7-4-67 द्युतिस्वाप्योः सम्प्रसारणम् अभ्यासस्य
index: 7.4.67 sutra: द्युतिस्वाप्योः सम्प्रसारणम्
द्युति स्वापि इत्येतयोः अभ्यासस्य सम्प्रसारणं भवति। विदिद्युते। व्यदिद्युतत्। विदिद्योतिषते। विदिद्युतिषते। विदेद्युत्यते। स्वापेः सुष्वापयिषति। स्वापिः ण्यन्तो गृह्यते, तस्य अभ्यासनिमित्तेन प्रत्ययेन आनन्तर्ये सति सम्प्रसारनम् इष्यते। इह न भवति, स्वापयतेर्ण्वुल् स्वापकः, तस्मात् क्यचि स्वापकीयति, स्वापकीयते, सन् सिष्वापकीयिष्टि।
index: 7.4.67 sutra: द्युतिस्वाप्योः सम्प्रसारणम्
अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते । दिद्युताते । द्योतिता ॥
index: 7.4.67 sutra: द्युतिस्वाप्योः सम्प्रसारणम्
अनयोरभ्यासस्य सम्प्रसारणं स्यात्। दिद्युते॥
index: 7.4.67 sutra: द्युतिस्वाप्योः सम्प्रसारणम्
द्युतिस्वाप्योः सम्प्रसारणम् - द्युतिस्वाप्योः । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । दिद्युते इति । द्वित्वे 'हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेनद्युतिस्वाप्यो॑रिति संप्रासरणे,संप्रसारणाच्चे॑ति उकारस्य पूर्वरूपे रूपम् ।
index: 7.4.67 sutra: द्युतिस्वाप्योः सम्प्रसारणम्
विदिद्यौते इति ।'द्यौत दीप्तौ' अनुदातेत् । व्यदिद्यौतदिति । ण्यन्ताल्लुङ्, चङ् इद्विर्वचनम् । विदिद्योतिषते, विदिद्यौतिषत इति । रलो व्यपधात्ऽ इति सनः कित्वविकल्पः । स्वापिर्ण्यन्तो गृह्यत इति । स्वपेर्यो णिज्विहितस्तदन्तस्य ग्रहणम्, तेन स्वापं करोतीति णिचि कृते यः स्वापिस्तस्य ग्रहणं न भवति । एतच्च'स्वापि' इत्युक्ते सहसा प्रथमं तस्यैव प्रतीतेर्लभ्यते । अण्यन्तस्यैव योऽभ्यासस्तस्यानेनैव सम्प्रसारणं सिद्धम् । तथा हि - लिटि तावत्किति'वचस्वपियजादीनां किति' इति कृतसम्प्रसारणमेव द्रिरुच्यते, अकित्यपि'लिट।ल्भ्यासस्योभयेषाम्' इत्यस्ति सम्प्रसारणम्, सन्निपि रुदविदमुषग्रहिस्वपिऽ इति किदेव, यङ्यपि'स्वपिस्यमिव्येञां यङ्' ईति कृतसम्प्रसारणमेव द्विरुच्यते । अथापि यङ्लुक्यभ्यासस्य सम्प्रसारणं न केनचित्प्राप्तम्, तथापि'स्वापे' इति निर्द्देशादेव ण्यन्तस्य ग्रहणम् । तस्येत्यादि । अभ्यासेनात्र स्वनिमितं प्रत्ययः सन्निधापितः, तेन स्वापिरङ्गं विशेष्यते - अभ्यासनिमिते प्रत्यये यदङ्गं स्वापिस्तस्येति । सिस्वापकी यिषतीत्यत्र चाभ्यासनिमितं यः प्रत्ययः सन् न तस्मिन्स्वापिरङ्गम्, यस्मिंश्च स्वापिरङ्गं ण्वुलि न तदभ्यासस्य निमितम् । द्यौतेस्तु - व्यदिद्यौतदिति, अत्राभ्यासस्य निमितं यश्चङ् स यद्यपि णिचा व्यवहितः, तथापि सम्प्रसारणमिष्यते । द्वन्द्वनिर्द्दिष्टयोरेतद्वैषम्यं लभ्यते कथम् ? तस्माद्वक्तव्यमेवैतदिति मन्यामेह वयम् ॥