तोः षि

8-4-43 तोः षि पूर्वत्र असिद्धम् संहितायाम् श्चुः ष्टुः

Sampurna sutra

Up

index: 8.4.43 sutra: तोः षि


तोः षि ष्टुः न ।

Neelesh Sanskrit Brief

Up

index: 8.4.43 sutra: तोः षि


तवर्गस्य षकारे परे ष्टुत्वं न भवति ।

Neelesh English Brief

Up

index: 8.4.43 sutra: तोः षि


A तवर्ग letter which is followed by a षकार does not undergo ष्टुत्वम्.

Kashika

Up

index: 8.4.43 sutra: तोः षि


न इति वर्तते। तवर्गस्य षकारे यदुक्तं तन् न भवति। अग्निचित्षण्डे। भवान्षण्डे। महान्षण्डे।

Siddhanta Kaumudi

Up

index: 8.4.43 sutra: तोः षि


तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ठः । झलां जशोऽन्ते <{SK84}> । वागीशः । चिद्रूपम् ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.43 sutra: तोः षि


न ष्टुत्वम्। सन्षष्ठः॥

Neelesh Sanskrit Detailed

Up

index: 8.4.43 sutra: तोः षि


तवर्गीयवर्णात् परः संहितायाम् षकारः विधीयते चेत् ष्टुना ष्टुः 8.4.41 इत्यनेन प्राप्तम् षत्वम् निषिध्यते ।

अपदान्ततवर्गीयवर्णात् परस्य षकारस्य उदाहरणानि नैव सन्ति । पदान्त-तकारथकारधकाराणाम् तु आदौ जश्त्वे दकारादेशः भवति । अतः अत्र केवलम् पदान्तदकारस्य पदान्तनकारस्य च उदाहरणानि सन्ति । यथा —

  1. पदान्तदकारस्य षकारे परे ष्टुत्वनिषेधः — सुहृद् + षष्ठः → (खरि च 8.4.55 इति चर्त्वे) सुहृत्षष्ठः ।

  2. पदान्तनकारस्य षकारे परे ष्टुत्वनिषेधः — सन् + षष्ठः → सन्षष्ठः

Balamanorama

Up

index: 8.4.43 sutra: तोः षि


तोः षि - तेः षि । ष्टुरिति नेति चानुवर्तते । तदाह — तवर्गस्येति । सन्षष्ठ इति । अत्र नकारस्य षकारयोगात् टुत्वं प्राप्तं निषिध्यते । अस्मादेव ज्ञापकात् ष्टुना ष्टुरित्यत्र ष्टुना योगे इत्यत्र यथासंख्यं नेति विज्ञायते । 'झलाञ्जशोऽन्ते' इत्यच्सन्धिनिरूपणे प्रसङ्गादुपन्यस्तम् । हल्सन्धिप्रस्तावे पुनस्तदुपन्यासः ।

Padamanjari

Up

index: 8.4.43 sutra: तोः षि


'षि' इति सप्तमीर्निर्देशात् पूर्वभूतेनापि सन्निपाते भवत्येवलोष्टा, पेष्टेति ॥