3-2-71 मन्त्रे श्वेतवहोक्थशस्पुरोडाशोः ण्विन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि
श्वेतवह उक्थशस् पुरोडाश् इत्येतेभ्यो ण्विन् प्रत्ययो भवति मन्त्रे विषये। धातूपपदसमुदाया निपात्यन्ते अलाक्षणिककार्यसिद्ध्यर्थम्। प्रत्ययस्तु विधीयत एव। श्वेतशब्दे कर्तृवाचिन्युपपदे वहेर्धातोः कर्मणि कारके ण्विन् प्रत्ययो भवति। श्वेता एनं वहन्ति श्वेतवा इन्द्रः। उक्थशब्दे कर्मणि करणे वा उपपदे शंसतेर्धातोर्णि्वन् प्रत्ययो भवति, नलोपश्च निपात्यते। उक्थानि शंसत्युक्थैर्वा शंसति उ॒क्थ॒शा (तु० — ऋ० ४.२.१६) यजमानः। <<दाशृ दाने>> इत्येतस्य पुरःपूर्वस्य डत्वम् , कर्मणि च प्रत्ययः। पुरो दाशन्त एनं पु॒रो॒डाः (ऋ०३.२८.२)॥ श्वेतवहादीनां डस्पदस्येति वक्तव्यम्॥ श्वेतवोभ्याम्। श्वेतवोभिः। पदस्येति किम् ? श्वेतवाहौ। श्वेतवाहः॥
।<!श्वेतवहादीनां डस्पदस्येति वक्तव्यम् !> (वार्तिकम्) ॥ यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस् वक्तव्य इत्यर्थः । श्वेतवाः । श्वेतवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः । पुरो दाश्यते दीयते पुरोडाः ॥
मन्त्रेश्वेतवहोक्शास्पुराडाशो ण्विन्॥ एतेभ्य इति। श्वेतादिपूर्वेभ्यो वहादिभ्यो धातुभ्य इत्यर्थः। धातूपपदसमुदाया इति। किमर्थमित्याह - अलाक्षणिकेति।'श्वेतवाः' इत्यादिषु ठवयाः श्वेतवाः पुरोडाश्चऽ इति निपातनाद्रुत्वम्। उक्थशा इति। नलोपे ठत उपधायाःऽ इति वृद्धिः, रुत्वम्। डस्पदस्येति। प्रत्येकमभिसम्बद्ध्यते, भाविपदत्वाश्रयेण चेदमुच्यते, यत्र डसन्तस्य पदत्वं भविष्यति तत्र ण्विनोऽपवादो डस्प्रत्ययो वक्तव्य इत्यर्थः। यद्येवम्, अनेन डसि कृते सौ ठत्वसन्तस्यऽ इति दीर्घे रुत्वे च श्वेतवा इत्यादि सिद्धम्, नार्थः ठवयाः श्वेतवाःऽ इति निपातनेन? एवं तर्हि सम्बुद्ध्यर्थ निपातनम् - हे श्वेतवा इन्द्रेति, ठत्वसन्तस्यऽ इत्यत्र हि ठसम्बुद्धौऽ इति वर्तते, डसपि वक्तव्यः। उत्वार्थम् - श्वेतवोभ्याम्, उक्थशोभ्यामिति। एवं चोक्यशा इत्यपि सम्बुद्ध्यर्थ निपातनं कर्तव्यं यदि मन्त्रे दर्शनमस्त्रि॥