अन्

6-4-167 अन् असिद्धवत् अत्र आभात् भस्य प्रकृत्या अणि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अन्नन्तमणि प्रकृत्या भवत्यपत्ये चानपत्ये च। सामनः। वैमनः। सौत्वनः। जैत्वनः॥

Siddhanta Kaumudi

Up

अणि अन्प्रकृत्या स्यादिति टिलोपो न । अभावकर्मणोः किम् ? राज्ञः कर्म भावे वा राज्यम् ॥

Laghu Siddhanta Kaumudi

Up

अन् प्रकृत्या स्यादणि परे । राजनः । श्वशुर्यः ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अन्>> - अन् । 'इनण्यनपत्ये' इत्यतोऽणीत्यनुवर्तते ।प्रकृत्यैका॑जित्यतः प्रकृत्येति च । तदाह — अणीति । राज्यमिति ।गुणवचनब्राआहृणादिभ्यः॑ इति ष्यञ् । टिलोपः ।

Padamanjari

Up

अनपत्ये इति निवृतम् । सामनः, वैमन इति । तस्येदम् इत्यण्, सुयजोर्ङ्वनिप्, ह्रस्वस्य तुक् - सुत्वा, तस्यापत्यं सौत्वनः ॥