गाङ् लिटि

2-4-49 गाङ् लिटि आर्धधातुके इङः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गाङादेशो भवतीङो लिटि परतः। अधिजगे, अधिजगाते, अधिजगिरे। गाङोऽनुबन्धकरणं विशेषणार्थम्,<<गाङ्कुटादिभ्यः०>> १.२.१ इत्यत्रास्य ग्रहणं यथा स्यात्। नहि स्थानिवद्भावेन गाङिति रूपं लभ्यते॥

Siddhanta Kaumudi

Up

इङो गाङ् स्याल्लिटि लावस्थायां विवक्षते वा । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अध्ययै । गुणायादेशयोः कृतयोरुपसर्गस्य यण् । पूर्वं धातुरुपर्गेणेति- दर्शनेन् तरङ्गत्वाद्गुणात्पूर्वं सवर्णदीर्घः प्राप्तः । णेरध्ययने वृत्तम् <{SK3036}> इति निर्देशान्न भवति । अध्यैत । परत्वादियङ् । तत आट् । वृद्धिः । अध्यैयाताम् । अध्यैयत् । अध्यैयि । अध्यैवहि । अधीयीत । अधीयीयाताम् । अधीयीध्वम् । अधीयीय । अध्येषीष्ट ॥

Laghu Siddhanta Kaumudi

Up

इङो गाङ् स्याल्लिटि। अधिजगे। अधिजगाते। अधिजगिरे। अध्येता। अध्येष्यते। अधीताम्। अधीयाताम्। अधीयताम्। अधीष्व। अधीयाथाम्। अधीध्वम्। अध्ययै। अध्ययावहै। अध्ययामहै। अध्यैत। अध्यैयाताम्। अध्यैयत। अध्यैथाः। अध्यैयाथाम्। अध्यैध्वम्। अध्यैयि। अध्यैवहि। अध्यैमहि। अधीयीत। अधीयीयाताम्। अधीयीरन्। अध्येषीष्ट॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गाङ् लिटि॥ द्विलकारकोऽयं निर्देशः - लिटि लकारादाविति। तेन प्रागेवादेशेभ्यो लावस्थायामेवादेशो भवति। किं सिद्धं भवति? अधिजगे -'द्विर्वचने' चिऽ इति स्थानिवद्भावो न भवति। ङ्त्किरणमनर्थकं स्थानिवद्भावादेव सिद्धमात्मनेपदमित्याशङ्क्याह - गाङ्यनुबन्धकरणमिति। गाङिति ग्रहणं यथा स्यादिति। ननु चैतदपि स्थानिवद्भावादेव सिद्धम्, नेत्याह - न हीति।'गाङ्कुटादिभ्यः' इति उच्यमाने'कै गै रै शब्दे' इणो गा लुङीत्येतयोरपि ग्रहणं प्राप्नोति, ततश्चागासीन्नटः, अगासातां ग्रामौ देवदतेनेत्यत्रापि घुमास्थादिसूत्रेणेत्वं प्रसज्येत। अपर आह - यत्र सानुबन्धकात्षष्ठयुच्चार्यते, तत्राकृतायामेवेत्सञ्ज्ञायामादेशः प्रवर्तते, सत्यामपि वा तस्यामनुबन्धकार्यमादेशे न भवतीत्यस्यार्थस्य ज्ञापनार्थ गाङ्यनुबन्धकरणमिति। किं प्रयोजनम्?'चक्षिङ्ः ख्याञ्' ङ्ति इत्यात्मनेपदं न भवति; ञिदादेशकरणसामर्थ्यात्'स्वरितञितः' इत्येतदेव भविष्यति। इह तर्हि'लटः शतृशानचौ' , लट इति सानुबन्धकात्षष्ठी, पचमानः,'टितः' इत्येत्वं न भवतीति?प्रकृतानामात्मनेपदानामेत्वविधानादिह न भवति। इह तर्हिठ्युवोरनाकौऽ इत्यत्र भुज्यः, शंयुरित्यत्र मा भूदिति, अनुनासिकोकारानुबन्धौ युवू सूत्रे निर्दिष्टौ; ततश्च नन्दनः, कारकः, नन्दना, कारिका स्थानिवद्भावादुगिल्लक्षणौ ङीब्नुमौ प्राप्नुतः, अस्माज् ज्ञापकान्न भवतः। अनुनासिकयणोस्तत्र ग्रहणम्, न त्वनुनासिकोकारानुबन्धयोरिति नात्रोगित्कार्यप्रसङ्गः। इह हि'सेर्ह्यपिच्च,' सिपो हिरिति वक्तव्यम्, अपिच्चेति न वक्तव्यम्, इह च'तुह्यएस्तातङ् इति तिप्सिपोस्तदाशिषीति सानुबन्धकात्षष्ठीमुच्चार्थादेशो विधेयः, ङ्त्किरणं न कर्तव्यम्। इह च'तस्थस्थमिपाम्' इति पकारो नोच्चार्थः, तेनाचिनवमित्यादौ गुणसिद्धिः, ठणिञोरनार्षयोः क्त्वो ल्प्' इत्यादऐ यत्र स्थान्यनुबन्धकार्यमिष्यते तत्राननुबन्धकः स्थान्युपादेयः। वाराह्या प्रकृत्येत्यादौ वृद्धिर्गुणप्रतिषेधश्च भब्रति तदेवमस्य पक्षस्य मन्दत्वादनुपन्यासः॥