7-3-114 सर्वनाम्नः स्याट् ह्रस्वः च घेः ङिति आपः
index: 7.3.114 sutra: सर्वनाम्नः स्याड्ढ्रस्वश्च
सर्वनाम्नः आपः ङिति सुपि स्याट् अङ्गस्य ह्रस्वः च ।
index: 7.3.114 sutra: सर्वनाम्नः स्याड्ढ्रस्वश्च
सर्वनामसंज्ञकात् आबन्तात् परस्य ङित्-प्रत्ययस्य स्याट्-आगमः भवति, तथा च अङ्गस्य ह्रस्वः भवति ।
index: 7.3.114 sutra: सर्वनाम्नः स्याड्ढ्रस्वश्च
A ङित्-प्रत्यय that comes after an सर्वनामसंज्ञक आबन्त word get a स्याट् आगम, and the आबन्त अङ्ग gets a ह्रस्वादेश.
index: 7.3.114 sutra: सर्वनाम्नः स्याड्ढ्रस्वश्च
सर्वनाम्नः आबन्तादङ्गादुत्तरस्य ङितः प्रत्यय्स्य स्याटागमो ह्रस्वश्च भवति। सर्वस्यै। विश्वस्यै। यस्यै। तस्यै। कस्यै। अन्यस्यै। सर्वस्याः। विश्वस्याः। यस्याः। तस्याः। कस्याः। अन्यस्याः। आपः इत्येव, भवति। भवते।
index: 7.3.114 sutra: सर्वनाम्नः स्याड्ढ्रस्वश्च
आबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्यादापश्च ह्रस्वः । याटोऽपवादः । सर्वस्यै । सर्वस्याः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात् आमि सर्वानाम्नः <{SK217}> इति सुट् । सर्वासाम् । सर्वस्याम् । सर्वयोः । सर्वासु । एवं विश्वादय आबन्ताः ॥
index: 7.3.114 sutra: सर्वनाम्नः स्याड्ढ्रस्वश्च
आबन्तात्सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः। सर्वस्यै। सर्वस्याः। सर्वासाम्। सर्वस्याम्। शेषं रमावत्॥ एवं विश्वादय आबन्ताः॥
index: 7.3.114 sutra: सर्वनाम्नः स्याड्ढ्रस्वश्च
ये आबन्ताः शब्दाः सर्वनामसंज्ञकाः सन्ति तेषां परस्य ङित्-प्रत्ययस्य स्याट्-आगमः, तथा अङ्गस्य ह्रस्वादेशः भवति । यथा, किम्-सर्वनामस्य आबन्तरूपं 'का' इति प्रतिपदिकम्, तस्य चतुर्थी-एकवचनस्य प्रक्रियायाम् -
का + ङे [चतुर्थ्यैकवचनस्य प्रत्ययः]
→ क + स्याट् + ए [सर्वनाम्नः स्याड्ढ्रस्वश्च 7.3.114 इत्यनेन प्रत्ययस्य स्याट्-आगमः, अङ्गस्य च ह्रस्वः]
→ कस्यै [वृद्धिरेचि 6.1.88 इति वृद्धि-एकादेशः]
तथैव तस्यै, अस्याः, एतस्याम् एतानि रूपाणि सिद्ध्यन्ति ।
ज्ञातव्यम् -
1) सर्वनामसंज्ञा - सर्वादीनि सर्वनामानि 1.1.27 इत्यनेन सर्वादिगणस्य शब्दाः सर्वनामसंज्ञकाः सन्ति । यथा - सर्व, विश्व, उभ, उभय .. आदयः ।
2) 'आबन्तशब्दाः' इत्यते ते शब्दाः येषामन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते ।
3) अस्मिन् सूत्रे स्थानीनिर्देशकम् षष्ठ्यन्तम् पदम् नास्ति । अस्यामवस्थायाम् <ऽ उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ऽ> अनया परिभाषया पञ्चमी-विभक्त्यन्तशब्दस्य अर्थे परिवर्तनं न भवति, अपितु सप्तमी-विभक्तन्तशब्दस्य अर्थे परिवर्तनं भूत्वा षष्ठीविभक्तिवत् तस्य अर्थः सिद्ध्यति । अतः अस्मिन् सूत्रे 'ङिति' इति सप्तम्यन्तपदस्य अर्थः 'ङित्-प्रत्यये परे' इति न स्वीकृत्य 'ङित्-प्रत्ययस्य' इति स्वीकरणीयः ।
3) आद्यन्तौ टकितौ 1.1.46 इत्यनेन टित्-आगमः स्थानिनः आद्यवयवरूपेण आगच्छति । अतः याट्-आगमः प्रत्ययात् पूर्वमागच्छति ।
index: 7.3.114 sutra: सर्वनाम्नः स्याड्ढ्रस्वश्च
सर्वनाम्नः स्याड्ढ्रस्वश्च - सर्वनाम्नः स्याड् । 'याडापः' इत्यत 'आप' इति पञ्चम्यन्तमनुवृत्तं, तेन 'सर्वनाम्न' इत्येतद्विशेष्यते । तदन्तविधिः ।घेर्ङिती॑त्यतो ङितीत्यनुवृत्तं षष्ठआ विपरिणम्यते । ततश्चआबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्या॑दित्यर्थः । टित्त्वादाद्यवयवः ।ह्रस्वश्चे॑ति वाक्यान्तरम् । 'आप' इत्यनुवृत्तमावर्तते । षष्ठन्ततया च विपरिणम्यते । तच्च 'ह्रस्व' इत्यत्रान्वेति ।आप स्थाने ह्रस्वो भवती॑ति तदर्थः । तदाह — आबन्तादिति । याटोऽपवाद इति । येन नाप्राप्तिन्यायादिति भावः । सर्वस्यै इति । सर्वा-ए इति स्थिते स्याट् । वकारोत्तराकारस्य ह्रस्वः, वृद्धिरिति भावः । सर्वस्या इति । ङसिङसोः सर्वा-अस इति स्थिते-स्याट्, आपो ह्रस्वः, सवर्णदीर्घ इति भावः । नन्वाबन्तस्य सर्वाशब्दस्य सर्वादिगणे पाठाऽभावात्कथं सर्वनामत्वमित्यत आह — एकादेश-स्येति । वकारादकारस्य आपश्च योऽयमेकादेशः सवर्णदीर्घः, तस्येत्यर्थः । नन्वेकादेशनिष्पन्नस्य आकारस्य पूर्वान्तत्वे आप्त्वाव्याघातादाबन्तत्वं व्याहतम् । न च परादिवत्त्वेन आबन्तत्वमपीति वाच्यम्, उभयत आश्रयणे नान्तादिवदिति निषेधादिति चेत्, सत्यम्-लिङ्गविशिष्टपरिभाषयाऽऽबन्तस्य सर्वनामत्वम् । आबन्तत्वं तु परादिवद्भावेनेत्याहुः । सर्वस्यामिति । ङौ सर्वा-इ इति स्थितेङेरा॑मित्याम् । सुटं बाधित्वा परत्वात्स्याट्, ह्रस्वश्च । सकृद्गतिन्यायान्न पुनः सुट् । एवमिति । सर्वादिगणपठिताविआआदय आबन्तत्वं प्राप्ताः सर्वाशब्दवदित्यर्थः । उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालमुत्तरपूर्वा । 'दिङ्नामन्यन्तराले' इति बहुव्रीहिविशेषोऽयम् ।
index: 7.3.114 sutra: सर्वनाम्नः स्याड्ढ्रस्वश्च
दीर्घोच्चारणं सर्वस्या इत्यत्र वृद्धिर्यथा स्याद्, ठतो गुणेऽ पररूपत्वं मा भूत् । अकारोच्चारणं तु अस्या इत्यत्र ठूडिदम्पदादिऽ इति विभक्तेराद्यौदातत्वं मा भूत्, आगमानुदातत्वं यथा स्यादेवमर्थ स्यात् । किञ्च उच्चारणार्थोऽप्यकारः सम्भाव्येत ॥