दिवस्तदर्थस्य

2-3-58 दिवः तदर्थस्य अनभिहिते षष्ठी शेषे कर्मणि व्यवहृपणोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

व्यवहृपणिसमानार्थस्य दीव्यतेः कर्मणि षष्ठी विभक्तिर्भवति। शतस्य दीव्यति। सहस्रस्य दीव्यति। तदर्थस्येति किम्? ब्राह्मणं दीव्यति। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

Up

द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् ? ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<दिवस्तदर्थस्य>> - दिवस्तदर्थस्य पूर्वसूत्रे निर्दिष्टव्यवह्मपणौ तच्छब्देन परामृश्येते । तयोः=व्यवह्मपणोरर्थ एवार्थो यस्येति विग्रहः । तदाह — द्यूतार्थस्येति । द्यूतमक्षक्रीडनेन ग्रहणमर्थो यस्य दिव इति विग्रहः । क्रयेति । क्रयविक्रयविषयकमूल्यसंवादोऽर्थो यस्यदिव इति बहुव्रीहिः । कर्मणि षष्ठीति । इह शेष इति नानुवर्तते, व्याख्यानादिति भावः । तथाच कर्मणः शेषत्वविवक्षाऽभावात् 'षष्ठी शेषे' इत्यप्राप्तौ इदं वचनम्, नतु कृदन्तयोगे समासनिवृत्त्यर्थम् । तद्ध्वनयन्नुदाहरति — शतस्य दीव्यतीति । शतमक्षक्रीडनेन, क्रयविक्रयविषयकमूल्यसंवादेन वा गृह्णातीत्यर्थः । अत्र शेष इत्यननुवृत्तेः कर्मत्वप्रकारक एव बोधः । अत एवद्वितीया ब्राआहृणे॑ इत्युत्तरसूत्रेगामस्य तदहः सभायां दीव्येयुः॑ इत्यत्र नित्यषष्ठीप्राप्तौ द्वितीयार्थ॑मित्युक्तं भाष्यकैयटयोः सङ्गच्छत इत्यन्यत्र विस्तरः ।

Padamanjari

Up

दिवस्तदर्थस्य॥ अत्र'शेष' इति नानुवर्तते, उतरसूत्रद्वयारम्भसामथ्यत्। इथ पूर्वसूत्र एव दिविरपि कस्मान्न पठितः, एवं हि तदर्थस्येति न वक्तव्यं भवति? तत्राह - योगविभाग इति॥