भस्य टेर्लोपः

7-1-88 भस्य टेः लोपः पथिमथ्यृभुक्षाम् सर्वनामस्थाने

Sampurna sutra

Up

index: 7.1.88 sutra: भस्य टेर्लोपः


पथि-मथि-ऋभुक्षाम् भस्य टेः लोपः

Neelesh Sanskrit Brief

Up

index: 7.1.88 sutra: भस्य टेर्लोपः


पथिन्, मथिन्, ऋभुक्षिन् - एतेषाम् भसंज्ञकस्य अङ्गस्य 'टि' संज्ञकस्य लोपः भवति ।

Neelesh English Brief

Up

index: 7.1.88 sutra: भस्य टेर्लोपः


The टि of the भसंज्ञक अङ्ग of पथिन्, मथिन् and ऋभुक्षिन् is removed.

Kashika

Up

index: 7.1.88 sutra: भस्य टेर्लोपः


पथ्यादीनां भसंज्ञकानां टेः लोपो भवति। पथः। पथा। पथे। मथः। मथा। मथे। ऋभुक्षः। ऋभुक्षा। ऋभुक्षे। सर्वनामस्थाने इत्यनुवर्तमानमपि विरोधादिह न सम्बध्यते।

Siddhanta Kaumudi

Up

index: 7.1.88 sutra: भस्य टेर्लोपः


भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्यामित्यादि । एवं मन्थाः । ऋभुक्षाः । स्त्रियां नान्तलक्षणे ङीपि भत्वाट्टिलोपः । सुपथी । सुमथी । नगरी । अनृभुक्षी सेना । आत्वं नपुंसकेन भवति न लुमता <{SK263}> इति प्रत्ययलक्षणनिषेधात् । सुपथि वनम् ॥<!संबुद्धौ नपुंसकानां नलोपो वा वाच्यः !> (वार्तिकम्) ॥ हे सुपथिन् । सुपथि । नलोपः सुप्स्वर <{SK353}> इति नलोपस्यासिद्धत्वाद्ध्रस्वस्य गुणो न । द्विवचने भत्वाट्टिलोपः । सुपथी । शौ सर्वनामस्थानत्वात् सुपन्थानि । पुनरपि । सुपथि । सुपथी । सुपन्थानि । सुपथा । सुपथे । सुपथिभ्यामित्यादि ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.88 sutra: भस्य टेर्लोपः


भस्य पथ्यादेष्टेर्लोपः। पथः। पथा। पथिभ्याम्॥ एवं मथिन्, ऋभुक्षिन्॥

Neelesh Sanskrit Detailed

Up

index: 7.1.88 sutra: भस्य टेर्लोपः


किम् नाम भसंज्ञकम् ? यचि भम् 1.4.18 इत्यनेन असर्वनामसंज्ञके अजादि/यकारादि-प्रत्यये परे अङ्गस्य भसंज्ञा भवति ।

किम् नाम टिसंज्ञकम्? अचोऽन्त्यादि टि 1.1.64 इत्यनेन शब्दे यः अन्तिमः स्वरः, तस्मात् आरभ्य शब्दस्य अन्तपर्यन्तम् यत् विद्यमानः अंशः टिसंज्ञां प्राप्नोति ।

पथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषाम् भसंज्ञकस्य अङ्गस्य टि-संज्ञकस्य लोपः भवति । यथा -

1) पथिन् + टा [तृतीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे पथिन्-इत्यस्य भसंज्ञा भवति ।]

→ पथ् आ [पथिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य भस्य टेर्लोपः 7.1.88 इत्यनेन लोपः]

→ पथा ।

2) मथिन् + आम् [षष्ठ्यैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे मथिन्-इत्यस्य भसंज्ञा भवति ।]

→ मथ् आम् [मथिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य भस्य टेर्लोपः 7.1.88 इत्यनेन लोपः]

→ मथाम् ।

3) ऋभुक्षिन् + शस् [द्वितीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे ऋभुक्षिन्-इत्यस्य भसंज्ञा भवति ।]

→ ऋभुक्ष् + अस् [ऋभुक्षिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य भस्य टेर्लोपः 7.1.88 इत्यनेन लोपः]

→ ऋभुक्षः [विसर्गनिर्माणम्]

4) सुपथिन् + औट् [द्वितीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे ऋभुक्षिन्-इत्यस्य भसंज्ञा भवति ।]

→ सुपथिन् + शी [नपुंसकाच्च 7.1.19 इति औट्-इत्यस्य शी-आदेशः]

→ सुपथ् +ई [सुपथिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य भस्य टेर्लोपः 7.1.88 इत्यनेन लोपः]

→ सुपथी

Balamanorama

Up

index: 7.1.88 sutra: भस्य टेर्लोपः


भस्य {टे}र्लोपः - एवं पन्थानः । पन्थानम् पन्थानौ । शसादावचि विशेषमाह — भस्य टेर्लोपः । पथ्यादेरिति । पथिमत्यृभुक्षामित्यनुवर्तत इति भावः । पथः पथेति । पथिन् अस् पथिन् आ इति स्थिते इनो लोपे रूपद्वयमिति भावः । पथिभ्यामिति । नलोपे रूपम् । इत्यादीति । पथिभिः । पथे । पथिभ्यः । पथः पथोः पथाम् । पथि, पथोः पथिषु । एवं मन्था ऋभुक्षा इति । मन्थदण्डवाची मथिन्शब्दः । तस्य आत्त्वम्, अत्त्वं , न्थादेशः, टिलोपश्च । मन्थाः मन्थानौ मन्थानः । मन्थानम् मन्थानौ मथः । मथा मथिभ्याम् । मथे । मथः मथोः मेथाम् । मथि । मथिषु । ऋभुक्षिन्शब्दस्तु इन्द्रवाची । तत्र 'थो न्थः' इतिवर्जमात्त्वादि भवति । षात्परत्वाण्णत्वं च । ऋभुक्षाः ऋभुक्षाणौ इत्यादि । यत्तु अत्र पन्थानमात्मन इच्छति पथीयति ।सुप आत्मनः क्यच्, 'नः क्ये' इति पदत्वान्नलोपःआकृत्सार्वधातुकयोः॑ इति दीर्घः । 'सनाद्यन्ताः' इति धातुत्वम् । ततः क्विप् । अल्लोपयलोपौ । एकदेशविकृतस्यानन्यत्वात्पथिमथी॑त्यात्त्वं,थो न्थः॑ । ततः संयोगपूर्वत्वान्न यण् । किन्त्वियङेव । पन्थियौ । 'भस्य टेक्लोपः' पथ इत्यादि प्रौढमनोरमातत्त्वबोधिन्यादावुक्तम् । तदेतदनुनासिकविधौ सति प्रतिपत्तिलाघवायाऽनुनासिकस्यैव उच्चारणे कार्ये तदनुच्चारणाच्छुद्धस्यैव विधानमिति भाष्यविरोधादुपेक्ष्यम् । पथीयते क्विपि हि ईकारस्य शुद्धाकारार्थं अनुनासिकानुच्चारणस्यावश्यकत्वे तदसङ्गति स्पष्टैव । तस्मात्पथीयतेः क्वपोऽनभिधानमेवोचितमिति शब्देन्दुशेखरे स्पष्टम् ।प्रसङ्गादाह — स्त्रियामिति । सु=शोभनः पन्था अस्या इति बहुव्रीहिः । 'ऋन्नेभ्यः' इति ङीप् । 'भस्य टेर्लोपः' इति इनो लोपः । सुपथीति रूपम् । ऋक्पूः॑इत्यप्तु न,न पूजनादिति निषेधात् । न चैवमपि 'न पूजनात्' इति निषेधस्य षचः प्रागेव प्रवृत्तेर्वक्ष्यमाणत्वात्इनः स्त्रिया॑मिति कब्दुर्वार एवेति वाच्यम्, 'युवोरनाकौ' इत्यत्र सुपथीति भाष्यप्रयोगेण तस्या अनित्यत्वज्ञापनात् । नच लिङ्गविशिष्टपरिभाषयापथिमथी॑त्यात्त्वं थो न्थश्च कुतो नेति वाच्यं, विभक्तौ लिङ्गविशिष्टाऽग्रहणात् । सुमथी इति । सु=शोभनो मन्था यस्या इति विग्रहः । ङीबादि पूर्ववत् । अनृभुक्षी सेनेति । अविद्यमानः ऋभुक्षा यस्या इति विग्रहः ।नञोऽस्त्यर्थाना॑मिति समासः । ऋभुक्षाः=स्वामी । अथ सु=शोभनः पन्था अस्य वनस्येति बहुव्रीहौ सुपथिन्शब्दान्नपुंसकात् 'स्वमोर्नपुंसकात्' इति सोर्लुकि प्रत्ययलक्षणमाश्रित्य सुप्परत्वसत्त्वात्पथिमथी॑त्यात्त्वमाशङ्क्याह — आत्त्वं नपुंसके इति । सम्बुद्धाविति । यद्यपि भाष्ये नपुंसकानामित्येव पठितं तथापि हे चर्मन् हे चर्मेति भाष्ये सम्बुद्धावेव उदाहृतत्वात्तन्मात्रविषयत्वमस्येति भावः । सम्बुद्धेर्लुका लुप्त्वात्संबुद्धिपरत्वाऽभावात् 'न ङिसम्बुद्ध्योः' इति निषेधाऽप्रवृत्तेर्नित्यं नलोपप्राप्तौ विकल्पार्थोऽयमारम्भः । ननु नलोपपक्षे 'ह्रस्वस्य गुणः' इति सम्बुद्धौ परतो गुणे कर्तव्ये नन लुमते॑ति निषेधस्याऽनित्यत्वाद्धे वारे हे वारि इतिवद्गुणविकल्पः स्यादित्यत आह — नलोपः सुबिति । द्विवचने इति । सुपथिन्शब्दादौङः शीभावे सति असर्वनामस्थानत्वेन भत्वात् 'भस्य टेर्लोपः' इति इनो लोपे सुपथीति रूपमित्यर्थः । शाविति । सुपथिन्शब्दाज्जश्शसोः शिभावे सति तस्य सर्वनामस्थानत्वात् 'इतोऽत्' इत्यत्त्वे, 'थो न्थः' इति थस्य न्थादेशे नान्तत्वाद्दीर्घे सुपन्थानि इति रूपमित्यर्थः ।

Padamanjari

Up

index: 7.1.88 sutra: भस्य टेर्लोपः


पथ्यादीति । प्रत्येकमभिसम्बन्धाद् भस्य इत्येकवचनम् । विरोधादिति ॥ सर्वनामस्थाने भसंज्ञाया अभावो विरोधः । इह न सम्बद्ध्यत इति । उतरार्थं त्वनुवर्तत एवेति भावः ॥