3-4-16 भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यः तोसुन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि
कृत्यार्थ इति निवृत्तम्। तुमर्थ इति वर्तते। प्रकृत्यर्थविशेषणं भावलक्षणग्रहणम्। भावो लक्ष्यते येन तस्मिन्नर्थे वर्तमानेभ्यः स्थादिभ्यो धातुभ्यश्छन्दसि विषये तुमर्थे तोसुन् प्रत्ययो भवति। आ संस्थातोर्वेद्यां शेरते (काठ०सं० ११.६)। आ समाप्तेः सीदन्तीत्यर्थः। इण् — पुरा सूर्यस्योदेतोराधेयः (काठ०सं० ८.३)। कृञ् — पुरा वत्सानामपाकर्तोः (काठ०सं० ३१.१५)। वदि — पुरा प्रवदितोरग्नौ प्रहोतव्यम्। चरि — पुरा प्रचरितोराग्नीध्रीये होतव्यम् (गो०ब्रा० २.२.१०)। हु — आ होतोरप्रमत्तस्तिष्ठति। तमि — आ तमितोरासीत (तै०ब्रा० १.४.४.५)। जनि — आ विज॑नितोः॒ संभ॑वा॒मेति॒ (तै०सं०२.५.१.५)॥
आसंस्थातोः सीदन्ति । आसमाप्तेः सीदन्तीत्यर्थः । उदेतोः । अपकर्तोः । काममाविजनितोः संभवामः । इति श्रुतिः ॥
संस्थानादीनामवधित्वेन लक्षणभावः । आ समाप्तेरिति । सम्पूर्वो हि तिष्ठतिः समाप्तौ रूढः; सन्तिष्ठते पिण्डपितृयज्ञ इत्यादौ दर्शनात् । आतामितोरिति ।'तमु ग्लानौ' ॥