8-2-89 प्रणवः टेः पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः यज्ञकर्मणि
यज्ञकर्मणीति वर्तते। यज्ञकर्मणि टेः प्रणव आदेशो भवति। क एष प्रणवो नाम? पादस्य वार्द्धर्चस्य वान्त्यमक्षरमुपसंगृह्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोकारमोङ्कारं वा विदधति, तं प्रणवमित्याचक्षते। अ॒पां रेतां॑सि जिन्वतो३म् (ऋ० ८.४४.१६)। दे॒वान् जि॑गाति सुम्न॒यो३म् (ऋ० ३.२७.१)। टिग्रहणं सर्वादेशार्थम्। ओकारः सर्वादेशो यथा स्यात्, व्यञ्जनान्तेऽन्त्यस्य मा भूदिति। यज्ञकर्मणीत्येव — अ॒पां रेतां॑सि जिन्वति (ऋ० ८.४४.१६)॥
यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अपां रेतांसि जिवन्तो3म् (अ॒पां रेतां॑सि जिवन्तो3म्) । टेः किम् । हलन्ते अन्त्यस्य माभूत् ॥
क एष प्रणवो नामेति । इह शास्त्रेऽपरिभाषितत्वात्प्रश्नः । पादस्येति । शास्त्रान्तरप्रसिद्ध आश्रीयते, देवतावत्, अक्षरमच्, अन्त्यमचं गृहीत्वेत्यर्थः । तदाद्यक्षरशेषस्येति । अक्षरं च शेषश्च हल् अक्षरशेषम्, तदन्त्यमक्षरमादिर्यस्य ततदादि, तदादि च तदक्षरशेषं त तदाद्यक्षरशेषं तस्य टेरिति । त्रिमात्रमिति । केचिन्मकारेण सह त्रिमात्रमिच्छन्ति, अन्ये भागमेव । तत्र आआकारविधिः सामिधेन्यादिषु प्रसिद्धः -स्वरादिमृगन्तमोकारं त्रिमात्रं मकारान्तं कृत्वोतरस्य अर्धे अवस्येदिति; आआकाराविधिस्तु निनर्देअ स्वरादिरन्त ओङ्कारश्चतुर्न्निनर्द इति । आथर्वणिकास्तु सर्वत्र चानयोविकल्पमिच्छन्ति, तेषामेव चेदं सूत्रं पठितम् । जिन्वतो3मिति ।'जिविः प्रीणानार्थः' , लट्, तिप् । टेरिति वर्तमान इत्यादि । असति टिग्रहणे ठलोऽन्त्यस्यऽ इति वचनाट्टेर्योऽन्त्याल् तस्योकारः स्यात् । व्यभिचाराभावाद्धि प्रणवः प्लुतत्वेन विशेष्यते । संज्ञया विधाने चाच्परिभाषा प्रवर्तते, न वस्तुतस्त्रिमात्रविधाने । तस्माद्धल एव प्राप्नोति । अथाच्परिभाषोपस्थानार्थमेव प्लुतत्वेन प्रणवो विशेष्येत ? तथापि टेर्योऽच् तस्यैव स्यात्, न तु सर्वस्य टेः । आआकारस्त्वझल्समुदायत्वात् प्लुतो न भवतीति सर्वस्य टेः सिध्यति;'वाक्यस्य टेः' इत्यधिकारात् ? सत्यम्; टिस्था निकस्यैव त्वोङ्कारस्य प्रणवसंज्ञत्वात् कथमन्त्यस्याचो वा प्रसङ्ग इति चिन्त्यम् ॥