6-3-92 विष्वग्देवयोः च टेः अद्रि अञ्चतौ वप्रत्यये उत्तरपदे सर्वनाम्नः
विष्वक् देव इत्येतयोः सर्वनाम्नश्च टेरद्रीत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदे। विष्वगञ्चतीति विष्व॒द्र्य॑ङ् (ऋ० ७.२५.१)। देवद्र्यङ् । सर्वनाम्नः — तद्र्यङ्। यद्र्यङ् । अद्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम्। तत्र यणादेशे कृत <<उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य>>८.२.४ इत्येष स्वरो भवति। विष्वग्देवयोरिति किम्? अश्वाची। अञ्चताविति किम्? विष्वग्युक्। वप्रत्यय इति किम्? विष्वगञ्चनम्। वप्रत्ययग्रहणमन्यत्र धातुग्रहणे तदादिविधिप्रतिपत्त्यर्थम्। तेनायस्कृतमयस्कार इत्यत्र <<अतः कृकमिकंसकुम्भपात्र०>> ८.३.४६ इति सत्वं भवति॥ छन्दसि स्त्रियां बहुलमिति वक्तव्यम्॥ वि॒श्वाची॑ (ऋ० ७.४३.३) च घ्ाृताची॑ (ऋ० १.१६७.३) चेत्यत्र न भवति। क॒द्रीची॑ (ऋ० १.१६४.१७) इत्यत्र तु भवत्येव॥
अनयोः सर्वनाम्नश्च टेरद्र्यादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे । अदद्रि-अञ्चेति स्थिते यण् ॥
व प्रत्ययो यस्मात्स वप्रत्ययः । विष्वद्र।ल्ङिति । अञ्चतेः क्विनि लोपे उगिदचाम् इति नुम्, संयोगान्तलोपः, क्विन्प्रत्ययस्य कुः इति कुत्वम् - नकारस्य ङ्कारः । अद्रिसर्ध्योरिति । वार्तिकस्य साधारणत्वादिह सध्रशब्देपादानम्, अश्वमञ्चतीति अश्वाची, अञ्चतेश्चोप संख्यानम् इति ङीप् अचः इत्यकारलोपः, चौ इति दीर्घत्वम् । विष्वग्युनक्तीति विष्वग्युक, सत्मद्विष इत्यादिना क्विप् । विष्वगञ्चनमिति । ल्युट् । कथं पुरत्र प्रसङ्गः, यावता उतरपदे इत्युच्यते, न चात्राञ्चतिरुतरपदम्, किं तर्हि ल्युडन्तम्, न च तदादिविधिरस्ति, अल्ग्रहण एव तदादिविधिः इत्यत आह वप्रत्ययग्रहणमिति । यदि धातुग्रहणे तदादिविधिर्न स्याद्वप्रत्ययग्रहणमकर्तव्यं स्यात्, कृतं तु तदादिविधिं ज्ञापयति । अत्र प्रयोजनमाह तेनेति । अपस्कृतमिति । असति तु ज्ञापने अयस्कृदित्यादौ यत्र करोतिमात्रमुतरपदं तत्रैव स्यात् । विश्वाची च धृताची चेति । वेदपाठोऽयं प्रदशितः, न तु पृताजीत्युदाहरणम् प्राप्त्यभावात् । उपसंख्याने एस्त्रियाम् इत्येतेन नार्यः, पुंस्यपि हि क्वचिदद्र।लदेशो न दृश्यते । तस्माद्विप्वञ्चौ प्राथणापानाविति । कव्रीचीति । किंशब्दस्य टेरद्र।लदेशः, पूर्ववन्ङीब्लोपदीर्घत्वादि ॥