2-4-50 विभाषा लुङ्लृङोः आर्धधातुके इङः च गाङ् लिटि
लुङि लृङि च परत इङो विभाषा गाङादेशो भवति। आदेशपक्षे <<गाङ्कुटादिभ्यः०>> १.२.१ इति ङित्त्वम्, <<घुमास्थागापाजहातिसां हलि>> ६.४.६६ इतीत्वम्। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। न च भवति — अध्यैष्ट, अध्यैषाताम्, अध्यैषत। लृङि खल्वपि — अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त। न च भवति — अध्यैष्यत, अध्यैष्येताम्, अध्यैष्यन्त॥
इङो गाङ् वा स्यात् ॥
इङो गाङ् वा स्यात्॥
<<विभाषा लुङ्लृङोः>> - आगस्त्य । अगस्तयः । कुण्डिना इति । अगस्त्यशब्दादृष्यणो लुक् । प्रकृतेरगस्त्यादेशः । कौण्डिन्यशब्दो गर्गादियञन्तः । बहुत्वे यञो लुक् । प्रकृतेः कुण्डिनादेशश्च ।यस्कादिभ्यो गोत्रे॑ इत्यारभ्यआगस्त्यकौण्डिन्ययोः॑ इत्यन्तं द्वैतीयीकम् । अथ प्रकृतं चातुर्थिकम्- ।