7-2-112 अन आपि अकः विभक्तौ इदमः इदः
अकः इदमः इदः आपि विभक्तौ अन
अककारस्य इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमी-यावत्सु विभक्तिप्रत्ययेषु परेषु 'अन्' आदेशः भवति ।
The 'इद्' part of the word 'इदम्' is converted to अन् when followed by a विभक्तिप्रत्यय of तृतीया to सप्तमी. But this conversion does not happen if the word इदम् has a ककार in it.
इदमोऽककारस्येद्रूपस्य स्थानेऽन् इत्ययमादेशो भवत्यापि विभक्तौ परतः। अनेन। अनयोः। अक इति किम्? इमकेन। इमकयोः। आपीति प्रत्याहारः तृतीयैकवचनात् प्रभृति सुपः पकारेण॥
अककारस्येदम इदोऽन् स्यादापि विभक्तौ । आबिति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन ॥
अककारस्येदम इदोऽनापि विभक्तौ। आबिति प्रत्याहारः। अनेन॥
सूत्रार्थज्ञानात् पूर्वमादौ अस्मिन् सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः - 1. 'अकः इदमः' इत्युक्ते सः इदम्-शब्दः यस्मिन् ककारः नास्ति । <<अव्ययसर्वनाम्नाम् अकच् प्राक्टेः>> 5.3.71 अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे 'अकच्' प्रत्ययः विधीयते । एवं क्रियते चेत् 'इदकम्' इति प्रातिपदिकं सिद्ध्यति, यस्मिन् ककारः श्रूयते । अस्य प्रातिपदिकस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्मिन् सूत्रे 'अकः' इति निर्दिष्टमस्ति । 2. अस्मिन् सूत्रे प्रयुक्तः 'आप्' अयम् प्रत्याहारः अस्ति । तृतीया-एकवचनस्य 'आङ्' (टाप्-प्रत्ययस्य पूर्वाचार्यैः दत्ता संज्ञा) इत्यस्मात् सप्तमी-बहुवचनस्य 'सुप्' इति यावत् पञ्चदश-प्रत्ययानाम् निर्देशः 'आप्' इत्यनेन क्रियते । अतः अस्य सूत्रस्य अर्थः अयम् - इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमीपर्यन्तं 'अन्' इति आदेशः भवति । परन्तु अकच्-प्रत्ययान्त 'इदकम्' शब्दस्य न भवति । यथा - 1) इदम् + टा [तृतीयैकवचनस्य प्रत्ययः] → इद अ + आ [<<त्यदादीनामः>> 7.1.102 इति मकारस्य अकारः] → इद + आ [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → अन + आ [<<अनाप्यकः>> 7.2.112 इति इद्-इत्यस्य अन्-आदेशः] → अन + इन [<<टाङसिङसामिनात्स्याः>> 7.1.12 इति टा-प्रत्ययस्य इन-आदेशः] → अनेन [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] 2) इदम् + ओस् [स्त्रीलिङ्गे षष्ठीद्विवचनस्य प्रत्ययः] → इद अ + ओस् [<<त्यदादीनामः>> 7.1.102 इति मकारस्य अकारः] → इद + ओस् [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → इद + टाप् + ओस् [<<अजाद्यतष्टाप्>> 4.1.4 इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः] → अना + ओस् [<<अनाप्यकः>> 7.2.112 इति इद्-इत्यस्य अन्-आदेशः] → अने + ओस् [<<आङि चापः>> 7.3.105 इत्यनेन आबन्तस्य अङ्गस्य एकारादेशः भवति ] → अनयोस् [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः] → अनयोः [विसर्गनिर्माणम्] 'इदकम्' शब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - इदकम् + टा [तृतीयैकवचनस्य प्रत्ययः] → इदक अ + आ [<<त्यदादीनामः>> 7.1.102 इति मकारस्य अकारः] → इदक + आ [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → इमक + आ [<<दश्च>> 7.2.109 इति दकारस्य मकारादेशः] → इमक + इन [<<टाङसिङसामिनात्स्याः>> 7.1.12 इति टा-इत्यस्य इन-आदेशः] → इमकेन [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः]
<<अनाप्यकः>> - टादावचि विशेषमाह-अनाप्यकः । अन्,-आपि,-अक इति च्छेदः । न विद्यते क् यस्य सः अक्, तस्य-अकः । ककाररहितस्येत्यर्थः । 'इदमो मः' इत्यत 'इदम' इति, इदोऽय्पुंसी॑त्यत 'इद' इति चानुवर्तते ।अष्टन आ विभक्तौ इत्यतो विभक्ताविति । तदाह — अककारस्येत्यादिना । आपीत्यनेन टाप्डाप्चापां ग्रहणं नेत्याह-आबित्यादिना । 'टा' इत्याकारमारभ्येत्यर्थः । विभक्तावित्यनुवृत्तिसामर्थ्यान्न टाबादिग्रहणमिति भावः । अनेनेति । इदमा इति स्थिते त्यदाद्यत्वं पररूपत्वम् । इदोऽनादेशः । अन-आ इति स्थिते इनादेशे गुण इति भावः ।