4-1-139 कुलात् खः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
index: 4.1.139 sutra: कुलात् खः
'तस्य अपत्यम्' (इति) कुलात् खः
index: 4.1.139 sutra: कुलात् खः
'तस्य अपत्यम्' अस्मिन् अर्थे 'कुल'शब्दात् ख-प्रत्ययः भवति ।
index: 4.1.139 sutra: कुलात् खः
उत्तरसूत्रे पूर्वप्रतिषेधादिह तदन्तः केवलश्च दृश्यते। कुलशब्दान्तात् प्रातिपदिकात् केवलाच् च अपत्ये खः प्रत्ययो भवति। आढ्यकुलीनः। श्रोत्रियकुलीनः। कुलीनः।
index: 4.1.139 sutra: कुलात् खः
कुलीनः । तदन्तादपि । उत्तरसूत्रे अपूर्वपदात् इति लिङ्गात् । आढ्यकुलीनः ॥
index: 4.1.139 sutra: कुलात् खः
कुलात् खः - कुलात्खः । 'अपत्ये' इति शेषः । कुलीन इति । खस्य ईनादेशः । ननु 'समासप्रत्ययविधौ' इति तदन्तविधिनिषेधादाढकुलीन इति कथमित्यत आह — तदन्तादपीति । आढकुलीन इति । आढकुलशब्दात्कर्मधारयात्खः । कुले आध्यत्वप्रतीतिरत्र फलम् । कुलीनशब्देन कर्मधारये तु तदप्रतीतिरिति भेदः ।
index: 4.1.139 sutra: कुलात् खः
उतरसूत्र इत्यादि । पूर्वपदप्रतिषेधस्यैतत्प्रयोजनम् - आढ।ल्कुलादेर्माभूदिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेवाढ।ल्कुलादेर्न भविष्यति, पश्यति त्वचार्यः - नायं प्रतिषेधः कुलशब्दे प्रवर्तत इति । तेनात्र तावतदन्तस्य ग्रहणम्'येन विधिस्तदन्तस्य' इत्यत्र स्वरूपमित्यनुवृतेः केवलस्याति ग्रहणम् । सामान्यापेक्षं च ज्ञापकम् -'प्रातिपदिकश्रुतिमती परिभाषा कुशलशब्दे न प्रवर्तते इति, तेन'व्यपदेशिवद्भावो' प्रातिपदिकेन' इत्यस्या अप्यप्रवृत्तिः । कुलीन इति उतरसूत्रेऽन्यतरस्यांग्रहणात्केवलादप्यनेन खो भवति । प्रशस्तो वंशःउकुलम्, तस्यापत्यं तत्प्रभवस्यापत्यमित्यर्थः ॥