न ङिसम्बुद्ध्योः

8-2-8 न ङिसम्बुद्ध्योः पदस्य पूर्वत्र असिद्धम् नलोपः प्रातिपदिकान्तस्य

Sampurna sutra

Up

प्रातिपदिकस्य पदस्य अन्त्यस्य नः लोपः ङि-सम्बुद्ध्यौः न

Neelesh Sanskrit Brief

Up

प्रातिपदिकान्तम् यत् पदम्, तदन्तस्य नकारस्य ङि-प्रत्यये परे सम्बुद्धि-प्रत्यये च परे लोपः न भवति ।

Neelesh English Brief

Up

For a प्रातिपदिक that also gets the पदसंंज्ञा, the terminal न् letter is not omitted in presence of the
ङि or सम्बुद्धि प्रत्यय.

Kashika

Up

ङौ परतः संबुद्धौ च नकारलोपो न भवति। आ॒र्द्रे चर्म॒न् (तै०सं० ७.५.९.३)। लोहिते चर्मन् (काठ०सं० २४.२)। <<सुपां सुलुक्०>> ७.१.३९ इति ङेर्लुक्। संबुद्धौ — ेहेराजन्। हे तक्षन्। एतस्मादेव नलोपप्रतिषेधवचनाद् अप्रत्ययः१.२.४५ इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा न प्रतिषिध्यत इति ज्ञाप्यते, भसंज्ञा च न भवतीति। तथा च राज्ञः पुरुषो राजपुरुष इत्यत्र नलोपः८.२.७ च भवति, अल्लोपः ६.४.१३४ च न भवति॥ ङावुत्तरपदे प्रतिषेधस्य प्रतिषेधो वक्तव्यः॥ चर्मणि तिला अस्य चर्मतिलः। हे राजवृन्दारक इत्यत्र तु समुदायार्थसंबोधनं न पूर्वपदार्थसंबोधनं प्रतीयत इति संबुद्ध्यन्तं पूर्वपदं नैव समस्यते॥ वा नपुंसकानामिति वक्तव्यम्॥ हे चर्मन्। हे चर्म॥

Siddhanta Kaumudi

Up

नस्य लोपो न स्यात् ङौ संबुद्धौ च । हे राजन् । ङौ तु छन्दस्युदाहरणम् । सुपां सुलुक्इति ङेर्लुक् । निषेधसामर्थ्यात्प्रत्ययलक्षणम् । परमे व्योमन् ॥<!ङावुत्तरपदे प्रतिषेधो वक्तव्यः !> (वार्तिकम्) ॥ चर्मणि तिला अस्य चर्मतिलः । ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठः । राजानौ । राजानः । राजानम् । राजानौ । अल्लोपोऽनः <{SK234}> । श्चुत्वम् । न चाऽल्लोपः स्थानिवत् । पूर्वत्रासिद्धे तन्निषेधात् । नाऽपि बहिरङ्गतयाऽसिद्ध । यथोद्देशपक्षे षाष्ठीं परिभाषां प्रति श्चुत्वस्यासिद्धतयाऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः । जञोर्ज्ञः । राज्ञः । राज्ञा ॥

Laghu Siddhanta Kaumudi

Up

नस्य लोपो न ङौ सम्बुद्धौ च। हे राजन्। <<ङावुत्तरपदे प्रतिषेधो वक्तव्यः>>। ब्रह्मनिष्ठः। राजानौ। राजानः। राज्ञः॥

Neelesh Sanskrit Detailed

Up

<<नलोपः प्रातिपदिकान्तस्य>> 8.2.16 अनेन सूत्रेण प्रातिपदिकान्तस्य पदस्य अन्तिमनकारस्य लोपः विधीयते । अयं लोपः 'ङि'-प्रत्यये परे सम्बोधन-एकवचनस्य सुँ-प्रत्यये च परे न भवति । यथा - राजन् + सुँ [सम्बुद्धिः] → राजन् इत्येव रूपं सिद्ध्यति । अस्मिन् सूत्रे 'ङि' इत्यस्य ग्रहणम् किमर्थम् कृतम्? वस्तुतः लोके तु ङि-प्रत्यये परे नकारान्तशब्दस्य पदसंज्ञा एव न विधीयते, अतः <<नलोपः प्रातिपदिकान्तस्य>> 8.2.16 इत्यनेन तस्य लोपः अपि न सम्भवति । अतः लौकिक-संस्कृतार्थम् ङि-ग्रहणम् न आवश्यकम् । परन्तु वेदेषु केषुचन स्थलेषु सप्तम्येकवचनस्य ङि-प्रत्ययस्य लोपः कृतः दृश्यते । यथा - तैत्तिरीयोपनिषदि इदम् सूक्तम् दृश्यते - सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् ॥ [तैत्तिरीयोपनिषत् 2-1-1] अत्र वस्तुतः व्योमन् इति सप्तम्येकवचनमस्ति । <<सुपां सुलुक्....>> 7.1.39 इत्यनेन 'व्योमन् + ङि' अत्र ङि-प्रत्ययस्य लोपः जायते । एवं लोपे कृते <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन 'व्योमन्' इत्यस्य पदसंज्ञा भवति । अत्र <<नलोपः प्रातिपदिकान्तस्य>> 8.2.16 इत्यनेन नकारलोपः मा भूत्, एवं स्पष्टीकर्तुमस्मिन् सूत्रे ङि-ग्रहणम् कृतमस्ति । अस्य प्रयोगः केवलं वैदिकरूपाणां सिद्ध्यर्थं भवति । अत्र वार्त्तिकमेकं ज्ञातव्यम् - <!वा नपुंसकानाम् इति वक्तव्यम्!> । इत्युक्ते, <<न ङिसम्बुद्ध्योः>> 8.2.8 इत्यनेन निर्दिष्टः नकारलोपनिषेधः नपुंसकस्य विषये सम्बुद्धिप्रत्यये परे विकल्पेन भवति । यथा - नामन् + सुँ → नामन्, नाम ।

Balamanorama

Up

<<न ङिसम्बुद्ध्योः>> - हे राजन् स् इति स्थिते हल्ङ्यादिना सुलोपे सति नकारस्य पदान्तत्वात्प्रातिपदिकान्तत्वाच्च लोपे प्राप्ते — न ङिसंबुद्ध्योः ।न लोपः प्रातपदिकान्तस्ये॑त्यतो 'न लोप' इत्यनुवर्तते । तत्र 'ने' ति लुप्तषष्ठीकन्तदाह — नस्येत्यादिना । हे राजन्निति ।सर्वनामस्थाने चे॑ति दीर्घस्तु न,असंबुद्धा॑वित्युक्तेः । नन्वत्र ङिग्रहणं व्यर्थं, राजनीत्यत्र भत्वात्पदत्वाऽभावान्नलोपस्याऽप्रसक्तेरित्यत आह — ङौ तु छन्दसीति । छन्दस्येवेत्यर्थः । ननु छन्दस्यपि ङौ परतो भत्वात्पदत्वाऽभावात्कथं नकारस्य लोपप्रसङ्गो येन तन्निषेधोऽर्थवान् स्यादित्यत आह — सुपामिति । ननु 'परमे व्योमन्' इत्यादौ ङेर्लुका लुप्तत्वात्प्रत्ययलक्षणाऽभावात्कथं तत्रन ङिसंबुद्ध्यो॑रित्यस्य प्रवृत्तिरित्यत आह — निषेधसामर्थ्यादिति । छन्दस्यपि ङिलुकि प्रत्ययलक्षणाऽभावे सतिन ङिसबुद्ध्यो॑रित्यप्रवृत्तौ तद्वैयथ्र्यादिति भावः ।ननु यदि छन्दसि 'परमे व्योमन्' इत्यादौ ङेर्लुका लुप्तत्वेऽपि प्रत्ययलक्षणमाश्रित्यन ङिसंबुद्ध्यो॑रित्यस्य प्रवृत्तिरभ्युपगम्यते, तर्हि चर्मणि तिला अस्य चर्मतिलः, ब्राहृणि निष्ठा अस्य ब्राहृनिष्ठ इत्यत्रापि समासे ङिलुकः प्रत्ययलक्षणमाश्रित्यन ङिसंबुद्ध्यो॑रिति नकारस्य लोपनिषेधः स्यादित्यत आह — ङावुत्तरपदे इति । उत्तरपदे परतो यो ङिस्तस्मिन् परेन ङिसंबुद्ध्यो॑रिति निषेधस्य प्रतिषेधो वक्तव्य इत्यर्थः । एवं च 'चर्मतिलः' इत्यत्रउत्तरपदे परतो न ङिसंबुद्ध्यो॑रिति प्रतिषेधाभावान्नकारस्य लोपो निर्बाध इति भावः । भाष्ये तु छन्दसि 'परमे व्योमन्' इत्यत्रअयस्मयादीनि छन्दसी॑ति भत्वात् पदत्वाऽभावान्नकारलोपस्याऽप्रसक्तेर्ङौ प्रतिषेधो न कर्तव्य इति ङिग्रहणं प्रत्याख्यातम् । न चराजन्यती॑त्यत्र लोके राजनीवाचरतीत्यर्थेअधिकरणाच्चे॑ति क्यचिसनाद्यन्ताः इति धात्ववयवत्वात्सुपो धातुप्रातिपदिकयोरिति ङेर्लुकिराजन्ये॑त्यस्मात्तिपिराजन्यती॑त्यत्राप्यन्तर्वर्तिविभक्त्या पदत्वमाश्रित्य नकारस्य लोपप्राप्तौ तन्निषेधार्थं ङिग्रहणस्यावश्यकत्वात्तत्प्रत्याख्यानभाष्यमनुपपन्नमिति वाच्यम्, एतद्भाष्यप्राम#आण्यादे राजनीवाचरतीत्यर्थेअधिकारणाच्चे॑ति क्यचोऽनभिधानाभ्युपगमादित्यलम् । राजानमित्यादौ सुटिसर्वनामस्थाने चे॑ति दीर्घः । शसि विशेषमाह — अल्लोपोऽन इति । अनेन सूत्रेण जकारादकारस्य लोप इत्यर्थः । राजन् अस् इति स्थिते- । श्चुत्वमिति । ततश्च नकारस्य ञकारे 'राज्ञ' इति सिद्धम् । ननु 'अचः परस्मिन्' इत्यल्लोपस्य पूर्वस्मादपि विधौ स्थानिवत्त्वात्कथमिह श्चुत्वमित्यत आह — नचाल्लोपः स्थानिवदिति । कुत इत्यत आह — पूर्वत्रेति । 'पूर्वत्रासिद्धे' इति श्चुत्वे कर्तव्ये स्थानिवत्त्वनिषेधादित्यर्थः ।नन्वल्लोपो भसंज्ञापेक्षो बहिर्भूतस्वादिप्रत्ययापेक्षो बहिरङ्गः, श्चुत्वं तु श्चुयोगमात्रापेक्षत्वादन्तरङ्गम् । ततश्चअसिद्धं बहिरङ्गमन्तरङ्गे॑ इति परिभाषया श्चुत्वे कर्तव्ये बहिरङ्गस्याऽल्लोपस्याऽसिद्धत्वादकारेण व्यवधानात्कथमिह श्चुत्वमित्यत आह — नापीति । यथोद्देशेति ।यथोद्देशं संज्ञापरिभाष॑मित्येकः पक्षः । उद्देशाः=उत्पत्तिप्रदेशाः, ताननतिक्रम्य यथोद्देशम् । यत्र प्रदेशे संज्ञापरिभाषयोरुत्पत्तिस्तत्रैव ते स्थिते प्रतिविधि व्याप्रियेते इत्यर्थः ।असिद्धं बहिरङ्गमन्तरङ्गे॑ इति परिभाषेयं षष्ठाध्याये 'वाह ऊठ' इति सूत्रे ज्ञापितेति तत्रैव भाष्ये स्पष्टम् । ततश्च इयं षाष्ठी परिभाषा त्रैपादिके श्चुत्वे कर्तव्येऽन्तरङ्गे ।ञपि न प्रवर्तते,तां प्रति श्चुत्वस्याऽन्तरङ्गस्याऽसिद्धतया तद्दृष्ठआ श्चुत्वस्यैवाऽभावेन तद्विषये तस्याः परिभाषायाः प्रवृत्त्यसंभवात् । तथा च श्चुत्वे कर्तव्ये बहिरङ्गस्याप्यल्लोपस्याऽसिद्धत्वाऽभावादिह श्चुत्वं निर्बाधमिति भावः ।कार्यकालं संज्ञापरिभाष॑मित्यप्यस्ति पक्षान्तरम् । प्रतिविधिप्रदेशं प्राप्य संज्ञापरिभाषे व्याप्रियेते इत्यर्थः । अस्मिन् पक्षे यद्यपि श्चुत्वमन्तरङ्गं पुरस्कृत्यअसिद्धं बहिरङ्गमन्तरङ्गे॑ इति परिभाषाऽत्र प्रवृत्तिमर्हति, तथापि लक्ष्यानुरोधात्कार्यकालपक्षो नेहाश्रीयत इत्यलम् । जञयोगे तादृशध्वनेर्लोकवेदसिद्धत्वादिति भावः । नत्विदं वर्णान्तरम्, शिक्षादावदर्शनात् । अतएतज्ज्ञान॑मिति श्चुत्वसिद्धिरित्याहुः । राज्ञः राज्ञति । शसादावचि भत्वादल्लोपे नकारस्य श्चुत्वेन ञकार इति बावः । ननु राजन्-भ्यामिति स्थिते 'स्वादिषु' इति पदत्वात्कृते नलोपेसुपि चे॑ति दीर्घः प्राप्नोति । तथा राजन्-भिस् इति स्थिते नलोपे, 'अतो भिसः' इत्यैस् प्राप्नोति । तथा राजन्-भ्यस् इति स्थिते नलोपे 'बहुवचने झल्येत्' इत्येत्त्वं प्राप्नोति ।

Padamanjari

Up