7-3-99 अङ् गार्ग्यगालवयोः सार्वधातुके हलि अपृक्ते रुदः च पञ्चभ्यः
index: 7.3.99 sutra: अड्गार्ग्यगालवयोः
रुदः पञ्चभ्यः अङ्गात् सार्वधातुके अपृक्ते पिति हलि गार्ग्यगालवयोः अट्
index: 7.3.99 sutra: अड्गार्ग्यगालवयोः
रुद्, स्वप् , श्वस्, प्रण्, जक्ष् - एतेभ्यः अङ्गात् परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य गार्ग्य-गालवयोः मतेन अट्-आगमः भवति ।
index: 7.3.99 sutra: अड्गार्ग्यगालवयोः
A सार्वधातुक-पित्-अपृक्त-हल्-प्रत्यय that follows the verbs रुद्, स्वप् , श्वस्, प्रण्, जक्ष् optionally gets an अट् आगम.
index: 7.3.99 sutra: अड्गार्ग्यगालवयोः
रुदादिभ्यः पञ्चभ्यः परस्य अपृक्तस्य सार्वधातुकस्य अडागमो भवति गार्ग्यगालवयोर्मतेन। अरोदत्। अरोदः। अस्वपत्। अस्वपः। अश्वसत्। अश्वसः। प्राणत्। प्राणः। अजक्षत्। अजक्षः। गार्ग्यगालवयोर्ग्रहणं पूजार्थम्।
index: 7.3.99 sutra: अड्गार्ग्यगालवयोः
अरोदीत्-अरोदत् । अरूदिताम् । अरुदन् । अरोदीः-अरोदः । प्रकृतिप्रत्ययविशेषापेक्षाभ्याममडीड्भ्यामन्तरङ्गत्वाद्यासुट् । रुद्यात् । अरुदत् । अरोदीत् ।{$ {!1068 ञिष्वप्!} शये$} । स्वपिति । स्वपितः । सुष्वाप । सुषुपतुः । सुषुपुः । सुष्वपिथ-सुष्वप्थ ॥
index: 7.3.99 sutra: अड्गार्ग्यगालवयोः
गार्ग्यः तथा गालवः एतौ द्वौ पाणिनेः प्राचीनौ वैयाकरणौ । एतयोः मतेन रुद्, स्वप् , श्वस्, प्रण्, जक्ष् - एतेभ्यः अङ्गात् परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य अट्-आगमः भवति ।
रुदश्च पञ्चभ्यः 7.3.98 इत्यनेन एतेभ्यः धातुभ्यः परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य वस्तुतः ईट्-आगमः विधीयते । परन्तु गार्ग्यमुनेः मतेन गालवमुनेश्च मतेन अत्र ईट्-आगमः न भवति, अट्-आगमः भवति । अस्य अर्थः 'विकल्पेन' ईडागमस्य स्थाने अडागमः भवति ।
यथा - रुद् इत्यस्य लङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -
रुद् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]
→ अट् + रुद् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ + रुद् + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]
→ अ + रुद् + शप् + ति [ कर्तरि शप् 3.1.68 इति औत्सर्गिकम् विकरणम् शप्]
→ अ + रुद् + ति [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक् ।]
→ अ + रोद् + ति [पुगन्तलघूपधस्य च 7.3.86 इति उपधागुणः]
→ अ + रोद् + त् [इतश्च 3.4.100 इति इकारलोपः]
→ अ + रोद् + अट् + त् [अड्गार्ग्यगालवयोः 7.3.99 इति विकल्पेन अडागमः]
→ अरोदत् [वर्णमेलनम्]
एवमेव अस्वपत्, अश्वसत्, प्राणत्, अजक्षत् एतानि रूपाणि भवन्ति । अडागमस्य अभावे रुदश्च पञ्चभ्यः 7.3.98 इत्यनेन ईडागमे कृते अस्वपीत्, अश्वसीत् आदीनि रूपाणि सिद्ध्यन्ति ।
ज्ञातव्यम् - अस्मिन् सूत्रे गार्ग्यमुनेः गालवमुनेः च नाम पूजार्थम् स्वीकृतमस्ति । 'केवलं गार्ग्यगालवमतेन अडागमः भवति, पाणिनेः मतेन न' - इति अस्य अर्थः न । पाणिनेः मतेन अप्यत्र विकल्पेन अडागमः भवति ।
index: 7.3.99 sutra: अड्गार्ग्यगालवयोः
अड्गार्ग्यगालवयोः - अड्गाग्र्यगालयवयोः । अनयोर्मते रुदादिभ्यः पञ्चभ्यः परस्य हलादेः पितः सार्वधातुकस्य अपृक्तस्य अडागमः स्यादिति स्पष्टोऽर्थः । अरोदीरिति.अरुदितमरुदितेत्यपि ज्ञेयम् । अरोदमिति । अरुदिव अरुदिम इत्यपि ज्ञेयम् । ननु लिङस्तिपि यासुटंबाधित्वा परत्वात्अड्गाग्र्यगालवयो॑रिति, 'रुदश्च पञ्चभ्यः' इति च अडीटौ स्यातामित्यत आह — प्रकृतिप्रत्ययेति । हलादिपित्सार्वधातुकाऽपृक्ताऽपेक्ष्टवाच्चेत्यपि ज्ञेयम् । लुङिइरितो॑वेत्यङ्पक्षे आह — अरुदिदिति । अङभावपक्षे त्वाह — अरोदीदिति । 'अस्तिसिचः' इति ईट् । 'रुदश्च पञ्चभ्य' इति तु नेह प्रवर्तते, सिचा व्यवहितत्वात् । ञि ष्वप् शये इति । षोपदेशोऽयम् । आर्धधातुके अनिट् । स्वपितीति । 'रुदादिभ्यः' इति इट् । स्वपित इति । स्वपन्ति । स्वपिषि स्वपिथः स्वपिथ । स्वपिमि स्वपिवः स्वपिमः । सुष्वापेति । द्वित्वेलिटभ्यासस्ये॑ति संप्रसारणे पूर्वरूपे आदेशसकारत्वात् षत्वमिति भावः । सुषुपतुरिति ।वचिस्वपी॑ति संप्रसारणे कृते द्वित्वादीति भावः । सुषुपुरित्यपि ज्ञेयम् । सुष्वपिथ सुष्वप्थेति । भारद्वाजनियमात्थलि वेडिति भावः । सुषुपथुः सुषुप । सुष्वाप — सुष्वप सुषुपिव सुषुपिम । सुविनिर्दुभ्र्यः । कृतस#ंप्रसारणस्य स्वप्धातोः सुपीत्यनेन ग्रहणम् । सूतीत्यनेन सूतिशब्दः कृदन्तो गृह्रते । समेत्यनेनाऽपि समशब्दस्य ग्रहणम् । षष्ठर्थे प्रथमा । 'सहेः साडः स' इत्यत स इति षष्ठन्तमनुवर्तते । मूर्धन्य इत्यधिकृतम् । तदाह -एभ्यः सुप्यादेरिति । सुषुप्तिः, सुषूतिः, सुषम इत्युदाहरणानि । अत्र कृतसंप्रसारमस्य स्वप्धातोग्र्रहमात्सुखप्र इत्यत्र न षत्वमिति भाष्यम् । नन्वेषं सति सुषुषुपतुरित्यत्र सुपूर्वस्य स्वपधातोः कथं षत्वम् । कृतसंप्रसारमस्य हि स्वपधातोः षत्वम् । तत्र यदि स्वप् अतुस् इति स्थिते पूर्वं द्वित्वे कृते पश्चात्वचिस्वपी॑ति संप्रासरणं तदा हलादिशेषे उत्तरखण्डस्यैववचिस्वपी॑ति संप्रसारणं, न त्वभ्यासस्य । अतुसः कित उत्तरखण्डव्यवहितत्वात्,न संप्रसारमए संप्रसारण॑मिति निषेधाच्च । ततश्च सु ससुप् अतुसित्यत्र पूर्वखण्डस्य कृतसंप्रसारणत्वाऽभावात् कथं षत्वम् । उत्तरखण्डस्य च सु इत्युपसर्गादव्यवहितपरत्वाऽभावात्कथमनेन षत्वम्, इण्कवर्गाभ्यां इत्यस्य द्वित्वप्रवृत्तेः प्रागेव षत्वमिति वक्तव्यम् । तत्तु न युज्यते ।पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणे॑ति परिभाषया सु इत्युपसर्गसंबन्धस्य द्वित्वात्प्रागप्रवृत्तेः । तथा च कृतसंप्रसारणस्य अकृतषत्वस्य सुप् इत्यस्य द्वित्वे उत्तरखण्डस्यैवआदेशप्रत्ययो॑रिति षत्वं स्यान्नतु पूर्वखण्डस्य,सात्पदाद्यो॑रिति निषेधात् । कृते हलादिशेषे सु इति पूर्वखण्डस्य सुब्राऊपत्वाऽभावेन 'सुविनिर्दुभ्र्यः' इत्यस्याऽप्यप्रवृत्तिः । न च एकदेशविकृतस्याननयत्वं शङ्क्यम्, एवमप्यभ्यासस्यानर्थकत्वेन अर्थवद्ग्रहमपरिभाषया षत्वस्य तत्राऽप्राप्तेः । तस्मादिह सुषुषुपतुरित्यत्र पूर्वखण्डे षत्वं दुरुपपादमित्याशङ्क्याह — पूर्वं धातुरित्यादिना । लक्ष्यानुरोधादिहपूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेने॑त्याश्रीयते । ततश्च द्वित्वात्परागेव परत्वात्संप्रसारणे सति सुप् इत्यस्य सु इत्युपसर्गपूर्वकत्वमादाय षत्वे च कृते सति पुनः प्रसङ्गविज्ञानात् षुबित्यस्य कृतषत्वस्य कतं द्वित्वं , द्वित्वे कत्र्वये षत्वस्याऽसिद्धत्वादित्यत आह — पूर्वत्रासिद्धीयमिति । ननु तर्हि सुसुष्वापेत्यत्रापि पूर्वखण्डे ष्टवं श्रूयेतेत्यत आह — पिति त्विति । पिति णलि कित्त्वाऽभावात्वचिस्वपी॑त्यस्याऽप्रवृत्तौ कृते द्वित्वेलिच्यभ्यासस्ये॑ति पूर्वखण्डस्य संप्रसारणम् । सु सुप् स्वप् अ इति स्थिते 'सुविनिर्दुर्भ्यःर' इति षत्वस्याऽसिद्धत्वात् हलादिशेष इत्यर्थः । नित्यत्वाच्चेति । कृते अकृते च षत्वे हलादिशेषस्य प्राप्तेरिति भावः । तत इति । हलादिभावान्न ष इति द्रष्टव्यम् । स्वप्ता । स्वप्स्यति । स्वपितु-स्वपितात् स्वपिताम् स्वपन्तु । स्वपिहि-स्वपितात् स्वपितम् स्वपित । स्वपानि स्वपाव स्वपाम । लडआह — सुप्यादिति ।वचिस्वपी॑ति संप्रसारणमिति भावः । 'सुविनिर्दुभ्यः' इति षत्वं मत्वाह — सुषुप्यादिति । असवाप्सीदिति । अनिट्कत्वान्न सिज्लोप इति भावः । आस प्राणने इति । वलाद्यार्धधातुके सेडयम् । सार्वधातुके तु वलादौ 'रुदादिभ्यः' इति इट् । लङस्तिपिरुदश्चे॑ति ईटम्,अड्गार्ग्ये॑त्यटं च मत्वा आह — अआसीत् अआसदिति । विध्याशीर्लिङो आस्यादिति सिद्धवत्कृत्य आह — आस्याताम् । आस्यास्तामिति । अन चेति । अनधातुरपि प्राणने वर्तते इत्यर्थः । सेडयम् । सार्वधातुकेऽपि वलादौ 'रुदादिभ्यः' इति इट् । लङि ईडटौ मत्वा आह — आनीत् आनदिति ।
index: 7.3.99 sutra: अड्गार्ग्यगालवयोः
गाग्यगालवयोर्ग्रहणं पूजार्थमिति । न विकल्पार्थम्; विधानसामर्थ्यादेवाडीटोर्विकल्पस्य सिद्धत्वात् । अनेकाचार्यग्रहणमप्यत एव ॥