अज्ञाते

5-3-73 अज्ञाते प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः

Sampurna sutra

Up

अज्ञाते प्रातिपदिकात् तिङः च कः

Neelesh Sanskrit Brief

Up

'अज्ञातः' इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् तिङन्तात् च स्वार्थे क-प्रत्ययः (उत तस्य अपवादः) विधीयते ।

Kashika

Up

अज्ञातविशेषोऽज्ञातः। अज्ञातत्वोपाधिकेऽर्थे वर्तमानात् प्रातिपदिकात् तिङन्तात् च स्वार्थे यथाविहितं प्रत्ययो भवति। स्वेन रूपेण ज्ञाते पदार्थे विशेषरूपेणाज्ञाते प्रत्ययविधानमेतत्। कस्यायमश्व इति स्वस्वामिसंबन्धेनाज्ञातेऽश्वे प्रत्ययः, अश्वकः। गर्दभकः। उष्ट्रकः। एवमन्यत्रापि यथायोगमज्ञातता विज्ञेया। उच्चकैः। नीचकैः। सर्वके। विश्वके। पचतकि। जल्पतकि॥

Siddhanta Kaumudi

Up

कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके ।<!ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् !> (वार्तिकम्) ।<!अन्यत्र तु सुबन्तस्य टेः प्रागकच् !> (वार्तिकम्) ॥ युवकयोः । आवकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः । ओकारेत्यादि किम् । त्वयका । मयका ।<! अकच्प्रकरणे तूष्णीमः काम्वक्तव्यः !> (वार्तिकम्) ॥ मित्त्वादन्तादचः परः । तूष्णीकामास्ते ॥<!शीले को मलोपश्च !> (वार्तिकम्) ॥ तूष्णींशीलः तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥

Laghu Siddhanta Kaumudi

Up

कस्यायमश्वोऽश्वकः। उच्चकैः। नीचकैः। सर्वके। <<ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र सुबन्तस्य>> (वार्त्तिकम्)। युष्मकाभिः। युवकयोः। त्वयका॥

Neelesh Sanskrit Detailed

Up

'अज्ञातम्' (unknown) इत्यनेन यस्य पदार्थस्य निर्देशः भवति, तस्मात् प्रातिपदिकात् स्वार्थे 'क' इति प्रत्ययः (उत तस्य अपवादः) विधीयते । अत्र 'अज्ञात' इत्यनेन 'अज्ञातः सम्बन्धः' इति अर्थः ग्रहीतव्यः - इति व्याख्यानेषु स्पष्टीक्रियते । कानिचन उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् - 1. अज्ञातः अश्वः = अश्व + क → अश्वकः । सः अश्वः, यस्य स्वामी अज्ञातः अस्ति, 'अश्वक' इत्यनेन सम्बुध्यते । 2. अज्ञातः गर्दभः = गर्दभ + क → गर्दभक । 3. अज्ञातः उष्ट्रः = उष्ट्र + क → उष्ट्रक । अव्ययानाम्, सर्वनामशब्दानाम्, तथा च तिङन्तानाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते, परन्तु एतेभ्यः परस्य क-प्रत्ययस्य अपवादरूपेण <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> 5.3.71 इति अकच्-प्रत्ययः विधीयते, सः च अङ्गस्य टि-संज्ञकात् पूर्वमागच्छति । एतेषाम् विषये तु सामान्यविहिता अज्ञातता एव स्वीक्रियते, यत' 'अज्ञातः सम्बन्धः' इति अर्थः अत्र साधु न भवति । उदाहरणानि एतानि - 1. अज्ञातः उच्चैः (unknown height) = उच्च् + अकच् + ऐस् → उच्चकैः । 2. अज्ञातः शनैः (unknown slow speed) = शन् + अकच् + ऐस् → शनकैः । 3. अज्ञाताः सर्वे (unknown all) = सर्व् + अकच् + जस् → सर्वके । 4. अज्ञातम् पचति (someone cooks something unknown) = पचतकि । अयम् शब्दः क्रियापदरूपेणैव प्रयुज्यते । यथा - 'रामः पचतकि' । 'रामः अज्ञातम् पचति' इत्याशयः ।

Balamanorama

Up

<<अज्ञाते>> - अज्ञाते । अज्ञातेऽर्थे विद्यमानात्सुबन्तात्स्वार्थे कप्रत्ययः स्यात् । अव्ययसर्वनाम्ना तिङन्तानां च टेः प्रागकच्स्यात् । तत्रापि ककारान्ताव्ययानां दकारोऽन्तादेशः स्यादित्यर्थः । कस्यायमिति । स्यादित्यर्थः । अज्ञातत्वाभिनयोऽयम् । अज्ञातोऽआ इति विग्रहः । उच्चकैरिति । उच्चैरित्यव्ययस्य टेः प्रागकच् । सर्वके विआके इति । ननु अव्ययसर्वनाम्नामिति सूत्रे 'सुप' इत्यनुवृत्तेः सुबन्तानां सर्वनाम्नां टेः प्रागकजिति फलितम् । तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिरित्यत्र सुबन्तानां टेः प्रागकजिति फलितम् । तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिरित्यत्र सुबन्तानां टेः प्रागकचि युवकयोः, आवकयोः, युष्मकासु अस्मकासु, युष्मकाभिः अस्मकाभिरिति न स्युः । युवयकोः आवयकोः, युष्मासकु अस्मासकु, युष्माभकिः अस्माभकिरिति स्युः । यदि तु 'सुप' इत्यननुवर्त्त्य प्रातिपदकादित्येवानुवर्त्त्यं प्रातिपदिकादेव सर्वनाम्नां टेः प्रागकजित्यर्थः स्यात् तर्हिं त्वयका मयकेति न स्यात् । त्वकया, मकया इति स्यादित्यत आह — ओकारेति । वार्तिकमिदम् । ओकारादौ सकारादौ भकारादौ च सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र तु सुबन्तस्यैव सर्वनाम्नष्टेः प्रागकजित्यर्थः । इदं तु वार्तिकं युष्मदस्मन्मात्रविषयकमेव, भाष्ये तथैवौदाहृतत्वात् । अन्येषां तु सर्वनाम्नां प्रातिपदिकस्यैव टेः प्रागकच्, नतु सुबन्तानाम् । तेन सर्वकेणेत्यादि सिद्धम् । अत एवविभक्तौ परतो विहितः किमः क आदेशः साकच्कार्थः, कः कौ के इति भाष्यं सङ्गच्छते । त्वयका मयकेति । इह त्वया मयेति सुबन्तयोष्टेः प्रागकच् । प्रातिपदिकस्य टेः प्रागकचि तु त्वकया मकयेति स्यादिति भावः । काम् वक्तव्य इति । 'काम्प्रत्यय' इति वृत्तिस्तु चिन्त्या, भाष्ये प्रत्ययशब्दस्याऽदर्शनात् । किं तु मित्त्वादागम एवायम् । तदाह — मित्त्वादिति । अकचोऽपवादः । तूष्णीकामिति । तूष्णीमित्यव्ययस्य ईकारादुपरि का इत्याकारान्त आगमः ।शीले इति । इदमपि वार्तिकम् ।तूष्णी॑मित्यव्ययात्कप्रत्ययः स्यान्मकारस्य लोपश्च शीले गम्ये इत्यर्थः । शीलं=स्वभावः । तूष्णीक इति । मौनस्वभाव इत्यर्थः । भाष्ये दीर्घस्यैव प्रयोगदर्शनात् 'केऽणः' इति ह्रस्वो न भवति ।अव्ययसर्वनाम्ना॑मित्यत्र तिङश्चेत्यनुवृत्तेः प्रयोजनमाह — पचतकीति ।पचती॑त्यत्र इकारात्प्रागकच् । ककारदकार उच्चारणार्थः । अन्यथा इकारात्प्रागकच्प्रत्यये आद्गुणे 'पचतके' इति स्यादिति भावः । जल्पतकीति ।जल्पती॑त्यस्य टेः प्रागकच् । धकिदिति ।धि॑गित्यव्ययस्य टेः प्रागकच्, कान्तस्याव्ययस्य दकारश्चान्तादेश इति बोध्यम् ।तिङश्चे॑त्यप्यनुवर्तते । अआक इति । धावनस्य असम्यक्त्वादआस्य कुत्सा बोध्या । सर्वनामाव्ययतिङन्तानि पूर्ववदुदाहार्याणि ।याप्येपाश॑विति प्रवृत्तिनिमित्तकुत्सायामेव भवति, इदं तु सूत्रमप्रवृत्तिनिमित्तकुत्सायामपीति भाष्ये स्पष्टम् ।

Padamanjari

Up

अज्ञात इति सामान्येनोच्यते, न च सर्वथाऽविज्ञाते शब्दप्रयोगे एवल सम्बवति, न खल्वस्व इत्यजानन्नश्वशब्दं प्रयोक्तुमर्हति, तस्माद्विशेषस्य ग्रहणमित्याह - अज्ञातविशेषो ज्ञात इति। विशेषमेव दर्शयति - स्वेन रूपेणेति। विसेषरूपेणेति अस्य विवरणम् - कस्यायमश्व इत्यादि। इहाज्ञातः प्रकृष्टः पटुअरित्यर्थद्वयविवक्षायां पश्चात्कः - पटुअतमक इति भवति। इह च कुत्सितमर्द्धपिप्पल्या इति विवक्षायाम् पूर्वं समासः, पश्चात्कः - अर्द्धपिप्पलीकेति भवति। एतेन कल्पबादयो व्याख्याताः। आह च -'कविदेस्तमबादयः पूर्वविप्रतिषिद्धम् एकदेशिप्रधानश्च समासः' इति। इह तु च्छिन्नकतरमिति - ठनत्यन्तगतौ क्तात्ऽ इति परत्वात्कनि कृते तरब् भवति। कदाचिद् द्वन्द्वः - प्लक्षन्यग्रोधकौ, प्लक्षकन्यग्रोधकौ इति वा ॥