3-3-72 ह्वः सम्प्रसारणं च न्यभ्युपविषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्
नि अभि उप वि इत्येतेषूपपदेषु ह्वयतेर्धातोः संप्रसारणमप् प्रत्ययश्च भवति। घञोऽपवादः। निहवः। अभिहवः। विहवः। एतेष्विति किम्? प्रह्वायः॥
निहवः । अभिहवः । उपहवः । विहवः । एषु किम् । प्रह्वायः ॥
निहव इत्यादि रूपं तु जुहोतेरेव सिद्धम्; अनेकार्थत्वाद्धातूनाम् । अथेभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि निह्वाय इति रूपं मा भूदिति ॥