्यं तिङ्/कृत्प्रत्ययाः विधीयन्ते । 2. <<सान्तमहतः संयोगस्य>> 6.4.10 अस्मिन् सूत्रे 'उपधा' शब्दस्य अनवृत्तिः भवति । अयम् 'उपधा' शब्दः अत्र 'संयोगात् पूर्वम्' विद्यमानस्य वर्णस्य विषये प्रयुज्यते, न हि शब्दस्य उपान्त्यवर्णस्य विषये । यथा, विद्वान्-शब्दस्य सिद्धौ 'न्स्' इत्यमात् संयोगात् पूर्वम् विद्यमानः अकारः 'उपधा'शब्देन गृह्यते । प्रक्रिया इयम् — विद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → विद्व् न् स् + सुँ [<<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इति नुमागमः] → विद्वान् स् सुँ [<<सान्तमहतः संयोगस्य>> 6.4.10 इत्यनेन संयोगे विद्यमानस्य नकारस्य उपधायाम् विद्यमानस्य स्वरस्य दीर्घः] → विद्वान् स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सकारस्य लोपः] → विद्वान् [<<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन सकारस्य लोपः]

Balamanorama

Up

<<अलोऽन्त्यात् पूर्व उपधा>> - सखन्-स् इति स्थिते उपधाकार्यं वक्ष्यन्नुपधासंज्ञामाह — अलोन्त्यात् । 'अल' इति पञ्चमी,अन्त्या॑दिति सामानाधिकरण्यात् । अल्प्रत्याहारो वर्णपर्यायः । पूर्वोऽप्यलेव गृह्रते, साजात्यादित्याह — अन्त्यादल इत्यादिना । अलः किम् । 'शिष्ट' इत्यत्र शास्धातौ आसिति संघातात्पूर्वशकारस्योपधात्वं न भवति । अन्यथाशास इदङ्हलो॑रिति शकारस्येकारप्रसङ्गः । वर्णग्रहणं किम् । शास्धातौ 'शा' इति समुदायस्य उपधात्वं न भवति । अन्यथा 'शा' इति समुदायस्य इकारः स्यात् । न चालोन्त्यपरिभाषया आकारस्यैव इकारो भवतीति वाच्यं,नानर्थकेऽलोन्त्यविधि॑रिति तन्निषेधात् ।

Padamanjari

Up

समुदाय एवान्त्यो भवतीत्याह - धात्वादाविति । 'अलः' इति जसन्तं चेद् अन्त्यस्याविशेषितत्वात् समुदायादपि पूर्वस्य संज्ञायां शिष्ट इति शकारस्येत्वं स्याद्, असन्देहार्थमलित्येव च ब्रूयाद्; अतोऽन्त्यादित्यानया समानाधिकरणा पञ्चमीत्याह - अन्त्यादल इति । यद्येवम्, पूर्वस्याविशेषितत्वात् समुदायस्यापि संज्ञायां शिष्ट इति ' शा' इति समुदायस्येत्वं प्राप्नोति, 'अलोऽत्यस्य' इत्यन्त्यस्य भविष्यति । ङानर्थकेऽलोन्त्यविधिरनभ्यासविकारेषु', तत्र यथा-आभ्यामित्यत्र 'हलि लोपः' इद्रूपस्य विधीयमानो लोपोऽन्त्यस्य न भवति, तथात्रापि न स्याद्; अतोऽलोऽन्त्यात्पूर्वोऽलिति आह-अलेवेति । एवकारः पौनर्वचनिकः, यथान्त्योऽल्, एवं पूर्वोऽप्यलेवेति । कथं पुनर्द्धितीयसल्ग्रहणमन्तरेणायमर्थो लभ्यते ? लोकतः । लोके ह्यमीषां ब्राह्मणानामन्त्यात्पूर्व आनयतामित्युक्ते एक एवान्त्यात्पूर्वोऽनन्तर आनीयते, न समुदायः । संयोगोपधग्रहणं कृञर्थमित्यत्रावयवधर्मेण समुदायस्य संयोगस्योपधाव्यपदेशः । अकार इत्यादीनि रूपोदाहरणानि । कार्यं तु पाचक इत्यादौ 'अत उपधायाः' इति वृद्धिः । भेदक इत्यादौ 'पुनगन्तलघूपधस्य च' इति गुणः । शिष्ट इति । शासेर्निष्ठा, 'शास इदङ्हलोः' इतीत्वम्, 'शासिवसिघसीनां च' इति षत्वम् ॥