न वेति विभाषा

1-1-44 न वा इति विभाषा

Sampurna sutra

Up

index: 1.1.44 sutra: न वेति विभाषा


न, वा इति विभाषा

Neelesh Sanskrit Brief

Up

index: 1.1.44 sutra: न वेति विभाषा


'वैकल्पिकः निषेधः' तथा च 'वैकल्पिकी प्राप्तिः' एतयोः 'विभाषा' इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 1.1.44 sutra: न वेति विभाषा


The word विभाषा is used to indicate the meaning of 'optional negation' and 'optional application'.

Kashika

Up

index: 1.1.44 sutra: न वेति विभाषा


न इति प्रतिषेधः, वा इति विकल्पः । तयोः प्रतिषेधविकल्पयोः विभाषा इति संज्ञा भवति । इतिकरणोऽर्थनिर्देशार्थः । विभाषाप्रदेशेषु प्रतिषेधविकल्पावुपतिष्ठेते । तत्र प्रतिषेधेन समीकृते विषये पश्चाद् विकल्पः प्रवर्तते । उभयत्रविभाषाः प्रयोजयन्ति । विभाषा श्वेः 6.1.30 शुशाव, शिश्वाय ; शुशुवतुः, शिश्वियतुः । विभाषाप्रदेशाः विभाषा श्वेः 6.1.30 इत्येवमादयः ॥

Siddhanta Kaumudi

Up

index: 1.1.44 sutra: न वेति विभाषा


निषेधविकल्पयोर्विभाषा संज्ञा स्यात् ॥

Neelesh Sanskrit Detailed

Up

index: 1.1.44 sutra: न वेति विभाषा


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतेषु अन्यतमा अस्ति विभाषा इति संज्ञा । वैकल्पिकः निषेधः (optional negation of a rule) तथा च वैकल्पिकी प्राप्तिः (optional application of a rule) एतौ अर्थौ प्रदर्शयितुम् व्याकरणशास्त्रे विभाषा इति संज्ञा प्रयुज्यते, इति अस्य सूत्रस्य आशयः ।

पाक्षिकनिषेधनिर्देशार्थम् विभाषाशब्दस्य प्रयोगः (प्राप्तविभाषा)

यत्र आचार्यः प्रारम्भे कञ्चन विधिं पाठयित्वा ततः तस्य वैकल्पिकनिषेधार्थम् विभाषा इति शब्दं प्रयुङ्क्ते, तत्र सा विभाषा प्राप्तविभाषा नाम्ना ज्ञायते । पूर्वेण नित्यं प्राप्ते पाक्षिकः निषेधः इति अस्य अर्थः । द्वे उदाहरणे एतादृशे —

  1. ऋहलोर्ण्यत् 3.1.124 इत्यनेन सूत्रेण सर्वेभ्यः हलन्तधातुभ्यः ण्यत् इति कश्चन कृत्प्रत्ययः विधीयते । परन्तु धातोः उपधायाम् ऋकारः अस्ति चेत् एतम् ण्यत्-प्रत्ययं बाधित्वा ऋदुपधाच्चाकॢपिचृतेः 3.1.110 इत्यनेन सूत्रेण क्यप् इति प्रत्ययः विधीयते । अतः मृज्-इति धातोः अनेन सूत्रेण क्यप्-प्रत्ययः एव भवेत्, न हि ण्यत्-प्रत्ययः । परन्तु मृज्-धातोः विषये द्वावपि प्रत्ययौ इष्येते । एतत् साधयितुम् मृजेर्विभाषा 3.1.113 इति सूत्रम् पाठितम् अस्ति । ऋदुपधाच्चाकॢपिचृतेः 3.1.110 इत्यनेन पूर्वसूत्रेण नित्यं पाठितस्य क्यप्-प्रत्ययस्य अत्र वैकल्पिकः निषेधः क्रियते, येन पक्षे ऋहलोर्ण्यत् 3.1.124 इति ण्यत्-प्रत्ययः अपि भवितुम् अर्हति । अत्र विभाषा शब्दम् उपयुज्यत पूर्वसूत्रेण प्राप्तस्य नित्यविधेः पाक्षिकः निषेधः कृतः अस्ति । इयम् प्राप्तविभाषा इति नाम्ना ज्ञायते ।

  2. दिवुँ<{4.0001}> अयं धातुः यदा 'व्यवहारः' अस्मिन् अर्थे प्रयुज्यते, तदा अस्य धातोः कर्मपदस्य दिवस्तदर्थस्य 2.3.58 अनेन सूत्रेण षष्ठीविभक्तिः भवति । यथा - देवदत्तः शतस्य दीव्यति (Devadatta does a transaction of 100) । परन्तु यदि दिव्-शब्दः उपसर्गेण सह प्रयुज्यते, तर्हि तत्र कर्मपदस्य षष्ठी तथा द्वितीया एते द्वे अपि विभक्ती इष्येते । अतः विभाषोपसर्गे 2.3.59 इत्यनेन सूत्रेण आचार्यः पूर्वेण नित्यं प्राप्तां षष्ठीं विकल्पेन निषेधयति, येन देवदत्तः शतस्य प्रतिदीव्यति तथा च देवदत्तः शतम् प्रतिदीव्यति इति द्वे अपि वाक्ये साधुत्वं प्राप्नुतः । अत्रापि पूर्वसूत्रेण नित्यं प्राप्तः विधिः विभाषाशब्देन विकल्प्यते, अतः इयम् प्राप्तविभाषा

विकल्पनिर्देशार्थम् विभाषाशब्दस्य प्रयोगः (अप्राप्तविभाषा)

यत्र आचार्यः पूर्वम् अनुक्तस्य विधेः विकल्पेन विधानं कर्तुम् विभाषा इति शब्दं प्रयुङ्क्ते , तत्र सा विभाषा अप्राप्तविभाषा नाम्ना ज्ञायते । पूर्वेण नैव प्राप्ते पाक्षिकम् विधानम् इति अस्य अर्थः । द्वे उदाहरणे एतादृशे —

  1. गाङ् लिटि 2.4.49 अनेन सूत्रेण इङ् <{2.0041}> धातोः लिट्लकारस्य विवक्षायाम् गाङ् इति आदेशः भवति । एतादृशः गाङ्-आदेशः लुङ्लकारस्य विषये, लृङ्लकारस्य विषये अपि विकल्पेन इष्यते, अतः आचार्यः गाङ् लिटि 2.4.49 इत्यस्मात् अनन्तरम् विभाषा लुङ्लृङोः 2.4.50 इति सूत्रम् पाठयति । पूर्वसूत्रेण यः विधिः लुङ्लकारस्य लृङ्लकारस्य विषये च नैव प्राप्तः, सः अनेन सूत्रेण विभाषा-शब्दस्य साहाय्येन विकल्पेन विधीयते, अतः अत्र विभाषा-शब्देन 'अप्राप्तविभाषा' निर्दिष्टा अस्ति इति उच्यते ।

  2. गॄ <{6.0146}> अस्य धातोः रेफस्य यङ्-प्रत्यये परे ग्रोः यङि 8.2.20 इत्यनेन लकारादेशः भवति । एतादृशः लकारादेशः अजादिप्रत्ययस्य विषये अपि विकल्पेन इष्यते; अतः आचार्यः ग्रोः यङिः 8.2.20 अस्मात् सूत्रात् अनन्तरम् अचि विभाषा 8.2.21 इति सूत्रम् पाठयति । पूर्वसूत्रेण यः विधिः अजादिप्रत्ययस्य विषये नैव प्राप्तः, सः अनेन सूत्रेण विभाषाशब्दस्य साहाय्येन विकल्पेन विधीयते । पूर्वेण नैव प्राप्ते इदं पाक्षिकविधानं कृतम्, अतः इयमपि अप्राप्तविभाषा

एकस्मिन्नेव सूत्रे वैकल्पिकनिषेधनिर्देशार्थम् वैकल्पिकविधानार्थम् च विभाषाशब्दस्य प्रयोगः (उभयविभाषा)

कुत्रचित् आचार्यः एकेन एव विभाषाशब्देन निषेधविधानम् अपि करोति, विकल्पविधानम् च अपि करोति । एतादृशी विभाषा उभयविभाषा नाम्ना ज्ञायते । नित्यं प्राप्तस्य कुत्रचित् पाक्षिकः निषेधः, अप्राप्तस्य कुत्रचित् पाक्षिकः विकल्पः — इति उभयविभाषा । द्वे उदाहरणे एतादृशे —

  1. येषु धातुषु उपधायाम् ऋकारः अस्ति, तेभ्यः ऋदुपधाच्चाकॢपिचृतेः 3.1.110 इत्यनेन सूत्रेण क्यप्-प्रत्ययः विधीयते । अतः वृष्-धातोः अनेन सूत्रेण क्यप् प्रत्ययः नित्यं प्राप्नोति । कृ धातोः उपधायाम् तु ऋकारः नास्ति, अतः अस्मात् क्यप्-प्रत्ययः नैव प्राप्नोति । परन्तु एतयोः द्वयोः अपि धात्वोः विषये क्यप् इति प्रत्ययः विकल्पेन इष्यते । इत्युक्ते, वृष्-धातोः विषये ऋदुपधाच्चाकॢपिचृतेः 3.1.110 इत्यनेन सूत्रेण नित्यं क्यप्-प्रत्यये प्राप्ते तस्य वैकल्पिकः निषेधः इष्यते, तथा च कृ-धातोः विषये पूर्वेण अप्राप्ते अपि पाक्षिकः क्यप्-प्रत्ययः इष्यते । एते द्वयोः अपि विधानार्थम् आचार्यः विभाषा कृवृषोः 3.1.120 इति एकमेव सूत्रम् निर्माति । अस्मिन् सूत्रे प्रयुक्तः विभाषा शब्दः कृ-धातोः विषये पूर्वेण अप्राप्तं विधिं विकल्पेन विदधाति, अतः अप्राप्तविभाषारूपेण प्रयुक्तः अस्ति; वृष्-धातोः विषये तु पूर्वेण नित्यं प्राप्तं विधिं विकल्पेन निषेधयति, अतः प्राप्तविभाषारूपेण प्रयुक्तः अस्ति । अनेन प्रकारेण एकस्मिन् एव सूत्रे विभाषाशब्दस्य प्राप्तविभाषा तथा अप्राप्तविभाषा इति उभयथा प्रयोगः दृश्यते, अतः इयम् उभयविभाषा अस्ति ।

  2. सर्वादीनि सर्वनामानि 1.1.27 अनेन सूत्रेण नेम-इति शब्दस्य नित्यं सर्वनामसंज्ञा भवति । परन्तु जस्-प्रत्यये परे इयं सर्वनामसंज्ञा विकल्पेनैव इष्यते, येन नेमे तथा नेमाः एते द्वे अपि रूपे साधुत्वं प्राप्नुयाताम् । एवमेव, प्रथम, चरम, तय, अल्प, अर्ध, कतिपय एतेषां शब्दानां विषये केन अपि सूत्रेण सर्वनामसंज्ञा न पाठिता अस्ति, तथापि जस्-प्रत्यये परे एतेषाम् विकल्पेन सर्वनामसंज्ञा अवश्यम् इष्यते । एतत् सर्वम् साधयितुम् आचार्येण प्रथमचरमतयाल्पार्धकतिपयनेमाश्च 1.1.33 इति सूत्रं पाठ्यते । अस्मिन् सूत्रे विभाषा इति शब्दः अनुवृत्तिरूपेण आगच्छति । अयं विभाषाशब्दः अस्मिन् सूत्रे विद्यामानानाम् प्रथम, चरम, तय, अल्प, अर्ध, कतिपय एतेषां शब्दानाम् पूर्वेण अप्राप्तां सर्वनामसंज्ञाम् विकल्पेन विदधाति, नेमशब्दस्य विषये च पूर्वेण नित्यां प्राप्तां सर्वनामसंज्ञां विकल्पेन प्रतिषेधयति । एतादृशं एकस्मिन् एव सूत्रे विभाषा-शब्दस्य प्राप्तविभाषा तथा अप्राप्तविभाषा — इति उभयथा प्रयोगः दृश्यते, अतः इयम् उभयविभाषा अस्ति ।

व्यवस्थाम् दर्शयितुम् विभाषाशब्दस्य प्रयोगः (व्यवस्थितविभाषा)

कुत्रचित् विभाषाशब्दः 'व्यवस्थाम्' (system of usage) दर्शयितुम् प्रयुज्यते । इत्युक्ते, तत्र निषेधः कुत्र भवति विधानं च कुत्र भवति इत्यस्य व्यवस्था व्याख्यानेनैव दीयते, इयं विभाषा विवक्षाम् नैव अनुसरति । एतादृशी विभाषा व्यवस्थितविभाषा नाम्ना ज्ञायते । द्वे उदाहरणे एतादृशे —

  1. विभाषा ग्रहः 3.1.143 इत्यनेन सूत्रेण ग्रह्-धातोः -प्रत्ययः विधीयते, येन ग्राह-इति रूपं सिद्ध्यति । अत्र सूत्रे यद्यपि विभाषा इति शब्दः प्रयुक्तः अस्ति, तथापि अत्र प्रयोगकर्तुः विवक्षा (the choice of the user) नैव इष्यते, अपितु अत्र ग्रह्-धातोः -प्रत्ययः कदा भवेत् — इति व्याख्यातृभिः एव स्पष्टीकृतम् अस्ति । तत्र व्याख्यानैः एतद् उच्यते — जलचरस्य (aquatic animal) निर्देशार्थम् -प्रत्ययं कृत्वा ग्राह-इति रूपं भवेत्, परन्तु ज्योतिषः निर्देशार्थम् (planetary bodies) -प्रत्ययः नैव भवेत् । अनेन प्रकारेण अत्र विभाषाशब्दः व्यवस्थाम् (system of usage) दर्शयितुम् प्रयुक्तः अस्ति, अतः अत्र इयम् व्यवस्थितविभाषा

  2. प्यायः पी 6.1.28 इत्यनेन सूत्रेण प्याय्-धातोः निष्ठाप्रत्यये परे पी-आदेशः कृतः अस्ति । अस्मिन् सूत्रे विभाषा-शब्दः अनुवृत्तिरूपेण आगच्छति यः अत्र विभाषाशब्दः व्यवस्थितविभाषां दर्शयति, यतः — उपसर्गभिन्नस्य एव प्याय्-धातोः निष्ठाप्रत्यये परे पी-आदेशः भवेत्, न हि सोपसर्गस्य प्याय्-धातोः — इति व्यवस्था (system of usage) अत्र व्याख्यानैः स्पष्टी भवति । अतः अत्र यद्यपि विभाषा-शब्दः प्रयुज्यते, तथापि अत्र पी-आदेशस्य विषये व्यवस्था उक्ता अस्ति, तत्र साक्षात् विकल्पः नास्ति (it is not left to the choice of the user), अतः इयम् व्यवस्थितविभाषा ।

बह्वर्थे प्रयुक्तः विभाषाशब्दः

कुत्रचित् एकः एव विभाषा-शब्दः व्यवस्थितविभाषारूपेण अपि प्रयुज्यते, तथा च प्राप्तविभाषा/अप्राप्तविभाषा/उभयविभाषा-एतस्मिन् अर्थे अपि प्रयुज्यते । यथा, विभाषा चिञ्णमुलोः 7.1.69 अनेन सूत्रेण लभ्-धातोः णमुल्-प्रत्यये परे विकल्पेन नुमागमः भवति । अयं नुमागमः पूर्वसूत्रैः नैव पाठितः अस्ति, अतः इयम् अप्राप्तविभाषा । अपि च, उपसर्गस्य विषये इयमेव विभाषा व्यवस्थितविभाषा अपि अस्ति । इत्युक्ते, उपसर्गपूर्वकस्य लभ्-धातोः णमुल्-प्रत्यये परे नित्यम् नुमागमः — इति व्यवस्था अत्र क्रियते । अनेन प्रकारेण अत्र विद्यमानः विभाषाशब्दः अनुपसर्गस्य लभ्-धातोः विषये अप्राप्तविभाषारूपेण नुमागमस्य विकल्पं प्रदर्शयति (येन लाभंलाभम् तथा लम्भंलम्भम् इति द्वे अपि रूपे भवतः) परन्तु सोपसर्गस्य लभ्-धातोः विषये व्यवस्थितविभाषारूपेण नित्यं नुमागमं विदधाति (येन प्रलम्भंप्रलम्भम् इति एकमेव रूपं सिद्ध्यति), अतः अयम् बह्वर्थे प्रयुक्तः विभाषाशब्दः अस्ति ।

विभाषाप्रतिपादनार्थम् प्रयुक्ताः अन्ये शब्दाः

अष्टाध्याय्यां विभाषाम् प्रदर्शयितुम् त्रयः शब्दाः प्रयुक्ताः दृश्यन्ते - वा, अन्यतरस्याम् तथा विभाषा । एतेषाम् त्रयाणाम् अर्थाः तु समानाः एव । These three words are typically seen used in the same meaning, without any particular obvious pattern. However, in this context, one of the western scholars of the recent era, Paul Kiparsky has written a book called Panini as a Variationist, in which he analyses various occurrences of वा, अन्यतरस्याम् and विभाषा from अष्टाध्यायी and tries to build a framework explaining the fine-grained differences between these three words. Interested readers may seek a printed copy of this book. The soft-copies of this book are not available as the book is still copyrighted.

Balamanorama

Up

index: 1.1.44 sutra: न वेति विभाषा


न वेति विभाषा - न वेति विभाषा। मेध्यः पशुरनड्वान् विभाषितः इत्यादियाज्ञिकप्रयोगे विभाषाशब्दः केवलविकल्पे दृष्टः। इह तु शास्त्रे निषेधो विकल्पश्चेति द्वयं मिलितं विभाषाशब्दार्थ इति बोधयितुम् इदमारभ्यते। इतिशब्दाभावे, स्वं रूपं शब्दस्येति न-वा-शब्दयोः स्वरूपपरत्वान्नवाशब्दयोर्विभाषासंज्ञेत्यर्थः स्यात्। ततश्च ‘विभाषा ओ’रित्यादौ नवाशब्दावादेशौ स्याताम्। इतिकरणे तु नायं दोषः। इतिर्हि प्रत्येकं संबध्यते। ततश्च ‘न’ इति शब्देन योऽर्थो गम्यते निषेधः, ‘वा’ इति शब्देन योऽर्थो गम्यते विकल्पस्तदुभयस्य मिलितस्य विभाषासंज्ञा स्याद् इत्यर्थः फलति। एवं च नवाशब्दार्थयोरेव संज्ञित्वं लभ्यते, न तु नवाशब्दस्वरूपयोरिति नोक्तदोषः। तदाह-निषेधविकल्पयोरित्यादि। उभयत्रविभाषार्थम् इदं सूत्रम्। तथाहि– (प्राप्तविभाषा अप्राप्तविभाषा उभयत्रविभाषेति) त्रिविधा विभाषा। प्राप्तविभाषा यथा– विभाषा जसीति। वर्णाश्रमेतरे वर्णाश्रमेतरा इत्यत्र हि द्वन्द्वे चेति नित्यतया सर्वनामसंज्ञानिषेधे प्राप्ते विभाषेयम्। अप्राप्तविभाषा यथा– तीयस्य ङित्सु विभाषेति। द्वितीयस्मै द्वितीयायेत्यादौ तीयप्रत्ययस्य सर्वादिगणे पाठाऽभावादप्राप्तायां सर्वनामसंज्ञायां विभाषेयम्। उभयत्रविभाषा यथा– विभाषा ओरिति। आयतेर्लिटि यङि च सम्प्रसारणविभाषेयम्। तत्र लिटि शुशाव शिश्वाय, शुशुवतुः शिश्वियतुरित्याद्युदाहरणम्। यङि तु शोशूयते इति। अत्र यङंशेऽप्राप्तविभाषैवेयम्। लिटि तु द्विवचनबहुवचनेष्वपित्सु वचिस्वपियजादीनां कितीति नित्यतया सम्प्रसारणं प्राप्तम्, पित्सु त्वेकवचनेषु सम्प्रसारणं न प्राप्तमेव। असंयोगाल्लिट् कित् इति कित्त्वस्य अपित्स्वेव प्रवृत्तेः। एवं च प्राप्तेऽप्राप्ते चारम्भाद् विभाषा ओरित्युभयत्र विभाषेति स्थितिः। तत्र यदि ‘नवेति विभाषा’ इति सूत्रं नारभ्येत, तर्हि ‘अनड्वान्विभाषितः’ इत्यादियाज्ञिकप्रयोग इव विभाषा ओरित्यत्रापि केवलविकल्पः प्रतीयेत। भावोऽभावश्चेति द्वयं तावद् विकल्पः। ततश्च विभाषाश्रुतौ प्रवृत्तिस्तदभावश्चेति द्वयमपि विधेयम् इति लभ्यते। तत्र यदि विभाषा श्वेः इति विकल्पो विधिमुखः– लिटि आयतेः सम्प्रसारणं भवति न भवतीति तर्हि पित्स्वेव विकल्पस्य प्रवृत्तिः स्यात्। तत्र हि सम्प्रसारणस्य वचिस्वपीति किति विहितस्य अप्राप्तत्वेन प्रथमं भवनांशो विधेयः, तस्य पाक्षिकत्वाय न भवतीत्यपि विधेयम्। कित्सु तु प्रवृत्तिर्न स्यात्। तेषु हि वचिस्वपियजादीनां कितीति प्राप्तत्वात् प्रथमं भवनांशो न विधेयः। न भवतीत्यंश एव विधेयः। एवं च उभयांशविधेयत्वाऽलाभात् तत्र विकल्पविधिरयं न प्रवर्तेत, तत्र नित्यम् एव सम्प्रसारणं स्यात्। यदि तु विकल्पो निषेधमुखः– लिटि आयतेः सम्प्रसारणं न भवति भवतीति, तर्हि कित्स्वेव प्रवृत्तिः स्यात्। तत्र हि वचिस्वपीति प्राप्तत्वान्न भवतीति प्रथमं विधेयम्। अभवनस्य पाक्षिकत्वलाभाय भवतीत्यपि विधेयम्। पित्सु तु प्रवृत्तिर्न स्यात्। तत्र सम्प्रसारणस्याऽप्राप्ततया न भवतीत्यंशस्य प्रथमं विध्यनर्हत्वात्। न च पित्सु विधिमुखः कित्सु निषेधमुख इत्युभयथापि प्रवृत्तिरिति वाच्यम्। सकृच्छ्रुतस्य विभाषाशब्दस्य क्वचिद् विधिमुखविकल्पबोधने क्वचिन्निषेधमुखविकल्पबोधने च असामर्थ्यात्। आवृत्त्या तद्बोधने तु स एव दोषः। नवेति विभाषेत्यारम्भे तु श्रुतक्रमानुरोधेन बोधान्नेत्यंशेन कित्सु पूर्वं निषेधः प्रवर्तते। ततः किदकिद्रूपे सर्वस्मिन् लिटि निःसम्प्रसारणतया ऐकरूप्यं प्रापिते सति, भवति न भवतीत्येकरूपेण विधिमुख एव विकल्पः प्रवर्तते। तदेवमुभयत्र विभाषार्थम् इदं सूत्रम्। प्राप्तविभाषायां तु नास्योपयोगः, तत्र भवनांशस्य प्राप्तत्वेन विध्यनर्हत्वात्। अप्राप्तविभाषायामपि न तस्योपयोगः, तत्र अभवनांशस्य सिद्धत्वेन विध्यनर्हत्वात्। न चैवमपि ‘उणादयो बहुलम्’ ‘हृक्रोरन्यतरस्याम्’ ‘छन्दस्युभयथा’ ‘अनुपसर्गाद्वा’ इत्यादिविधिषु विभाषाशब्दाऽभावात् केवलविकल्पविधौ वैरूप्यं दुर्वारम् इति वाच्यं, विभाषाशब्दस्याऽत्र सूत्रे विकल्पवाचकशब्दोपलक्षणत्वात्। एवं च लोके ये विकल्पपर्यायाः शब्दास्ते सर्वे अस्मिन् शास्त्रे निषेधविकल्पयोः प्रत्यायका इति सूत्रार्थपर्यवसानं बोध्यम्। भाष्ये तु विभाषादिशब्दानां लोकवद् एव केवलविकल्पपरत्वेऽपि लक्ष्यानुरोधेनैव क्वचिद् विधिमुखेन क्वचिन्निषेधमुखेन विकल्पस्य प्रवृत्युपपत्तेरेतत्सूत्रं प्रत्याख्यातम् इत्यलं बहुना।

Padamanjari

Up

index: 1.1.44 sutra: न वेति विभाषा


नवाशब्दोऽयमेकनिपातोऽप्यस्ति प्रतिषेधवावी, नवोक्तार्थत्वादिति यता, तस्य ग्रहणे 'विभाषादिक्समासे' इति प्रकृते ' न बहुव्रीहौ' इति प्रतिषेधोऽनर्थकः स्याद् । विभाषाप्रदेशेषु च न शब्द एवोपादेयः स्याद् । अत एव संख्यावाचिनो नकारान्तस्याप्यग्रहणम् । प्रत्यग्रस्त्रीलिङ्गवचनोऽपि न गृह्यते; प्रदेशेष्वसम्भवात् । न हि 'विभाषा श्वेः' इत्यादौ विधेयस्य नवपुराण्त्वं स्त्रीलिङ्गता वा सम्भवति । तस्मान्निपातसमुदायोऽयमित्याह-नेति । प्रतिषेध इत्यादि । तयोः प्रतिषेधविकल्पयोरित्यनेनार्थयोरेषा संज्ञेति दर्शतम् । ननु च श्व रूपं शब्दस्य' इति वचनान्नवाशब्दयोरेव ग्रहणं युक्तम्, तत्राह-इतिकरण इत्यादि । कर्माणि ल्युट्, इतिश्चासौ करणश्च सोऽर्थस्य संज्ञिनो निर्देशो यथा स्यादित्येवमर्थः । इतिशब्दो हि पदार्थविपर्यासकृत् । तत्र लोके बाह्यार्थप्रधानेषु शब्देष्वितिशब्दः प्रयुक्तः, अर्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकत्वे व्यवस्थापयति गौरित्ययमाहेति । इह तु व्याकरणे श्वं रूपम्' इति वचनात् स्वरूपपदार्थः । ततश्च नवाशब्दाभ्यां परत्र प्रयुक्त इति शब्दस्तौ स्वरूपपदार्थकत्वात्प्रच्याव्यार्थपदार्थकत्वे व्यावस्थापयति । तस्मादर्थयोरेव संज्ञा । विभाषाप्रदेशेषु इत्यादिना प्रतिषेधविकल्पयोरेकस्मिन्नेव योगे सहोपस्थापनं विषयभेदेनेति तं दर्शयति । तथा सति विषयभेदो दुर्ज्ञानः स्यादिति भावः । तत्रेत्यादिना पूर्वं प्रतिषेधः प्रवर्तते, पञ्चाद्विकल्प इति दर्शयति । यदि तु पूर्वं विकल्पः प्रवर्तेत पश्चात्प्रतिषेधः, ततो विकल्पप्रवृत्तिरनर्थिकैव स्यात् । आनुपूर्वी च संज्ञाविधिवाक्ये श्रुतैव प्रदेशवाक्येष्वप्याश्रयितुं युक्ता । उभयत्रविभाषाः प्रयोजयन्तीति । प्राप्तविभाषायामप्राप्तविभाषायां च संज्ञाकरणस्यानुपयोगात् । तथा हि - प्राप्तविभाषायां तावद् 'विभाषोपपदेन प्रतीयमाने' इति श्वरितञितः' इत्यादिना नित्यमात्मनेपदे प्राप्ते विभाषा विधीयते । विभाषाशब्दश्चायं 'वा' 'अन्यतरस्याम्' इत्यादिवद्विकल्पवाचित्वेन प्रसिद्धः । तेन भावाभावयोः प्रतिपादितयोर्भावांशस्य प्राप्तत्वादभावांशपरता विज्ञायते, भावांशः स्थित एव । अप्राप्तविभाषायामपि 'विभाषोर्णोः' इत्यभावांशस्य प्राप्तत्वाद् भावांशपरता विज्ञायते 'विभाषा श्वेः' इत्यत्र तु यदि विधिमुखेन विभाषा श्रुतिः प्रवर्तते, पित्स्वेव संप्रसारणं विभाषा स्यात्, कित्सु तु यजादित्वान्नित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तदा कित्स्वेन विकल्पः स्यान्न पित्सु । न च शक्यं वक्तुम् - पित्सु विधिमुखेन प्रवर्तते, कित्सु प्रतिषेधमुखेनेति; एकत्वाद्वाक्यस्य तस्य चान्यतरविकल्प एवोपक्षीणत्वात् । संज्ञाकरणे तु पूर्वं प्रतिषेधे कित्सु प्रवृते किदकिदाख्यो लिट् सर्व एव समीकृतो भवति; सर्वस्यासम्प्रसारणनिमितत्वात् । ततो विकल्पः सर्वत्र विधिमुखेन पक्षे सम्प्रसारणं सम्पादयति । एतच्च - 'आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते' इति दर्शने प्रयोजनम् । यदा तु प्रतिलक्ष्यं 'विभाषा श्वेः' इत्यस्य व्यापारः, तदा क्वचिद्विधिमुखेन क्विचितप्रतिषेधमुखेन प्रवर्तत इति संज्ञाकरणमन्तरेणापीष्ट्ंअ सिद्ध्यति । तता च 'हृक्रोरन्यतरस्याम्' इत्यादावन्यतरस्यांग्रहणे वा ग्रहणे चोभयत्रविभाषास्विष्टसिद्धः । सूत्रारम्भे तु संज्ञाप्यर्थः, विभाषेत्यर्थः । संज्ञा नवार्थयोरिति व्याख्येयम् । शुशावेति । श्वयतेर्लिटि तिपो णलि सम्प्रसारणे वृद्ध्यावादेशौ ॥