7-1-15 ङसिङ्योः स्मात्स्मिनौ अतः सर्वनाम्नः
अतः सर्वनाम्नः अङ्गात् ङसि-ङ्योः स्मात्-स्मिनौ
सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य ङसिँ-प्रत्ययस्य स्मात्-आदेशः तथा ङि-प्रत्ययस्य 'स्मिन्' आदेशः भवति ।
The ङसिँ and ङि प्रत्ययs attached to an अदन्त सर्वनाम are converted respectively to स्मात् and स्मिन्.
ङसि ङि इत्येतयोरकारान्तात् सर्वनाम्न उत्तरयोः स्मात् स्मिन् इत्येतावादेशौ भवतः। ङसीत्येतस्य स्मात् — सर्वस्मात्। विश्वस्मात्। यस्मात्। तस्मात्। कस्मात्। ङीत्येतस्य स्मिन् — सर्वस्मिन्। विश्वस्मिन्। यस्मिन्। तस्मिन्। अन्यस्मिन्। अत इत्येव — भवतः। भवति। सर्वनाम्न इत्येव — वृक्षात्। वृक्षे॥
अतः सर्वनाम्नो ङसिङ्योरेतौ स्तः । सर्वस्मात् ॥
अतः सर्वनाम्न एतयोरेतौ स्तः। सर्वस्मात्॥
सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य ङसिँ/ङि-प्रत्यययोः स्मात् तथा स्मिन् आदेशौ भवतः । <<यथासङ्ख्यमनुदेशः समानाम्>> 1.3.10 इत्यनेन ङसिँ-प्रत्ययस्य स्मात्-आदेशः, ङि-प्रत्ययस्य च स्मिन्-आदेशः भवति । यथा - 1. सर्व + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः] → सर्व + स्मात् [<<ङसिङ्योः स्मात्स्मिनौ>> 7.1.15 इति ङसिँ-प्रत्ययस्य स्मात्-आदेशः] → सर्वस्मात् । 2. सर्व + ङि [सप्तम्येकवचनस्य प्रत्ययः] → सर्व + स्मिन् [<<ङसिङ्योः स्मात्स्मिनौ>> 7.1.15 इति ङि-प्रत्ययस्य स्मिन्-आदेशः] → सर्वस्मिन् 3. यत् +ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः] → यत् अ अस् [<<त्यदादीनामः>> 7.2.102 इत्यनेन तकारस्य अकारादेशः] → य अस् [<<अतो गुणे>> 6.1.97 इति पररूप-एकादेशः] → य स्मात् [<<ङसिङ्योः स्मात्स्मिनौ>> 7.1.15 इति ङसिँ-प्रत्ययस्य स्मात्-आदेशः] → यस्मात् 4. तत् + ङि [सप्तम्येकवचनस्य प्रत्ययः] → त अ ए [<<त्यदादीनामः>> 7.2.102 इत्यनेन तकारस्य अकारादेशः] → त ए [<<अतो गुणे>> 6.1.97 इति पररूप-एकादेशः] → त स्मिन् [<<ङसिङ्योः स्मात्स्मिनौ>> 7.1.15 इति ङि-प्रत्ययस्य स्मिन्-आदेशः] → तस्मिन् ज्ञातव्यम् - 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये एतौ आदेशौ न भवतः । यथा - सर्वा + ङसिँ → सर्वस्याः । सर्वा + ङिँ → सर्वस्याम् ।
<<ङसिङ्योः स्मात्स्मिनौ>> - सर्वशब्दात्पञ्चम्येकवचने टाङसिङसामिति प्राप्ते-ङसिङ्योः । ङसिश्च ङिश्चेति द्वन्द्वः । 'अतो भिस' इत्यस्मादत इति, 'सर्वनाम्नः स्मै' इत्यतः 'सर्वनाम्न' इति चानुवर्तते, तदाह — अतः सर्वेति । एतयोरिति । ङसिङ्योरित्यर्थः । एताविति । स्मात्स्मिनावित्यर्थः । स्मादादेशस्य स्थानिवद्भावेन विभक्तित्वान्न विभक्ताविति तकारस्य नेत्त्वमिति मत्वाह — सर्वस्मादिति ।