अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा

3-4-18 अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसि भावलक्षण इति सर्वं निवृत्तम्। अलं खलु इत्येतयोः प्रतिषेधवाचिनोरुपपदयोर्धातोः क्त्वा प्रत्ययो भवति प्राचामाचार्याणां मतेन। अलं कृत्वा। खलु कृत्वा। अलं बाले रुदित्वा। अलंखल्वोरिति किम्? मा कार्षीः। प्रतिषेधयोरिति किम्? अलंकारः। प्राचांग्रहणं विकल्पार्थम्। अलं रोदनेन। वासरूपविधिश्चेत् पूजार्थम्॥

Siddhanta Kaumudi

Up

प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेन <{SK783}> इति नियमान्नोपपदसमासः । दो दद्धोः <{SK3077}> । अलं दत्त्वा । घुमास्था-<{SK2462}> । पीत्वा खलु । अलंखल्वोः किम् । मा कार्षीत् । प्रतिषेधयोः किम् । अलंकारः ॥

Laghu Siddhanta Kaumudi

Up

प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेनेति नियमान्नोपपदसमासः । दो दद्घोः । अलं दत्त्वा । घुमास्थेतीत्वम् । पीत्वा खलु । अलंखल्वोः किम् ? मा कार्षीत् । प्रतिषेधयोः किम् ? अलंकारः ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

'तुमर्थे' इत्येव । अलंकृत्वेति । ठमैवाव्ययेनऽ इति नियमादुपपदसमासाभावः । न कर्तव्यमित्यर्थः । वासरूप इति चेदिति । पूर्वं तु प्रैषादिषु कृत्यानां वचनेन'स्त्र्यधिकाराधूर्ध्वं वासरूपविधिर्नावश्यमस्ति' इति ज्ञापितत्वादिह तदभावमभिप्रेत्य प्राग्ग्रहणं विकल्पार्थमित्युक्तम् ॥