अन्तरं बहिर्योगोपसंव्यानयोः

1-1-36 अन्तरं बहिः योगोपसंव्यानयोः सर्वनामानि विभाषा जसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

'स्थलात् बहिः' तथा 'अन्तर्वस्त्रम्' एतयोः अर्थयोः प्रयुक्तस्य 'अन्तर' शब्दस्य 'जस्' प्रत्यये परे विकल्पेन सर्वनामसंज्ञा भवति ।

Neelesh English Brief

Up

The word 'अन्तर', when used in the meaning of 'outside a certain place' or 'undergarment', is optionally called 'सर्वनाम' when followed by the 'जस्' प्रत्यय.

Kashika

Up

अत्रापि पूर्वेण नित्या सर्वनामसंज्ञा प्राप्ता सा जसि विभाष्यते। अन्तरमित्येतच् छब्दरूपं विभाषा जसि सर्वनामसंज्ञं भवति बहिर्योग उपसंव्याने च गम्यमाने। अन्तरे गृहाः, अन्तरा गृहाः। नगरबाह्याश्चाण्डालादिगृहा उच्यन्ते। अन्तरे शाटकाः, अन्तराः शाटकाः। उपसंव्यानं परिधानीयमुच्यते, न प्रावरणीयम्। बहिर्योगोपसंव्यानयोरिति किम्? अनयोर्ग्रामयोरन्तरे तापसः प्रतिवसति। तस्मिन्नन्तरे शीतान्युदकानि। मध्यप्रदेशवचनोऽन्तरशब्दः। गणसूत्रस्य चेदं प्रत्युदाहरणम्॥ अपुरीति वक्तव्यम्॥ अन्तरायां पुरि वसति॥ विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसंज्ञेत्युपसंख्यानम्॥ द्वितीयस्मै, द्वितीयाय। तृतीयस्मै, तृतीयाय॥

Siddhanta Kaumudi

Up

बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे अन्तरा वा गृहाः । बाह्या इत्यर्थः । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

बाह्ये परिधानीये चार्थऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा । अन्तरे, अन्तरा वा गृहाः , बाह्या इत्यर्थः । अन्तरे, अन्तरा वा शाटकाः परिधानीया इत्यर्थः ॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> 1.1.27 इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं अन्तिमम् (दशमम्) सूत्रम् । इदं विभाषासूत्रम् अस्ति । 'अन्तर' इत्यस्य शब्दस्य नित्यरूपेण प्राप्ता सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते । सर्वादिगणस्य '<<अन्तरं बहिर्योगोपसंव्यानयोः>>' इति गणसूत्रम् <<सर्वादीनि सर्वनामानि>> 1.1.27 अस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे <<अन्तरं बहिर्योगोपसंव्यानयोः >> इति गणसूत्रम् पाठितम् अस्ति । अनेन गणसूत्रेण 'अन्तर' इति शब्दस्य 'बहिर्योगः' (बहिः स्थितः, located outside) तथा च 'उपसंव्यानम्' (Undergarments) एतयोः अर्थयोः सर्वनामसंज्ञा भवति । यथा - भिक्षुः नगरात् अन्तरः (बहिः) वसति । सः अन्तरम् (अन्तर्वस्त्रम्) धारयति । उभयत्र 'अन्तर'शब्दस्य सर्वनामसंज्ञा भवति । 'अन्तर' शब्दस्य 'मध्ये' इत्यपि कश्चन अर्थः अस्ति । यथा, नगरस्य अन्तरे नदी वहति । अस्मिन् अर्थे 'अन्तर'शब्दस्य सर्वनामसंज्ञा न भवति । 'अन्तर'शब्दस्य सर्वनामसंज्ञा प्रकृतसूत्रेण न भवति अपितु सर्वादिगणे विद्यमानेन <<अन्तरं बहिर्योगोपसंव्यानयोः >> इत्यनेन गणसूत्रेण भवति इति स्मर्तव्यम् । जस्-प्रत्यये परे सर्वनामसंज्ञायाः विकल्पः सर्वादिगणे विद्यमानेन <<अन्तरं बहिर्योगोपसंव्यानयोः >> इत्यनेन गणसूत्रेण 'बहिर्योगः' तथा 'उपसंव्यानम्' एतयोः अर्थयोः प्रयुक्तस्य 'अन्तर' शब्दस्य नित्यं सर्वनामसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण जस्-प्रत्यये परे अस्याः पाक्षिकः बाधः क्रियते । अतः जस्-प्रत्यये परे अस्य 'अन्तर' शब्दस्य पुंल्लिङ्गस्य 'अन्तरे / अन्तराः' इति द्वे रूपे भवतः । अन्यत्र सर्वत्र तु अस्य रूपाणि 'सर्व'शब्दसदृशानि एव ज्ञेयानि । प्राप्तविभाषा प्रकृतसूत्रे निर्दिष्टा विभाषा प्राप्तविभाषा अस्ति । पूर्वसूत्रेण नित्यं प्राप्ता सर्वनामसंज्ञा अत्र पक्षे निषिध्यते, अतः इयं प्राप्तविभाषा । व्यवस्थितविभाषा प्रकृतसूत्रेण जस्-प्रत्यये परे निर्दिष्टः सर्वनामसंज्ञानिषेधः जस्-प्रत्ययविशिष्टकार्यार्थः एव ज्ञेयः, अन्यकार्यार्थः न । अतः <<अव्ययसर्वनाम्नामकच्प्राक्टेः>> 5.3.71 इत्यनेन विहितः अकच्-प्रत्ययः 'अन्तर' शब्दात् अन्तरङ्गत्वात् जस्-प्रत्ययविधानात् पूर्वमेव भवति । अतः अकच्-प्रत्यये कृते ततः जस्-प्रत्ययं कृत्वा 'अन्तरके / अन्तरकाः' एतादृशे अकच्-प्रत्ययनिर्मिते अन्तोदात्तरूपे एव भवतः ।

Balamanorama

Up

<<अन्तरं बहिर्योगोपसंव्यानयोः>> - अन्तरम् । अत्रापिसर्वनामानी॑तिविभाषा जसी॑ति चानुवर्तते । बहिः=अनावृतप्रदेशः, तेन योगः=सम्बन्धः यस्य स बहिर्योगः=बहिर्विद्यमानोऽर्थ इति यावत् । उपसंवीयते=परधीयते इति उपसंव्यानम्न्तरीयं वस्त्रम् । तदाह — बाह्रा इत्यादिना ।

Padamanjari

Up

बहिरित्यनावृतो देश उच्यते । बहिरित्यनेन योगो बहिर्योग इतीतिशब्दाध्याहारेण विगृह्य समासः । स चानावृतस्य बाह्यस्य वस्तुनो भवति । उपसंवीयते विधीयते वासोऽन्तरेणेत्युपसंव्यानम्, कर्मणि ल्युट् । नगरबाह्या इति । बहिर्योगं दर्शयति । परिधानीयमन्तर्वासः, प्रावरणीयं बहिर्वासः । अन्तरे तापस इति । अत्र संज्ञाभावाद् णेóः स्मिन्न भवति । 'जसि' इति वर्तमाने कथं सप्तमान्तं प्रत्युदाहरणे दीयत इत्यत आह - गणसूत्रस्य चेत्याद । गणसूत्रमप्येवमेव पठ।ल्ते । कस्मात्पुनरप्रस्तुतस्य गणसूत्रस्य प्रत्युदाहरणं दीयते, न सूत्रस्य ? 'अपुरीति वक्तव्यम्' इति वक्ष्यति, तद् गणसूत्रविषयं यथा स्यादिति; तस्यायं प्रस्तावः । सूत्रस्याप्यनया दिशा प्रत्युदाहरणं गम्यत इति न पृथग्दर्शितम् । अन्तरायामिति । प्राकाराद्वहिर्वर्तिन्यामित्यर्थः । यद्यपि गणसूत्रेऽन्तरशब्दः पठ।ल्ते, तथापि तस्यैव सर्वनामत्वात् टापा सहैकादेशोऽपि तद्ग्रहणेन गृह्यत तैति स्यात् प्रसङ्गः । लिङ्गविशिष्टपरिभाषया वा टाबन्तस्यैव संज्ञाप्रसङ्गे वचनम् । विभाषाप्रकरण इत्यादि । यथायमर्थः सिद्ध्यति, तथा 'विभाषा द्वितीयातृतीयाभ्याम्' इत्यत्र वक्ष्यामः ॥