विभाषा ग्रहः

3-1-143 विभाषा ग्रहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

विभाषा ग्रहेर्धातोर्णप्रत्ययो भवति। अचोऽपवादः। ग्राहः,ग्रहः। व्यवस्थितविभाषा चेयम्। जलचरे नित्यं ग्राहः। ज्योतिषि नेष्यते, तत्र ग्रह एव॥ भवतेश्चेति वक्तव्यम्॥ भवतीति भावः, भवः॥

Siddhanta Kaumudi

Up

णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः ॥ भवतेश्चेति काशिका ॥ भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच् । भावः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा ग्रहेः>> - विभाषा ग्रहः । व्यवस्थितविभाषेयमिति । इदंशाच्छो॑रिति सूत्रे भाष्ये स्पष्टम् । तेनेति । जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ 'ग्राह' इत्येव भवति, ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये 'ग्रह' इत्येव भवतीत्यर्थः । भवतेश्चेति ।णो वे॑ति शेषः । पक्षे अच् । काशिकेति । भाष्ये तु न दृस्यते इति बावः । इयमपि व्यवस्थिविभाषैव । तदाह — भवो देव इति । महादेव इत्यर्थः । अत्र अजेवेति भावः । भावाः पदार्था इति । अत्र ण एवेति भावः । ननुभवतेश्चे॑ति णविकल्पस्य भाष्ये अदर्शनात् कथं भाष्यमते भावशब्द इत्यत आह — भाष्यमते त्विति । भावयति प्रापयति स्वस्वकार्यमित्यर्थे 'भृ प्राप्तौ' इतिचुरादिण्यन्ताद्भावीत्यस्मादच्प्रत्यये णिलोपे भावशब्द इत्यर्थः ।

Padamanjari

Up

विभाषा ग्रहः॥ व्यवस्थितविभाषा चेयमिति। एतदेव स्पष्टयति - जलचर इति। भव इति। भवत्येव न तु कदाचिन्न भवतीति भवःउदेवः, संसारश्च। भावाःउपदार्थाः॥