3-2-72 अवे यजः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि मन्त्रे ण्विन्
अव उपपदे यजेर्धातोर्ण्विन् प्रत्ययो भवति मन्त्रे विषये। त्वं॑ यज्ञे॑ व॑रुणस्यावया॑ असि (काठ०सं०३५.६५)। योगविभाग उत्तरार्थः॥
अवयाः । अवयाजौ । अवयाजः ॥
अवे यजः॥ अवया इति। निपातनाद्रुत्वम्। योगविभाग उतरार्थ इति।'पुरोडाशवयजो ण्विन्' इत्येकयोगे श्वेतवहादीनामप्युतरत्रानुवृत्तिः स्यात्, यजेश्चावपूर्वस्यैवानुवृत्तिः स्यात्, केवलस्यैव चेष्यते, तदर्थो योगविभाग इत्यर्थः॥