न सम्प्रसारणे सम्प्रसारणम्

6-1-37 न सम्प्रसारणे सम्प्रसारणम् सम्प्रसारणम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न भवति। व्यध — विद्धः। व्यच — विचितः। व्येञ् — संवीतः। एकयोगलक्षणमपि संप्रसारणमत एव वचनात् प्रथमं परस्य यणः क्रियते, पूर्वस्य च प्रसक्तं प्रतिषिध्यते। संप्रसारणमिति वर्तमाने पुनः संप्रसारणग्रहणं विदेशस्थस्यापि संप्रसारणस्य प्रतिषेधो यथा स्यादिति। <<श्वयुवमघोनामतद्धिते>> ६.४.१३३ — यूनः। यूना। संप्रसारणग्रहणसामर्थ्यादेव पूर्वस्य प्रतिषेधे वक्तव्ये सवर्णदीर्घत्वमेकादेशो न स्थानिवद् भवति। सति वा स्थानिवत्त्वे व्यवधानमेतावदाश्रयिष्यते॥ ऋचि त्रेरुत्तरपदादिलोपश्छन्दसि॥ ऋचि परतस्त्रेः संप्रसारणं भवति, उत्तरपदादिलोपश्च छन्दसि विषये। तिस्र ऋचो यस्मिन् तत् तृचं सूक्तम्, तृचं साम। <<ऋक्पूरब्धूःपथामानक्षे>> ५.४.७४ इति समासान्तः। छन्दसीति किम् ? त्र्यृचं कर्म॥ रयेर्मतौ बहुलम्॥ रयिशब्दस्य छन्दसि विषये मतौ परतो बहुलं संप्रसारणं भवति। आ रेवानेतु नो विशः। न च भवति — रयि॒मान् पु॑ष्टि॒वर्ध॑नः (मा० सं० ३.४०)॥

Siddhanta Kaumudi

Up

संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अतएव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्यामित्यादि । अर्वा । हे अर्वन् ॥

Laghu Siddhanta Kaumudi

Up

संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात्। इति यकारस्य नेत्वम्। अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम्। यूनः। यूना। युवभ्याम् इत्यादि॥ अर्वा। हे अर्वन्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<न सम्प्रसारणे सम्प्रसारणम्>> - न संप्रसारणे । इति यकारस्येति । सवर्णदीर्घनिष्पन्नस्य ऊकारस्य 'अचः परस्मिन्' इति स्थानिवत्त्वेन संप्रसारणतया यकारस्य संप्रसारणपरकत्वान्न संप्रसारणमिकार इत्यर्थ#ः । ननूकारद्वयस्थानिकस्य ऊकारस्य स्थानिवत्त्वे सति तस्य उकारद्वयात्मकतया प्रथमेन उकारेण व्यवधानात्संप्रसारणपरत्वाऽभावात्कथमिह निषेधः ।येन नाव्यवधान॑मिति न्यायस्य तु नायं विषयः, विव्याथेत्यादौव्यथो लिटी॑ति वकारस्याऽव्यवहितसंप्रसारणपरत्वे निषेधस्य चरितार्थत्वादिति चेन्मैवम् । एवं हि सतिन संप्रसारणे संप्रसारण॑मिति निषेधस्यव्यथो लिटी॑ति संप्रसारणमात्रविषयकत्वमापद्येत । एवंच सतिव्यथो यो लिटी॑ति यकारग्रहणेनैव सिद्धेन संप्रसारणे संप्रसारण॑मिति सूत्रमनर्थकमेव स्यात् । अतःआयुवे॑ति संप्रसारणनिषेधकत्वमस्यावश्यकमिति व्यवहितेऽपि संप्रसारणे परे 'यून' इत्यादौ निषेधो निर्बाधः,यूनस्ति॑रित्यादिनिर्देशाच्चेत्यलम् । ननु सकृत्प्रवृत्त्यैव युवन्शब्दे यवयोः संप्रसारणे जाते निषेधो व्यर्थः । निमित्तत्वानुपपत्तिश्च । यद्वा प्रथमं यकारस्य संप्रसारणमस्तु । तदानीं संप्रसारणपरत्वाऽभावेन निषेधाऽप्रवृत्तेः । अनन्तरं तु वकारस्यापि संप्रसारणमस्तु । तत्राह — अत एव ज्ञापकादिति । अन्यथा एतन्निषेधारम्भवैयथ्र्यापातादिति भावः । इत्यादिति । यूने । यूनः, २ । यूनोः । यूनि ।आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यते॑ इति ऋधातोर्वनिपि गुणे रपरत्वेऽर्वन्शब्दोऽओ योगरूढः ।

Padamanjari

Up

येषां सम्प्रसारणं विहितं तेषां यावन्तो यणस्तेषां सर्वेषां सम्प्रसारणे प्राप्ते प्रतिषेधोऽयमुच्यते। ननु चालोन्त्यपरिभाषयान्त्यस्यैव भविष्यति? नानया परिभाषया शक्यमिहोपस्थातुम्, वच्यादीनामन्त्यस्य यणोऽसम्भवात्। ठनन्त्यविकारेऽन्त्यसदेशस्यऽ इत्यनया परिभाषया तर्हि अन्त्यसदेशस्यैव भविष्यति, नेतरस्य? नैषास्ति परिभाषा; प्रयोजनाभावात्। एतच्चास्माभिः परिभाषाप्रकरणाख्ये ग्रन्थे उपपादितम्। एवं तर्हि ज्ञापकात्सिद्धम्, यदयं प्यायः पीभावं शास्ति, तज्ज्ञापयति -न सर्वस्य यणः सम्प्रसारणं भवतीति। यदि स्यात्, प्यायः सम्प्रसारणमेव विदध्यात्। द्वयोर्यकारयोः सम्प्रसारणे पूर्वत्वे च'हलः' इति दीर्घत्वे च सिद्धं स्यात्पीनं मुखमिति। ननु च प्यायोऽन्त्य यणः। सम्भ्वाकतस्यैव स्यात्? स्यादेवं यदि'प्यायः' इति स्थानषष्ठी विज्ञायेत, अवयवषष्ठी चैषा विज्ञास्यते -प्यायो यो यण् तस्येति। एवमप्येतावदेवानेन ज्ञाप्यते-न ज्ञाप्यते -न सर्वस्य यणः सम्प्रसारणं भवतीति, तत्र कुत् एतत् - परस्यैव भवति न पूर्वस्येति, न च विध्यतीत्यादिनिर्द्देशात्परस्यैवेति शक्यमवगन्तुम्? पर्यायेण प्रवृतावपि तदुपपतेः। तस्मादारभ्यमेवैतत्। ननु पूर्वपरयोर्यणोरेकयोगलक्षणं सम्प्रसारणं तद्यदि परस्याभिनिर्वृतं पूर्वस्याप्यभिनिर्वृतमेव, न चाभिनिर्वृतस्य प्रतिषेधेन निवृत्तिः शक्या विज्ञातुम्, यो हि भुक्तवन्तं ब्रूयाद् मा भुंक्था इति, किं तेन कृतं स्यात्! अथ पूर्वस्यानभिनिर्वृतं परस्याप्यनभिनिर्वृतमेव, तत्र निमित्त्वेनाश्रयणमनुपपन्नम्? इत्यत आह -एकयोगलक्षणमपीति। अपरः कल्पः - अस्तु द्वयोरप्यभिनिर्वृतम्, कथं तर्हि प्रतिषिद्ध्यते? न सम्प्रसारणं प्रतिषिद्ध्यते, किं तर्हि? तदाश्रयं पूर्वत्वम्। तदेव त्वत्र सम्प्रसारणशब्देनोपचारादुच्यते, तस्मिन्प्रतिषिद्धे यणादेशेन सिद्धमिष्टम्। अस्तु वा द्वयोरप्यनभिनिर्वृतम्। कथं तर्हि निमितत्वम्? नैवात्र सम्प्रसारणनिमितम्, किं तर्हि? तद्भावी यो यण् स एव च सप्तम्यन्तेन सम्प्रसारणशब्देनोच्यत इति। पुनः सम्प्रसारणग्रहणमिति। असति तस्मिन्, ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति पूर्वप्रकरणविहितस्यैव सम्प्रसारणस्य प्रतिषेधः स्यान्न विदेशस्थस्य। विभिनन्नो देशःउविदेशः। सम्पब्रसारणग्रहणादेवेति। इह तु'व्यथो लिटि' विव्यथे इति हलादिःशेषापवादः सम्प्रसारणम्, प्रकरणादुत्सर्गदेशश्चापवादो भवतीति परस्यैव संप्रसारणात्सिद्धम्। अत एव पुनः संप्रसारणाद्विदेशस्थेपि संप्रसारणे प्रतिषेध इतीष्टव्यम्, अन्यथा तत्रेति वाच्यं स्यात्। व्यवधानमेतावदाश्रयिष्यत इति। तेनोपपूर्वाद्वसेः'भाषायां सदवसश्रुवः' इति लिटः क्वसौ विभक्तौ च परतो वसोस्सम्प्रसारणे उपेयुषेत्यादौ धातोः प्राप्तस्य यजादिलक्षणस्य संप्रसारणस्य प्रतिषेधो न भवति, प्रत्यक्षेण षकारेण व्यवदानादिति भावः। यदि तु व्यवधानमात्रे स्यात्, तदा समानाङ्गग्रहणं कर्तव्यम्। निमितनिमितिनौ यत्रैकस्मिन्नेवाङ्गे भवतः, तत्र प्रतिषेधो भवतीति वक्तव्यम्। उपेयुषीत्यत्र क्वसौ धातुरङ्गम्, क्वस्वन्तं च विभक्ताविति प्रतिषेधाभावः। अन्तरङ्गत्वाद्वाऽत्र पूर्वमेव धातोः सम्प्रसारणम्। ऋचि त्रेरिति। कल्पसूत्रकारास्तु द्विशब्दस्यापि सम्प्रसारणं प्रयुञ्जते -ठ्तृचाः प्रतिपदनुचराःऽ,'द्वचाः प्रगाथाः' इति ॥