सुपः

1-4-103 सुपः आ कडारात् एका सञ्ज्ञा तिङः त्रीणि त्रीणि तानि एकवचनद्विवचनबहुवचनानी एकशः

Sampurna sutra

Up

त्रीणि त्रीणि सुपः एकशः एकवचन-द्विवचन-बहुवचनानि

Neelesh Sanskrit Brief

Up

त्रयाणाम्-समूहरूपेण प्रोक्ताः सुप्-प्रत्ययाः क्रमेण एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति ।

Neelesh English Brief

Up

The सुप्-प्रत्ययाः are sequentially referred as एकवचन, द्विवचन and बहुवचन.

Kashika

Up

तिङां त्रिकेष्वेकवचनादिसंज्ञा विहिताः, संप्रति सुपां त्रिकेषु विधीयन्ते। सुपश्च त्रीणि त्रीणि पदान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति। सु इत्येकवचनम्। औ इति द्विवचनम्। जसिति बहुवचनम्। एवं सर्वत्र॥

Siddhanta Kaumudi

Up

सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥

Laghu Siddhanta Kaumudi

Up

सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः॥

Neelesh Sanskrit Detailed

Up

सुप् = सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् । <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् >> 4.1.2 अनेन सूत्रेण ये एकविंशतिः सुप्-प्रत्ययाः पाठ्यन्ते तेषाम् क्रमेण एकवचनम्, द्विवचनम् तथा च बहुवचनम् इति संज्ञाः भवन्ति - इति अस्य सूत्रस्य आशयः । एकविंशतेः प्रत्ययानां क्रमेण एताः संज्ञाः विधीयन्ते, अतः सप्त-सप्त-प्रत्ययाः एकाम् एकां संज्ञां स्वीकुर्वन्ति । तद् इत्थम् - 1. एकवचनसंज्ञकप्रत्ययाः - सुँ, अम्, टा, ङे, ङसिँ, ङस्, ङि । 2. द्विवचनसंज्ञकप्रत्ययाः - , औट्, भ्याम्, भ्याम्, भ्याम्, ओस्, ओस् । 3. बहुवचनसंज्ञकप्रत्ययाः - जस्, शस्, भिस्, भ्यस्, भ्यस्, आम्, सुप् सुप्-प्रत्ययानां विभाजनम् <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् >> 4.1.2 अनेन सूत्रेण आहत्य अष्टादश एकविंशतिः सुप्-प्रत्ययाः पाठिताः सन्ति । एतेषाम् प्रत्ययानाम् आदौ त्रिषु त्रिषु गणेषु विभाजनं क्रियते । एते गणाः क्रमेण प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, पञ्चमी,षष्ठी, तथा च सप्तमी इति नाम्ना ज्ञायन्ते । एतेषु प्रत्येकं गणे त्रयः प्रत्ययाः समाविश्यन्ते । प्रत्येकं गणस्य एतादृशानां त्रयाणां प्रत्ययानाम् एव प्रकृतसूत्रेण क्रमेण एकवचनम्, द्विवचनम् तथा च बहुवचनम् इति संज्ञाः दत्ताः सन्ति । अनेन प्रकारेण प्रत्येकं प्रत्ययस्य पृथक्-रूपेण निर्देशः सम्भवति । तदित्थम् - 1. सुँ = प्रथमा + एकवचनम् 2. = प्रथमा + द्विवचनम् 3. जस् = प्रथमा + बहुवचनम् 4. अम् = द्वितीया + एकवचनम् 5. औट् = द्वितीया + द्विवचनम् 6. शस् = द्वितीया + बहुवचनम् 7. टा = तृतीया + एकवचनम् 8. भ्याम् = तृतीया + द्विवचनम् 9. भिस् = तृतीया + बहुवचनम् 10. ङे = चतुर्थी + एकवचनम् 11. भ्याम् = चतुर्थी + द्विवचनम् 12. भ्यस् = चतुर्थी + बहुवचनम् 13. ङसिँ = पञ्चमी + एकवचनम् 14. भ्याम् = पञ्चमी + द्विवचनम् 15. भ्यस् = पञ्चमी + बहुवचनम् 16. ङस् = षष्ठी + एकवचनम् 17. ओस् = षष्ठी + द्विवचनम् 18. आम् = षष्ठी + बहुवचनम् 19. ङि = सप्तमी + एकवचनम् 20. ओस् = सप्तमी + द्विवचनम् 21. सुप् = सप्तमी + बहुवचनम् प्रथमा इत्यतः सप्तमी एतानि नामानि विधातुम् अष्टाध्याय्यां किमपि विशिष्टं सूत्रं नैव विद्यते, परन्तु एतेषाम् नाम्नाम् उपयोगः पाणिनिना स्वयमेव <<प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा>> 2.3.46, <<कर्मणि द्वितीया>> 2.3.2 इत्यादिषु सूत्रेषु कृतः अस्ति; अतः एतानि नामानि व्याकरणसंज्ञारूपेणैव स्वीक्रियन्ते । सूत्रे <hl>एकशः</hl> इति अनुवृत्तेः प्रयोजनम् प्रकृतसूत्रे <<तान्येकवचनद्विवचनबहुवचनान्येकशः>> 1.4.102 इत्यस्मात् सूत्रात् एकशः इति पदम् अनुवृत्तिरूपेण स्वीकृतम् अस्ति । एकशः इत्यस्य अर्थः एकैकम् (one-by-one) इति । सुप्-प्रत्ययाः एकैकम् (इत्युक्ते, क्रमेण) एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति इति अस्य आशयः । एकशः इति पदस्य अनुपस्थितौ, त्रीणि त्रीणि इत्यस्य अनुवृत्त्या त्रयः सुप्-प्रत्ययाः एकवचनसंज्ञकाः, ततः त्रयः द्विवचनसंज्ञकाः - इति अनिष्टः अर्थः सम्भवति, तद् निवारयितुम् अत्र एकशः इति शब्दः आवश्यकः वर्तते ।

Balamanorama

Up

<<सुपः>> - सुपः । सुप् प्रत्याहारः, षष्ठएकवचनम् ।तान्येकवचनद्विवचनबहुवचनान्येकशः॑ इति सूत्रं तानीतिवर्जमनुवर्तते । एकश इति । एकैकमित्यर्थःसङ्ख्यैकवचनाच्च वीप्सायाम् इति शश् । शसैव वीप्साया अबिधानात् 'नित्यवीप्सयोः' इति द्वित्वं न । तच्चसङ्ख्यैकवचनाच्चे॑ति सूत्रव्याख्यावसरे प्रपञ्चयिष्यते ।तिङस्त्रीणि त्रीणी॑त्यतःत्रीणि त्रीणि॑त्यनुवर्तते । तदाह — सुपस्त्रीणीत्यादिना ।

Padamanjari

Up

सुबिति प्रत्याहारग्रहणं प्रथमैकवचनादारभ्य सुपः पकारात्। कपस्तु पकारेण न भवति, प्राग्दिशीयानां विभक्तिसंज्ञाविधानात्; अन्यथा विभक्तिसंज्ञायामपि इदमेव सुब्ग्रहणमनुवर्तत इति सुप्त्वादेव सिद्धेऽनर्थकं तत्स्यात्। तिङं त्रिकेष्विति। किमर्थं पुनरिदमुक्तम्? इह कश्चिन्मन्यते - सूत्रे चकारस्याकरणात्संज्ञामात्रमिह सम्बध्यते, नान्यत्किञ्चिदिति तत्र द्दष्टान्तप्रदर्शनेन त्रीणित्रीण्येकश इत्यनयोरनुवृत्तिं यथा तिङं वचनसंज्ञा विहिता तथैव सुपामपीत्यर्थः। तथा च स्वयं च शब्दं पठित्वा व्याचष्टे - सुपश्चेत्यादि॥