उपसर्गप्रादुर्भ्यामस्तिर्यच्परः

8-3-87 उपसर्गप्रादुर्भ्याम् अस्तिः यच्परः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपसर्गस्थाद् निमित्तात् प्रादुस्शब्दात् चोत्तरस्य यकारपरस्याच्परस्य चास्तिसकारस्य मूर्धन्यो भवति। अभिषन्ति। निषन्ति। विषन्ति। प्रादुःषन्ति। अभिष्यात्। निष्यात्। विष्यात्। प्रादुःष्यात्। उपसर्गादिति किम् ? दधि स्यात् । मधु स्यात्। अस्तीति किम ? अनुसृतम्। विसृतम्। अथासत्यपि अस्तिग्रहणे सकारमेव प्रत्युपसर्ग आश्रीयते, प्रादुःशब्दस्य च कृभ्वस्तिष्वेव प्रयोग इत्यन्यत्राप्रसङ्गः? तथाप्येतत् प्रत्युदाहर्तव्यम् — अनुसूते अनुसूः, अनुस्वोऽपत्यम् आनुसेयः। शुभ्रादित्वाद् ढक् ४.१.१२३। <<ढे लोपोऽकद्र्वाः>> ६.४.१४७ इत्युवर्णलोपः। यच्पर इति किम् ? निस्तः। विस्तः। प्रादुःस्तः ॥

Siddhanta Kaumudi

Up

उसर्गेऽणः प्रादुसश्च परस्यास्तेः सस्य षः स्यारद्यकासेऽचि च परे । निष्यात् । प्रादुःष्यात् । निषन्ति । प्रादुः षन्ति । यच्परः किम् । अभिस्तः ।{$ {!1066 मृजू!} शुद्धौ$} ॥

Laghu Siddhanta Kaumudi

Up

उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारेऽचि च परे। निष्यात्। प्रनिषन्ति, प्रादुःषन्ति। यच्परः किम्? अभिस्तः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उपसर्गप्रादुर्भ्यामस्तिर्यच्परः>> - उपसर्गप्रादुभ्र्याम् । उपसर्गः प्रादुस् अनयोद्र्वन्द्वः । इण्कोरित्यधिकृतम् । तत्र इण इत्युपसर्गेण संबध्यते, न प्रादुसि, ततः परस्य अस्तेः सस्य इणः परत्वाऽसंभवात् । कोरित्यपि असंभवान्न संबध्यते । अस्तिरिति षष्ठर्थे प्रथमा । 'सहेः साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते, मूर्धन्य इत्यधिकृतम् । य् अच् — अनयोद्र्वन्द्वः । यचौ परौ यस्मादिति विग्रहः । यकारे अचि च परे इति लभ्यते । तदाह — उपसर्गेण इति । उपसर्गेण इति । उपसर्गस्थादिण इत्यर्थः । परस्येति । अस्तेः सस्य विशेषणमिदम्,न त्वस्तेः, तेन प्रादुरासीदित्यत्र न षत्वम् । यकारपरकत्वे उदाहरति — निष्यात् प्रादुष्ष्यादिति । प्रादुसिति सान्तमव्ययम् । सस्य षत्वे पूर्वस्य सस्य ष्टुत्वेन षः । षान्तत्वे तुप्रादुभ्र्या॑मिति रुत्वनिर्देशो नोपपद्यते । अच्परकत्वने उदाहरति — निषन्ति प्रादुष्षन्तीति । मृजूष् शुद्धाविति । ऊदित्त्वमिड्विकल्पार्थम् ।षिद्भिदादिभ्यो॑ऽङित्यङर्थं षित्त्वम् । वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह षित्करममनार्षमित्याहुः ।

Padamanjari

Up

य् च अच्च यचौ, तौ परौ यस्मात्स यच्परः । यचोरिति सप्तमीनिर्देशेनैव सिद्धे परग्रहणं चिन्त्यप्रयोजनम् । अभिषन्तीति । अदादित्वाच्छपो लुक्,'श्नसोरल्लोपः' । अनुसृतमिति । कथं पुनरत्र प्रसङ्गः, यावता सकारस्य प्रकृतत्वातमेव प्रत्युपसर्गत्वमाश्रयिष्यते; न चात्र सकारं प्रत्युपसर्गत्वमस्ति, तावन्मात्रस्याक्रियावचनत्वात्, तत्किमस्तिग्रहणेन; न च प्रादुः शब्दार्थमस्तिग्रहणं कृतम्, तस्य कृभ्वस्तिविषयत्वेन नियतत्वात्, तदेतदाशङ्कते तावत् । तथापीति । अनुसुशब्दः शुभ्रादिः, चतुष्पाद्वचन इत्यन्ये, ततो ठक्ठञोरन्यतरः,'ढेअ लोपो' कद्र्वाऽ इत्युकारलोपे सकारमात्रस्य क्रियावाचित्वात् षत्वप्रसङ्गः ॥