3-4-17 सृपितृदोः कसुन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि भावलक्षणे
भावलक्षणे छन्दसीति वर्तते। सृपितृदोर्धात्वोर्भावलक्षणेऽर्थे वर्तमानयोश्छन्दसि विषये तुमर्थे कसुन् प्रत्ययो भवति। पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन् (तै०सं० १.१.९.३)। पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ (ऋ० ८.१.१२)॥
भावलक्षणे इत्येव । पुरा क्रूरस्य विसृपो विरप्शिन् (पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विर॒प्शिन्) । पुरा जत्रुभ्य आतृदः (पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑) ॥ इति तृतीयोऽध्यायः ॥