क्षत्राद्घः

4-1-138 क्षत्रात् घः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

index: 4.1.138 sutra: क्षत्राद्घः


'तस्य अपत्यम्' (इति) क्षत्रात् घः

Neelesh Sanskrit Brief

Up

index: 4.1.138 sutra: क्षत्राद्घः


'तस्य अपत्यम्' अस्मिन् अर्थे 'क्षत्र'शब्दात् घ-प्रत्ययः भवति ।

Kashika

Up

index: 4.1.138 sutra: क्षत्राद्घः


क्षत्रशब्दादपत्ये घः प्रत्ययो भवति। क्षत्रियः। अयमपि जातिशब्द एव। क्षात्रिरन्यः।

Siddhanta Kaumudi

Up

index: 4.1.138 sutra: क्षत्राद्घः


क्षत्रियः । जातावित्येव । क्षात्रिरन्यः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.138 sutra: क्षत्राद्घः


क्षत्त्रियः। जातावित्येव। क्षात्त्रिरन्यत्र॥

Balamanorama

Up

index: 4.1.138 sutra: क्षत्राद्घः


क्षत्राद्घः - क्षत्राद्धः । 'अपत्ये' इति शेषः । क्षत्रिय इति । घस्य इयादेशेयस्येति चे॑त्यकारलोपः । क्षात्रिरन्य इति । क्षत्राच्छूद्रादाबुत्पन्न इत्यर्थः ।

Padamanjari

Up

index: 4.1.138 sutra: क्षत्राद्घः


घप्रत्ययो भवतीति । घशब्द एव, न तरप्तमपौ; अन्यथा सर्वत्रैव प्रत्ययविधौ घ इति तरप्तमपोर्ग्रहणात्प्रत्ययादेर्घकारस्येयादेशवचनमनुपपन्नं स्यात्, न च'तुग्राद्धन्' ,'घच्छौ च' इति घन्घचाववकाशौ, तत्रापि संज्ञाशब्दः सानुबन्ध उपातः । अनुबन्धस्तु संज्ञ्यर्थ इति सम्भवात्,'ङ्मुण्नित्यम्' इतिवत् ।'किमिदभ्यां वो घः' इत्यत्रापि तरप्तमपोरेवादेशत्वं विज्ञाअयते । अयमपि जातिशब्द एवेति । राजन्यजात्यभिधाने घो भवति, वैश्याशूद्रयोरुत्पादिते तु इञेवेत्यर्थः ॥