6-1-13 ष्यङः सम्प्रसारणं पुत्रपत्योः तत्पुरुषे
पुत्र पति इत्येतयोरुत्तरपदयोस्तत्पुरुषे समासे ष्यङः संप्रसारणं भवति। यणः स्थान इग् भवतीत्यर्थः। कारीषगन्धीपुत्रः। कारीषगन्धीपतिः। कौमुदगन्धीपुत्रः। कौमुदगन्धी — पतिः। करीषस्येव गन्धोऽस्य, कुमुदस्येव गन्धोऽस्येति बहुव्रीहिः, तत्र <<उपमानाच्च>> ५.४.१३७ इति गन्धस्येदन्तादेशः। करीषगन्धेरपत्यमित्यण्, तदन्तात् स्त्रियाम् <<अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे>> ४.१.७८ इति ष्यङ्, ततश्चापि विहिते षष्ठीसमासः, <<संप्रसारणस्य>> ६.३.१३९ इति दीर्घत्वम्। ष्यङ इति किम् ? इभ्यापुत्रः। क्षत्रियापुत्रः। पुत्रपत्योरिति किम् ? कारीषगन्ध्याकुलम्। कौमुदगन्ध्याकुलम्। तत्पुरुष इति किम् ? कारीषगन्ध्या पतिरस्य ग्रामस्य, कारीषगन्ध्यापतिरयं ग्रामः। ष्यङ इति स्त्रीप्रत्ययग्रहणं <<न स्त्रीप्रत्यये चानुपसर्जने>> इति प्रत्ययग्रहणपरिभाषया <<यस्मात् स विहितस्तदादेः०>> इत्येष नियमो नास्ति। तेन परमकारीषगन्ध्यायाः पुत्रः परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिरित्यपि भवति। उपसर्जने तु ष्यङि न भवति — अतिक्रान्ता कारीषगन्ध्यामतिकारीषगन्ध्या, तस्याः पुत्रोऽतिकारीषगन्ध्यापुत्रः, अतिकारीषगन्ध्यापतिः। पुत्रपत्योः केवलयोरुत्तरपदयोरिदं संप्रसारणम्, तदादौ तदन्ते च न भवति — कारीषगन्ध्यापुत्रकुलम्, कारीषगन्ध्यापरमपुत्र इति। ष्यङन्ते च यद्यप्यन्ये यणः सन्ति, तथापि ष्यङ एव संप्रसारणम् — <<निर्दिश्यमानस्यादेशा भवन्ति>> इति। संप्रसारणमिति चाधिक्रियते <<विभाषा परेः>> ६.१.४४ इति यावत्॥
ष्यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे ॥
<<ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे>> - संप्रसारणस्य दीर्घ इति । 'ढ्रलोपे' इत्यतस्तदनुवृत्तेरिति भावः । उत्तरपदे इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । कौमुदगन्ध्यायाः पुत्र इति । विग्रहवाक्यमिदम् । कुमुदगन्ध इव गन्धो यस्य स कुमुदगन्धिः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः॑ इति बहुव्रीहिः, कुमुदगन्धशब्दे पूर्वखण्डे उत्तरस्य गन्धशब्दस्य लोपश्च ।उपमानाच्चे॑तीत्त्वम् । कुमुदगन्धेरपत्यं स्त्रीत्यर्थे तस्यापत्यमित्यण् ।अणिञोरनार्षयो॑रिति तस्य ष्यङादेशः ।यस्येति चे॑तीकारलोपः । आदिवृद्धिः ।यङ्श्चाप् । कौमुदगन्ध्याशब्द इति भावः । कौमुदगन्ध्यायाः पुत्र इति । षष्ठीसमासः । सुब्लुकिकौमुदगन्ध्या-पुत्र॑ इति स्थिते ष्यङः संप्रसारणेन यकारस्य इकारः । तस्य, तदुत्तराऽऽकारस्य चसंप्रसारणाच्चे॑ति पूर्वरूपेण इकारेसंप्रसारणस्ये॑ति दीर्घे 'कौमुदगन्धीपुत्र' इति रूपमिति भावः । 'हलः' इति दीर्घस्य तु नात्र प्रसक्तिः, संप्रसारणात् पूर्वस्य हलः संप्रसारमनिमित्तनिरूपिताङ्गावयवत्वाऽभावात् ।कौमुदगन्धीपतिरिति । कौमुदगन्ध्यायाः पतिरिति विग्रहः । पूर्ववत्प्रक्रिया ।इको ह्रस्वोऽङ्यो गालवस्ये॑ति पाक्षिकं ह्रस्वम#आशङ्क्याह — व्यवस्थितविभाषया ह्रस्वो नेति । अत्र तु व्याख्यानमेव शरणम् । स्यादेतत् । करीषं — गोमहिषादिषुरीषम्, करीषगन्ध इव गन्धो यस्य सः करीषगन्धिः, तस्यापत्यं स्त्री — कारीषगन्ध्या, परमा चासौ कारीषगन्ध्या च परमकारीषगन्ध्या, तस्याः पुत्रः परमकारीषगन्धीपुत्र इत्यत्रापि ष्यङः संप्रसारणं, तस्य दीर्घश्चेति स्थितिः । अत्र संप्रसारणं दुर्लभम् । ष्यङः करीषगन्धिशब्दादेव विहितत्वेन परमकारीषगन्ध्याशब्दस्य पूर्वपदस्य ष्यङन्तत्वाऽभावात्प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणादित्यत आह — स्त्रीप्रत्यये चेति । ष्यः स्त्रियां विहितत्वात्स स्त्रीप्रत्ययः । ततश्चस्त्रीप्रत्यये चानुपसर्जने ने॑ति परभाषया तदादिनियमाऽभावात्परमकारीषगन्ध्याशब्दोऽपि ष्यङन्त एवेति तत्र संप्रसारणे दीर्घे चपरमकारीषगन्धीपुत्र॑ इति रूपमिति भावः । इयं परिभाषाष्यङः संप्रसारण॑मिति प्रकृत सूत्रेभाष्ये पठिता । तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह — उपसर्जने त्विति । कारीषगन्ध्यामतिक्रान्तः अतिकारीषगन्ध्यः,अत्यादयः॑इति समासे, उपसर्जनह्रस्वः । तस्य पुत्रोऽतिकारीषगन्ध्यपुत्रः । अत्रस्त्रीप्रत्यये तदादिनियमो ने॑ति निषेध#ओ न भवति, अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तेः । ष्यङ् त्वयं स्त्रीप्रत्ययोऽत्र उपसर्जन एव । अतस्तत्र तदादिनियमसत्त्वादतिकारीषगन्ध्यशब्दो नैव ष्यङन्त इति न संप्रसारणमिति भावः ।
ठिग्यणः संप्रसारणम्ऽ इत्यत्रोक्तम् -ठ्वाक्यार्थः संज्ञी वर्णश्चऽ इति, तत्र विधौ वाक्यार्थ उपतिष्ठते इति तदाश्रयेणाऽऽह -यणः स्थान इग्भवतीत्यर्थ इति। तदन्तात् ष्यङिति। ष्यङ्विधावादेशपक्षस्य स्थित्वाल्ल्यब्लोप एषा पञ्चमी, तदन्तमाश्रित्येत्यर्थः। अतद्गुणसंविज्ञानेऽत्र बहुव्रीहिः, अण् प्रत्ययोऽन्तः समीपो यस्य कारीषगन्धेस्तस्मात्परः ष्यङ्त्यिर्थः। प्रत्ययपक्ष एव वामनाचार्यस्य तत्राभिमतः। तथा च'ये च तद्धिते' इत्यत्र वक्ष्यति -ठणिञन्ताद्वा परः ष्यङ् प्रत्यय एषितव्यःऽ इति। इभमर्हतीतीभ्या,'दण्डादिभ्यो यः' इह कारीषगन्ध्यामतिक्रान्तस्य पुत्रोऽतिकारीषगन्ध्यापुत्र इति प्रत्यग्रहणपरिभाषया समुदायस्याष्यङ्न्तत्वेऽपि योऽत्रष्यङ्न्तस्तस्य प्रसङ्गः। तथा पुत्रस्य कुलं पुत्रकुलम्, कारीषगन्ध्यापुत्रकुलमिति वर्णग्रहणे तदादिविधिविज्ञानादिह च तदभावातदादिविध्यभावेऽपि पुत्रपत्यानन्तर्याश्रयं संग्रसारणं प्राप्नोति। नात्र तर्हीदानीमिदं भवति -कारीषगन्धीपुत्रकुलमिति। भवति च यदैतद्वाक्यं भवति -कारीषगन्धायाः पुत्रः कारीषगन्धीपुत्रस्तस्य कुलं कारीषगन्धीपुत्रकुलमिति। न सिध्यतीति चोद्यार्थः। तथा-अतिकारीषगन्ध्यापुत्रकुलमित्यादावपि सर्वत्र पुत्रपत्योः ष्यङ्न्तस्य चानन्तर्यमाश्रित्य सम्प्रसारणप्रसङ्गः। स्यादेतत् -यथा वृक्षे शाखेति वृक्षः शाखाया अवयवी प्रतीयते, तथेहापि, ष्यङ्न्तस्य पुत्रपत्योश्च तत्पुरुषः, तत्र प्रत्यासत्या यस्य तत्पुरुषस्य प्यङ्न्तोऽवयवस्तस्यैव पुत्रपती इति गम्यते, इह न तथेति? एवमप्यवयवावयवस्य समुदायावयवत्वादस्त्येव प्रसङ्गः? नैष दोषः; पुत्रपत्योरिति सप्ततीनिर्द्देशात् ष्यङ्न्तस्य पुत्रपत्योश्च पौर्वापर्यं प्रतीयते, पूर्वोक्तेन न्यायेन तत्पुरुषावयवत्वं च। तत्पुरुषश्च पौर्वापर्यावस्थितावयवद्वयात्मकः। तदिह तत्पुरुषावयवयोः पौर्वापर्योणावस्थितयोरिदं भवतीत्युक्ते ययोः स तत्पुरु,स्तावेताविति गम्यते, ष्यङ्न्तस्य पूर्वपदस्य पुत्रपत्योरुतरपदयोरित्यर्थः। समासे च यसामाच्च पूर्वं नास्ति तत्पूर्वपदम्, यस्माच्च परं नास्ति तदुतरपदम्, - यत् ष्यङ्न्तं न तत्पूर्वपदम्, यच्चोतरपदं न तत्पुत्रपत्यात्मकम्, यच्च पुत्रपत्यात्मकं न तदुतरपदमिति नास्ति प्रसङ्गः। इहापि तर्हि न प्राप्नोति -परमकारीषगन्धीपुत्र इति? तत्राह - प्यङ् इति स्त्रीप्रत्ययग्रहणमिति।'स्त्रियाम्' इति प्रकृत्य विहितत्वात्स्थानिवद्भावेन स्वयमेव वा प्रत्ययत्वाच्च स्त्रीप्रत्ययत्वम्। यदि स्त्रीप्रत्ययग्रहणम्, ततः किम्? इत्यत आह-तेनेति। अप्रधानमूपसर्जनम्। एतदुक्तं भवति -यत्रार्थे स्त्रीप्रत्ययो विहितः स यावति तदन्ते प्राधान्येनोच्यते तावान्समुदायस्तदन्ततया ग्राह्यः। अप्रधाने च यतो विहितस्तदादिके च तदन्ते च न भवति। यदा तत्पुरुषाक्षिप्तमुतरपदं पुत्रपतिभ्यां विशेष्यते तदा तदन्ते प्रसङ्गः, इह तूतरपदेन पुत्रपती विशेष्येते इति भावः। निर्दिश्यमानस्येति। एतच्च'षष्ठीस्थाने योगा' इत्यत्र व्याख्यातम्। ठनन्त्यविकारेऽन्त्यसदेशस्यऽ इति तु परिभाषा प्रयोजनाबावान्नाश्रिता। सम्प्रसारणग्रहणमुतरार्थम्। इह त्वीशापि सिद्धम्, शकारः सर्वादेशार्थः। तत्रायमप्यर्थः -सम्प्रसारणस्येति योगविभागेन दीर्घत्वं न विधेयं भवति, तदेवोतरार्थत्वं दर्शयति -सम्प्रसारणमिति चेत्यादि। पूर्वं यत्र ष्यङ्न्तं पदमुपरितनं पुत्रपत्यात्मकं स्याद् दृष्ट्वा तत्र ष्यङ् तत्पुरुष इह यण स्थान इग्भावनीयः। यत्रार्थे ष्यङ् स यावत्यपि सति न गुणोऽसाविहेष्टस्तदन्ते यत्रेत्यर्थः प्रधानो न भवति स यतः ष्यङ् तदाद्येव तत्र ॥