विभाषा कृवृषोः

3-1-120 विभाषा कृवृषोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कृञो वृषश्च विभाषा क्यप् प्रत्ययो भवति। करोतेर्ण्यति प्राप्ते, वर्षतेर्ऋदुपधत्वाद् नित्ये क्यपि प्राप्ते विभाषारभ्यते। कृत्यम्, कार्यम्। वृष्यम्, वर्ष्यम्॥

Siddhanta Kaumudi

Up

क्यप्स्यात् । कृत्यम् । वृष्यम् । पक्षे ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा कृवृषोः>> - विभाषा कृवृषोः । पञ्चम्यर्थे षष्ठी । कृञ ऋदन्तत्वान्नित्यं ण्यति प्राप्ते, वृषेरृदुपधत्वान्नित्यं क्यपि प्राप्ते च क्यब्विकल्पोऽयम् । पक्षे इति । क्यबभावपक्षे विशेषो वक्ष्यते इत्यर्थः ।

Padamanjari

Up

विभाषा कृवृषोः॥ वृष्यमिति।'वृषु सेचने' ॥