द्वारादीनां च

7-3-4 द्वारादीनां च वृद्धिः अचः ञ्णिति तद्धितेषु आदेः न य्वाभ्यां पूर्वौ तु ताभ्याम् ऐच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्वार इत्येवमादीनां य्वाभ्याम् उत्तरस्य अचामादेरचः स्थाने वृद्धिर्न भवति, पूर्वौ तु ताभ्यामैजागमौ भवतः। द्वारे नियुक्तो दौवारिकः। द्वारपालस्येदं दौवारपालम्। तदादिविधिश्चात्र भवति। स्वरमधिकृत्य कृतो ग्रन्थः सौवरः। सौवरोऽध्यायः, सौवर्यः, सप्तम्य इति। व्यल्कशे भवो वैयल्कशः। स्वस्तीत्याह सौवस्तिकः। स्वर्भवः सौवः। <<अव्ययानां भमात्रे टिलोपः>> (६.४.१४४ वा०)। स्वर्गमनमाह सौवर्गमनिकः। स्वाध्याय इति केचित् पठन्ति, तदनर्थकम्। शोभनोऽध्याय इत्येतस्यां व्युत्पत्तौ तु पूर्वेणैव सिद्धम्। अथाप्येवं व्युत्पत्तिः क्रियते — स्वोऽध्यायः स्वाध्याय इति। एवमप्यत्रैव स्वशब्दस्यैव पाठात् सिद्धम्। तदादावपि हि वृद्धिरियं भवत्येव। स्फ्यकृतस्यापत्यं स्फैयकृतः। स्वादुमृदुन इदं सौवादुमृदवम्। शुन इदं शौवनम्। अणि <<अन्>> ६.४.१६७ इति प्रकृतिभावः। शुनो विकारो मांसं शौवम्। <<प्राणिरजतादिभ्योऽञ्>> ४.३.१५४ इत्यञ्। श्वादंष्ट्रायां भवः शौवादंष्ट्रो मणिः। स्वस्येदं सौवम्। स्वग्रामे भवः सौवग्रामिकः। अध्यात्मादित्वात् (४.३.६० वा०) ठञ्। अपदान्तार्थोऽयमारम्भः॥ द्वार। सवर। व्यल्कश। स्वस्ति। स्वर्। स्फ्यकृत। स्वादुमृदु। श्वन्। स्व। द्वारादिः॥

Siddhanta Kaumudi

Up

द्वार, स्वर्, व्यल्कश, स्वस्ति, स्वर, स्फ्यकृत्, स्वादु, मृदु, श्वस्, श्वन्, स्व एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

दौवारिक इति ।'तत्र नियुक्तः' इति ठक् । द्वारपालस्येदं दौवारपालमिति ।'संज्ञापूर्वको विधिरनित्यः' इति वृद्धलक्षणश्छाए न भवति,'कलापिनो' ण्ऽ इत्यत्राण्ग्रहणस्याधिकविधानार्थत्वाद्वा । कथं पुनर्द्वारशब्दस्य पाठे द्वारपालशब्दस्य विधिरयं भवति ? तत्राह - तदादिविधिश्चात्र भवतीति । अत्र च कारणं देविकादिसूत्र एवोक्तम् । ज्ञापकं चात्र वक्ष्यति । सौवरोऽध्याय इति । स पुनः शन्तनुप्रणीतः, फिषित्यादिकः ।'सौवर्यः सप्तम्यस्तदन्तसप्तम्यः' इति भाष्ये । शोभनोऽध्यायः स्वाध्याय इति । आङ्त्र मध्ये प्रक्षेप्तव्यः, ठन्येषामपि दृश्यतेऽ इति वा उतरपदादेदीर्घत्वम् । एवमपीत्यादि । यद्यत्र स्वशब्दः पठ।ल्ते, किमायातं स्वाध्यायशब्दस्य ? तत्राह - तदादावपि हीति । स्वार्थिक-स्वाभाविकादयस्तु भाष्यप्रयोगात्साधवः । स्फैयकृत इति ऋषित्वादण् । शौवादंष्ट्रो मणिरिति ।'शुनो दन्तदंष्ट्रा' इति दीर्घत्वम्, पूर्ववदण् ॥