6-3-139 सम्प्रसारणस्य उत्तरपदे
उत्तरपद इति वर्तते। संप्रसारणान्तस्य पूर्वपदस्योत्तरपदे दीर्घो भवति। कारीषगन्धीपुत्रः।कारीषगन्धीपतिः। कौमुदगन्धीपुत्रः। कौमुदगन्धीपतिः। करीषस्येव गन्धोऽस्य। कुमुदस्येव गन्धोऽस्य।<<अल्पाख्यायाम्>><<उपमानाच्च>>(५.४.१३६,१३७)इतीकारः समासान्तः। करीषगन्धेरपत्यं कारीषगन्ध्या, कुमुदगन्धेरपत्यं कौमुदगन्ध्या। तस्याः पुत्रः कौमुदगन्धीपुत्रः। कौमुदगन्धीपतिः। <<इको ह्रस्वोऽङ्यो गालवस्य>>६.३.६१ इत्येतद् न भवति। व्यवस्थितविभाषा हि सा। अकृत एव दीर्घत्वे ह्रस्वाभावपक्षे कृतार्थनापि दीर्घण पक्षान्तरे परत्वाद् ह्रस्वो बाध्यते। पुनः प्रसङ्गविज्ञानं च न भवति। <<सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव>> इति॥
॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य तृतीयः पादः॥
सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया ह्रस्वो न । [(परिभाषा - ) स्त्रीप्रत्यये चानुपसर्जनेन] इति तदादिनियमप्रतिषेधात् । परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमान्नेह । अतिकारीषगन्ध्यापुत्रः ॥