ऋदुपधाच्चाकॢपिचृतेः

3-1-110 ऋदुपधात् च अक्लृपिचृतेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋकारोपधाच्च धातोः क्यप् प्रत्ययो भवति क्ऌपिचृती वर्जयित्वा। वृतु — वृत्यम्। वृधु — वृध्यम्। अक्ऌपिचृतेरिति किम्? कल्प्यम्। चर्त्यम्। तपरकरणं किम्? <<कृत संशब्दने>> । ण्यदेव भवति। कीर्त्यम्॥ पाणौ सृजेर्ण्यद् वक्तव्यः॥ पाणिसर्ग्या रज्जुः॥ समवपूर्वाच्च॥ समवसर्ग्या॥

Siddhanta Kaumudi

Up

वृत् । वृत्यम् । वृध् । वृध्यम् । कॢपिचृत्योस्तु । कल्प्यम् । चर्त्यम् । तपरकरणं किम् । कॄत् । कीर्त्यम् । अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् । णिजन्तात्तु यदेव ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ऋदुपधाच्चाकॢपिचृतेः>> - ऋदुपधाच्चा । कॢप्चृती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः । ननु तपरकरममिह व्यर्थमित्यत आह — अनित्यण्यन्ता इति । णिजन्तात्तु यदेवेति ।अचो य॑दित्यनेनेति भावः ।

Padamanjari

Up

ऋदुपधाच्चाकॢपिचृतेः॥ कॢपिचृती वर्जयित्वेति।'कॢपू सामर्थ्ये' 'चृती हिंसाग्रन्थनयोः' कृपेर्लत्वस्यासिद्धत्वाद्दकारऌकारयोस्सवर्णसंज्ञाविधानाच्च ऋदुपधात्वम्। कृत संशब्दने ण्यदेव भवतीति। ठनित्यण्यन्ताश्चुरादयऽ इति णिजभावपक्ष इति भावः। इदमेव च तपरकरणं लिङ्गम् - अनित्यण्यन्ताश्चुरादय इति। णिजन्तातु णिलोपे कृते चाकृते च दित्स्यं धित्स्यमितिवद्यदेव भवति। पाणिसर्ग्येति। पाणिभ्यां सृज्यत इत्युपपदसमासः, पूर्ववत्कुत्वम्। एवं समवसर्ग्येत्यत्रापि॥