5-4-91 राजाहःसखिभ्यः टच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य
तत्पुरुषस्य राजा-अहन्-सखिभ्यः टच्
यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।
राजन् अहन् सखि इत्येवमन्तात् तत्पुरुषात् प्रातिपदिकात् टच् प्रत्ययो भवति। महाराजः। मद्रराजः। परमाहः। उत्तमाहः। राज्ञः सखा राजसखः। ब्राह्मणसखः। इह कस्माद् न भवति — मद्राणां राज्ञी मद्रराज्ञी, लिङ्गविशिष्टपरिभाषया प्राप्नोति ? लघ्वक्षरस्य पूर्वनिपाते प्राप्ते राजशब्दस्य सवर्णदीर्घार्थं प्रथमं प्रयोगं कुर्वन्नेतद् ज्ञापयति — यस्याकारेण सवर्णदीर्घत्वं संभवति तस्येदं ग्रहणमिति॥
एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः । अतिराजी । कृष्णसखः ॥
एतदन्तात्तत्पुरुषाट्टच् स्यात्। परमराजः॥
यस्य तत्पुरुषसमासस्य उत्तरपदम् राजन्, अहन्, सखि - एतेषु किञ्चन विद्यते तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । उदाहरणानि - 1. महान् च असौ राजा [<<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> 2.1.61 इति तत्पुरुषसमासः] → महत् + राजन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → महा + राजन् + अ [<<आन्महतः समानाधिकरणजातीययोः>> 6.3.46 इति महत्-शब्दस्य तकारस्य आकारादेशः] → महा + राज् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → महाराज एवमेव - मद्राणां राजा - मद्रराजः, परमश्चासौ राजा परमराजः - एतादृशाः शब्दाः अपि सिद्ध्यन्ति । 2. उत्तमम् च तद् अहः[<<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> 2.1.61 इति तत्पुरुषसमासः] → उत्तम + अहन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → उत्तमाहन् + अ [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] → उत्तमाह् + अ [<<अह्नष्टखोरेव>> 6.4.145 इति टिलोपः] → उत्तमाह [<<रात्राह्नाहाः पुंसि>> 2.4.29 इत्यनेन पुंस्त्वम्] विशेषः - यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच्-प्रत्यये प्राप्ते <<अह्नोऽह्न एतेभ्यः>> 5.4.88 इत्यनेन अहन्-शब्दस्य अह्न-आदेशः भवति । यथा - सर्वमहः सर्वाह्णः । सङ्ख्यातमहः सङ्ख्याताह्नः । अह्नः पूर्वम् पूर्वाह्णः । द्वयोः अह्नोः भवः द्व्यह्नः - आदयः । 3. कृष्णस्य सखा [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषः] → कृष्ण + सखि + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → कृष्ण + सख् + अ [<<यस्येति च>> 6.4.148 इति टिलोपः] → कृष्णसख एवमेव - परमश्चासौ सखा परमसखः इत्यपि सिद्ध्यति । विशेषः - टच्-प्रत्याहारे टकारस्य ग्रहणम् <<टिड्ढाणञ्..>> 4.1.15 इत्यनेन ङीप्-प्रत्ययविधानार्थमस्ति । यथा - अतिक्रान्ता राजानम् (gone beyond / exceeded the king) [<!अत्यादयः क्रान्ताद्यर्थे!> इत्यनेन वार्त्तिकेन तत्पुरुषसमासः] → अति + राजन् + टच् [वर्तमानसूत्रेण समासान्तः टच् प्रत्ययः] → अति + राज् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → अति + राज् + अ + ङीप् [स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> 4.1.15 इत्यनेन ङीप्] → अति + राज् + अ + ई [इत्संज्ञालोपः] → अति + राज् + ई [<<यस्येति च>> 6.4.148 इति टिलोपः] → अतिराजी एवमेव 'अतिक्रान्ता सखायम्' सा अतिसखी - इत्यपि सिद्ध्यति । स्मर्तव्यम् - समासान्तप्रकरणस्य विषये <<प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्>> इति परिभाषा न स्वीकर्तव्या इति परिभाषेन्दुशेखरे नागेशः स्पष्टीकरोति । अतः अस्मिन् सूत्रे निर्दिष्टेन 'राजन्' शब्देन 'राज्ञी' शब्दस्य ग्रहणम् न क्रियते । इत्युक्ते, 'मद्राणाम् राज्ञी' इत्यत्र 'मद्रराज्ञी' इत्येव समासान्तशब्दः सिद्ध्यति, अत्र टच्-प्रत्ययः न विधीयते ।
<<राजाऽहस्सखिभ्यष्टच्>> - राजाहःसखिभ्यष्टच् ।तत्पुरुषस्याङ्गुलेः॑ इत्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवचनत्वेन विपरिणतं 'राजाहःसखिभ्यः' इत्यनेन विशेष्यते । तदन्तविधिः । तदाह — एतदन्तादिति । परमराज इति । परमश्चासौ राजा चेति विग्रहः । 'अत्यादयः' इति समासः । टचि टिलोपः । कृष्णसख इति । कृष्णस्य सखेति विग्रहः । समासान्तष्टच् ।यस्येति चे॑ति इकारलोपः ।
इह कस्मादिति। किं च स्याद्यद्यत्र टच् स्यात् ?'भस्याढेअ तद्धिते' इति पुंवद्भावेन ङीपि निवृते टचि टिलापे सति टित्वान्ङीपि मद्रराजीति स्यात्, भद्ररार्ज्ञीति चेप्यते। तस्मादत्र टचोऽनुत्पत्तिवक्तव्येति भावः। टचश्चित्करणमन्तोदातार्थम्; अन्यथा प्रत्ययस्य समासेकदशत्वाद्विधुरः, प्रधुर इत्यादाविव प्रत्ययस्वरोऽव्ययपूर्वपदप्रकृतिस्वरेण बाध्येत ॥