न तिसृचतसृ

6-4-4 न तिसृचतसृ नामि

Sampurna sutra

Up

index: 6.4.4 sutra: न तिसृचतसृ


तिसृ-चतसृ-अङ्गस्य नामि दीर्घः न

Neelesh Sanskrit Brief

Up

index: 6.4.4 sutra: न तिसृचतसृ


नाम्-प्रत्यये परे तिसृ-शब्दस्य चतसृ-शब्दस्य च दीर्घः न भवति ।

Neelesh English Brief

Up

index: 6.4.4 sutra: न तिसृचतसृ


The words तिसृ and चतसृ do not become दीर्घ in presence of the नाम् प्रत्यय.

Kashika

Up

index: 6.4.4 sutra: न तिसृचतसृ


तिसृ चतसृ इत्येतयोः नामि दीर्घो न भवति। तिसृणाम्। चतसृणाम्। इदम् एव नामि इति दीर्घप्रतिषेधवचनं ज्ञापकमचि र ऋतः 7.2.100 इत्येतस्मात् पूर्वविप्रतिषेधेन नुडागमो भवतीति।

Siddhanta Kaumudi

Up

index: 6.4.4 sutra: न तिसृचतसृ


एतयोर्नामि दीर्घो न स्यात् । तिसृणाम् । तिसृषु । स्त्रियामिति त्रिचतुरोर्विशेषणान्नेह । प्रियस्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः मतिवत् । आमि तु प्रियत्रयाणामिति विशेषः । प्रियास्तिस्त्रो यस्य स इति विग्रहे तु प्रयतिसा । प्रियतिस्रौ । प्रियतिस्रः । प्रियतिस्रमित्यादि । प्रियास्तिस्रो यस्य तत्कुलं प्रियत्रि । स्वोर्लुका <{SK319}> लुप्त्तवेन प्रत्ययलक्षणाभावन्न तिस्रादेशः । न लुमता <{SK263}> इति निषेधस्यानित्यत्वापक्षे प्रियतिसृ ।<!रादेशात्पूर्वविप्रतिषेधेन नुम् !> (वार्तिकम्) ॥ प्रियतिसृणी । प्रियतिसृणि । तृतीयादिषु वक्ष्यमाणपुंवद्भावविकल्पात्पर्यायेण नुम्रभावौ । प्रियतिस्रा । प्रियतिसृणा । इत्यादि । द्वेरत्वे सत्याप् । द्वे 2 । द्वाभ्याम् 3 । द्व्योः 2 । गौरी । गौर्यौ । गौर्यः । नदीकार्यम् । हे गौरि । गौर्यै इत्यादि । एवं वाणीनद्यादयः । [(परिभाषा - ) प्रातिपदिकग्रहणे लिङ्विशिष्टस्यापि] ग्रहणादनङि णिद्वद्भावे च प्राप्ते ।<!विभक्तौ लिङ्विशिष्टाग्रहणम् !> (वार्तिकम्) ॥ सखी । सख्यौ । सख्यः । इत्यादि गौरीवत् । अङ्यन्तत्वान्न सुलोपः । लक्ष्मीः । शेषं गौरीवत् । एवं तरीतव्यादयः ॥ स्त्री । हे स्त्रि ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.4 sutra: न तिसृचतसृ


एतयोर्नामि दीर्घो न। तिसृणाम्। तिसृषु॥ द्वे। द्वे। द्वाभ्याम्। द्वाभ्याम्। द्वाभ्याम्। द्वयोः। द्वयोः॥ गौरी। गौर्य्यौ। गौर्य्यः। हे गौरि। गौर्य्यै इत्यादि। एवं नद्यादयः॥ लक्ष्मीः। शेषं गौरीवत्॥ एवं तरीतन्त्र्यादयः॥ स्त्री। हे स्त्रि॥

Neelesh Sanskrit Detailed

Up

index: 6.4.4 sutra: न तिसृचतसृ


'तिसृ' शब्दात् परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य ह्रस्वनद्यापो नुट् 7.1.54 इत्यनेन नुडागमः भवति । 'तिसृ + नाम्' इति स्थिते नामि 6.4.3 इत्यनेन अङ्गस्य दीर्घादेशः विधीयते । परन्तु वर्तमानसूत्रेण अयं दीर्घादेशः निषिध्यते । अतः 'तिसृणाम्' इत्येव रूपं सिद्ध्यति , न हि 'तिसॄणाम्' इति । तथैव चतसृ + नाम् → चतसृणाम् इत्यत्रापि अङ्गस्य दीर्घादेशः न भवति ।

Balamanorama

Up

index: 6.4.4 sutra: न तिसृचतसृ


न तिसृचतसृ - तिसृ-नामिति स्थितेनामी॑ति दीर्घे प्राप्ते-न तिसृचतसृ । 'तिसृचतसृ' इति लुप्तषष्ठीकं पदम् । 'ढ्रलोपे' इत्यतो 'दीर्घ' इत्यनुवर्तते ।नामी॑ति सूत्रं चानुवर्तते । तदाह — तिसृ इत्यादिना । तिसृणामिति । ऋवर्णान्नस्ये॑ति णत्वम् । ननु 'अचि र' इति रत्वम्ऋत उदि॑त्युत्त्वस्य कथमपवादः स्यात्, उत्त्वस्य ङसिङसोरेव प्राप्तेः, त्रिचतुर्शब्दयोश्च नित्यं बहुवचनान्तत्वेन ङसिङसोरभावादिति चेन्न, 'प्रियतिरुआ' इत्यादिबहुव्रीहौ तत्सत्त्वात् । तच्चानुपदमेव वक्ष्यते । ननु प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिरिति बहुव्रीहावपि तिरुआआदेशः कुतो न स्यादित्यत आहस्त्रियामित्यादि । प्रियत्रिशब्दो हि स्त्रीलिङ्गो नतु त्रिशब्दः । स्त्रियामिति । त्रिचतुरोर्विशेषणं, नतु तदन्तयोः, प्रमाणाऽभावात् । न चाङ्गत्वात्तदन्तलाभः इति वाच्यम्, एवमपि त्रिचतुरोरेव प्रत्यक्षश्रुतत्वेन स्त्रियामित्यस्य तद्विशेषणताया एवोचितत्वादिति भावः ।ङिति ह्रस्वश्चे॑ति नदीत्वविकल्पं मत्वाह — मतिशब्दवदिति । आमि त्विति । षष्ठीबहुवचने 'त्रेस्त्रयः' इति त्रयादेशस्य आङ्गत्वेन तदन्तेऽपि प्रवृत्तेरिति भावः । एवं च स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे प्रियत्रिशब्दे पुंनपुंसकलिङ्गत्रिशब्दगर्भबहुव्रीहावतिव्याप्तिः स्यादिति त्रिचतुरोरेव स्त्रियामिति विशेषणमिति स्थितम् । अथ स्त्रीलिङ्गत्रिशब्दगर्भबहुव्रीहावव्याप्तिनिरासार्थमपि स्त्रियामिति त्रिचतुरोरेव विशेषणं, न तु तदन्तयोरिति मत्वाह — प्रियस्तिरुआ इत्यादि । प्रियतिसेति । समासे सत्यन्तर्वर्तिविभक्तेर्लुका लुप्तत्बात्तिरुआआदेशनिवृत्तौ प्रियत्रिशब्दात्सुः । अत्र प्रियत्रिशब्दस्य पुंलिङ्गत्वेऽपि त्रिशब्दस्य स्त्रीलिङ्गत्वात्तिरुआआदेशः ।ऋदुशन॑सित्यनङ् ।सर्वनामस्थाने चे॑ति दीर्घः । नलोपः । स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे त्वत्राऽव्याप्तिः स्यादिति भावः ।ननु त्रिचतुरन्ताङ्गविशेषणत्वेऽपि नात्राऽव्याप्तिः, प्रियास्तिरुआओ यस्येति विग्रहवाक्ये प्रवृत्तस्य तिरुआआदेशस्य समासेऽप्यनुवृत्तिसंभवादिति चैन्मैवं, लौकिकवाक्यं हि परिनिष्ठितत्वात्समासस्य न प्रकृतिः, किन्त्वलौकिकमेव प्रक्रियावाक्यम् । ततश्च प्रिया अस् त्रिअसित्यलौकिकप्रक्रियावाक्ये समासप्रवृत्तौअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ इति परिभाषया तिरुआआदेशं बाधित्वं विभक्तिलुकि प्रियत्रिशब्दात्समासात्सुबुत्पत्तौ त्रिचतुरोरित्यस्यङ्गत्वात्तदन्तविधावपिनिर्दिश्यमानस्यादेशा भवन्ती॑ति परिभाषया त्रिशब्दस्य तिरुआआदेशः । स च स्तिरायमित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे सति न स्यात्, प्रियत्रिशब्दस्याङ्गस्य पुंलिङ्गत्वात् । सति चात्र तिरुआआदेशेनद्यृतश्चे॑ति कप्तु न । स हि समासान्तत्वात्समासवदलौकिकविग्रहवाक्ये प्रवृत्तिमर्हति । तदानीं च उत्तरपदस्य त्रिशब्दस्य ऋदन्तत्वाऽभावान्न कप् । अन्तर्वर्तिविभक्तेर्लुका लुप्तत्वेन प्रत्ययलक्षणाऽभावाच्च जस्निमित्तकतिरुआआदेशस्याऽभावात् । नचाऽकृते समासान्ते कपि प्रियात्रिशब्दात्सुबुत्पत्तौ तिरुआआदेशे सति कप् शङ्क्यः । अकृते कपि समासान्ते समासत्वस्यैव#आऽनिष्पत्त्या ततः सुबुत्पत्तेरसंभवादित्यास्तां तावत् । प्रियतिरुआआविति । गुणं बाधित्वा रत्वम् । प्रयतिरुआ इति । जसि पूर्वसवर्णदीर्घं बाधित्वा रत्वम् । प्रियतिरुआमिति । अमि पूर्वरूपं गुणं च बाधित्वा रत्वम् ।गुणदीर्घोत्त्वानामपवादः॑ इति पूर्वरूपास्याप्युपलक्षणम् । इत्यादीति । प्रियतिरुआऔ । प्रियतिरुआः । प्रियतिरुआआ । प्रियतिरुओ । ङसिङसोः-प्रियतिरुआ इत्येव, 'ऋत उत्' इत्युत्त्वं बाधित्वा रत्वम् । प्रियतिस्रोः । आमि त्रयादेशं बाधित्वा परत्वात्तिरुआआदेशे सति रत्वं बाधित्वानुमचिरे॑ति नुट् । प्रियतिसृणाम् । प्रियतिरुआः ।ऋतो ङी॑ति गुणाऽपवादो रत्वम् । प्रियतिस्रोः । ननु प्रियास्तिरुआओ यस्य तत्कुलं प्रियत्रीति कथम् । त्रिशब्दस्य स्त्रीलिङ्गत्वेन तिसृभावप्राप्तेरित्यत आह — स्वमोर्लुकेति ।स्वमोर्नपुंसका॑दिति स्वमोर्लुका लुप्तत्वेनन लुमते॑ति प्रत्ययलक्षणाऽभावाद्विभक्तिपरकत्वाऽभावान्न तिसृभाव इत्यर्थः । अनित्यत्वादिति ।न लुमते॑त्यस्याऽनित्यत्वम् 'इकोऽचि विभक्तौ' इत्यज्ग्रहणादिति नपुंसकाधिकारे वक्ष्यते । अजादिविभक्तौ 'नपुंसकस्य झलचः' इति नुमपेक्षया परत्वा 'दचि र ऋतः' इति रत्वमाशङ्क्याह — कत्वादिति ल्यब्लोपे पञ्चमी । पूर्वविप्रतिषेधेन रत्वं बाधित्वा नुमित्यर्थः । प्रियतिसृणी इति । रत्वं बाधित्वा नुमि णत्वम् । प्रियतिसृणीति । जश्शसोश्शिः । रत्वं बाधित्वा नुम् । शेः सर्वनामस्तानत्वान्नान्तलक्षणदीर्घः, णत्वम् ।प्रत्ययोत्तरपदयोश्चे॑ति सूत्रे प्रियतिसृणी, प्रियतिसृणीति भाष्योदाहरणात्पूर्वविप्रतिषेधमाश्रित्य नुमा रत्वबाध इति बोध्यम् । प्रियतिसृणेति । टायां पुंवत्त्वाऽभावपक्षे नुमि रूपम् । प्रिततिरुओति । पुंवत्त्वे नुमभावाद्रत्वम् । इत्यादिति । आदिना प्रियतिरुओ, प्रियतिसृणे इत्यादि बोध्यम् । द्वेरत्वे इति । द्विशब्दाद्विभक्तौ सत्यां त्यदाद्यत्वे 'अजाद्यतः' इति टाबित्यर्थः । द्वे इत्यादि । टापि सति सवर्णदीर्घे द्वाशब्दस्य रमावद्रूपाणीति भावः । इति इदन्ताः ।अथ ईदन्ताः । गौरीति गौरशब्दाद्गौरादिलक्षणङीषि 'यस्येति च' इत्यकारलोपे गौरीशब्दः । तस्मात्सुः, हल्ङ्यादिलोप इति भावः । गौर्याविति ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधे यणिति भावः । गौर्य इति ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधे यणिति भावः । नदीकार्यमिति ।अम्बार्थनद्योह्र्यस्वः॑आण्नद्याः॑ ।ह्रस्वनद्यापो नुट् 'ङेराम्नीभ्यः' इति विहितमित्यर्थः । 'यू स्त्र्याख्यौ' इति नदीत्वम् । बहुश्रेयसीवत् । एवं वाणीनद्यादय इति । 'वण शब्दे' वण्यते शब्द्यते इति वाणी ।इञ्वपादिभ्यः॑ति इञ् । 'कृदिकारादक्तिनः' इति ङीष् । 'नदट्' इति पचादौ पठिताट्टित्त्वान्ङीप् । आदिना कत्री दण्डिनीत्यादिसङ्ग्रहः ।सख्यशिआईति भाषाया॑ मिति सखिशब्दात्ङीषियस्येति चे॑तीकारलोपे सखीशब्दः ।तस्य 'अनङ् सौ' इत्यनङं 'सख्युरसम्बुद्धौ' इति णिद्वत्त्वं चाशङ्कते — प्रातिपदिकेति ।विभक्तौ लिङ्गविशिष्टाग्रहणम् । 'युवोरनाकौ' इत्यत्रङ्याप्प्रातिपदिकात् इत्यत्र च भाष्ये इयं परिभाषा पठिता । विभक्तिनिमित्तके कार्ये कर्तव्ये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहणं नास्तीत्यर्थः । तथा च अनङ् णिद्वत्त्वं च न भवतीति भावः । सखीति । ङ्यन्तत्वात्सुलोपः । सख्यैत्यादीति । गौरीवदेव रूपाणित्यर्थः ।लक्षेर्मुट् चे॑ति लक्षधातोरीप्रत्यये मुडागमे लक्ष्मीशब्दः । तस्य विशेषमाह-अङ्यन्तत्वादिति । 'कृदिकारादक्तिनः' इति ङीषि तु सुलोपो भवत्येव । शेषं गौरीवत् । स्त्रीति ।स्त्यै शब्दसंघातयोः॑ । स्त्यायतः सङ्गते भवतोऽयस्यां शुक्रशोणिते इति स्त्री । स्त्यायतेः ड्रट् । डटावितौ । ङित्त्वसामर्थ्यादभस्यापि टेर्लोपः । लोपोव्यो॑रिति यलोपः । टित्त्वान्ङीप् । हल्ङ्यादिलोप इति भावः । हे स्त्रि इति । अम्बार्थेति ह्रस्वः । स्त्री औ इति स्थितेऽधात्विकारत्वात् 'अचि श्नुधातु' इति इयङ्यप्राप्ते- ।

Padamanjari

Up

index: 6.4.4 sutra: न तिसृचतसृ


सूत्रे षष्ठीद्ववचनस्य लुका निर्द्देशः । तिसृणाम्, चतसृणामिति । कथं पुनरत्र दीर्घप्रसङ्गः, यावताऽजन्तस्य दीर्घो नामीति, न चात्राजन्तता सम्भवति, कथम् तिसृ - आम् इति स्थिते नुट् प्राप्नोति, अचि र ऋतः इति रादेशाश्च, परत्वाद्रादेशः तत्राह - इदमेवेति ॥