ह्वः सम्प्रसारणम्

6-1-32 ह्वः सम्प्रसारणम् णौ च संश्चङोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

णौ च संश्चङोरिति वर्तते। सन्परे चङ्परे च णौ परतो ह्वः संप्रसारणं भवति। जुहावयिषति, जुहावयिषतः, जुहावयिषन्ति। अजूहवत्, अजूहवताम्, अजूहवन्। संप्रसारणस्य बलीयस्त्वात् <<शाच्छासाह्वाव्यावेपां युक्>> ७.३.३७ इति प्रागेव युग् न भवति। संप्रसारणमिति वर्तमाने पुनः संप्रसारणमित्युक्तं विभाषेत्यस्य निवृत्त्यर्थम्। ह्वः संप्रसारणमभ्यस्तस्येत्येकयोगेन सिद्धे पृथग्योगकरणमनभ्यस्तनिमित्तप्रत्ययव्यवधाने संप्रसारणाभावज्ञापनार्थम्। ह्वायकमिच्छति ह्वायकीयति। ह्वायकीयतेः सन् जिह्वायकीयिषति॥

Siddhanta Kaumudi

Up

सन्परे चङ्परे च णौ ह्वः संप्रसारणं स्यात् । अजूहवत् । अजुहावत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ह्वः सम्प्रसारणमभ्यस्तस्य च>> - अभ्यस्त स्य च ।ह्वः संप्रसारण॑मित्यनुवर्तते । 'ह्व' इति कृतात्त्वस्य 'हवे' इत्यस्य षष्ठन्तम् । तथा च अभ्यस्तीभूतस्य ह्वेञः संप्रसारणे कृते पूर्वखण्डस्याऽभ्यासस्यन संप्रसारणे संप्रसारण॑मिति निषेधः स्यादित्यत आह-अभ्यस्तीभविष्यत इति । ननु यद्यभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्संप्रसारणे सतिविप्रतिषेधे यद्बाधितं तद्बाधित॑मिति न्यायाद्द्वित्वं न स्यादित्यत आह — ततो द्वित्वमिति । संप्रसारणानन्तरं द्वित्वमित्यर्थः, पुनः प्रसङ्गविज्ञानादिति भावः । तथा च णलि आत्त्वे कृते संप्रसारणे पररूपे 'हु' इत्यस्य द्वित्वेकुहोश्चु॑रिति चुत्वे तस्य जश्त्वेअचो ञ्णिती॑ति वृद्धौ अवादेशे परिनिष्ठितं रूपमाह — जुहावेति । जुहुवतुरिति । अतुसि आत्त्वे आल्लोपं बाधित्वा अन्तरङ्गत्वात्अभ्यस्तस्य चे॑त्यनेन संप्रसारणेवार्णादाङ्गं बलीयः॑ इत्यस्याऽनित्यतयाऽन्तरङ्गत्वात्पूर्वरूपे कृते द्वित्वे उवङिति भावः । यद्यपि कितिवचिस्वपी॑ति संप्रसारणेऽपि सिद्धमिदम्, तथापि अकिति आवश्यकमभ्यस्तस्य चेत्येत न्न्याय्यत्वादिहापि भवतीति बोध्यम् । एवं जुहुवुः । भारद्वाजनियमात्थलि वेट् । तदाह — जुहोथ जुहविथेति । जुहुवथुः जुहुव । जुहाव जुहव जुहुविव जुहुविम । क्रादिनियमादिट् । जुहुवे जुहुवाते जुहुविरे । जुहुविषे जुहुवाथे जुहुविढ्वे जुहुविध्वे । जुहुवे जुहुविवहे जुहुविमहे । ह्वातेति । तासि आत्त्वम् । ह्वास्यति ह्वास्यते । ह्वयतु ह्वयताम् । अह्वयत् अह्वयत । ह्वयेत् ह्वयेत । हूयादिति । आशीर्लिङि आत्त्वे यासुटि कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । ह्वासीष्टेति । आशीर्लिङि सीयुटि रूपम् । लुङि विशेषमाह —

Padamanjari

Up

संप्रसारणस्य बलीयस्त्वादिति। बलीयस्त्वं च पूर्ववत्। एकयोगेनैव सिद्ध इति। उतरसूत्रे कस्यचिन्निमितस्य सप्तमीनिर्दिष्टस्याभ्यस्तं प्रत्यश्रवणाण्णावपि संश्चङ्परे ह्वेरभ्यस्तकारणस्य सिद्धमेव सम्प्रसारणमिति भावः। अनभ्यस्तनिमितप्रत्ययेनिति। अभ्यस्तस्य यन्निमितं न भवति तेन। व्यवधाने इति। यद्यौतरसूत्रं प्रवर्तेत, तदा योगविबागोऽनर्थकः स्यादिति ज्ञापकत्वम् ॥