ग्रो यङि

8-2-20 ग्रः यङि पदस्य पूर्वत्र असिद्धम् रः लः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गृृ इत्येतस्य धातो रेफस्य लकार आदेशो भवति यङिपरतः। निजेगिल्यते,निजेगिल्येते, निजेगिल्यन्ते। भावगर्हायां ग्रो यङ् विहितः ३.१.२४। केचिद् ग्र इति गिरतेर्गृणातेश्च सामान्येन ग्रहणमिच्छन्ति। अपरे तु गिरतेरेव, न गृणातेः। गृणातेर्हि यङेव नास्ति, अनभिधानादिति। यङीति किम् ? निगीर्यते॥

Siddhanta Kaumudi

Up

गिरते रेफस्य लत्वं स्याद्यङि । गर्हितं गिलति । जेगिल्यते । घुमास्था - <{SK2462}> इतीत्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । विभाषा श्वेः <{SK2420}> । शोशूयते । शेश्वीयते । यङि च <{SK2623}> । सास्मर्यते । रीङृतः <{SK1234}> । चेक्रीयते । सुट् । संचेस्क्रीयते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

उदाहरणे ठृत इद्धातोःऽ इतीत्वम्, रपरत्वम्,'हलि च' इति दीर्घस्यासिद्धत्वात्पूर्वमनेन लत्वम्, ततोऽपहृतनिमितत्वाद्दीर्घाभावः । गिरतेः, गृणातेश्चेति । निगरणार्थस्य, शब्दार्थस्य च । सामान्येनेति । विशेषानुपादानात् । अपरे तु गिरतेरेव ग्रहणमिच्छन्तीत्यनुषङ्गः । कः पुनरत्र हेतुः ? इत्यत आह - गृणातेस्त्विति । तु ह्यर्थे । निगीर्यत इति । यक् ॥