इनण्यनपत्ये

6-4-164 इन् अणि अनपत्ये असिद्धवत् अत्र आभात् भस्य प्रकृत्या

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इन्नन्तमनपत्यार्थेऽणि परतः प्रकृत्या भवति। सांकूटिनम्। सांराविणम्। सांमार्जिनम्। <<अभिविधौ भाव इनुण्>> ३.३.४४, <<अणिनुणः>> ५.४.१५ इत्यण्। स्रग्विण इदं स्राग्विणम्। अणीति किम्? दण्डिनां समूहो दाण्डम्। <<अनुदात्तादेरञ्>> ४.२.४४ इत्यञ्प्रत्ययः। अनपत्य इति किम्? मेधाविनोऽपत्यं मैधावः॥

Siddhanta Kaumudi

Up

अनपत्यार्थेऽणि परे इन् प्रकत्या स्यात् । तेन नस्तद्धिते <{SK679}> इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरञि यौवतम् ॥

Laghu Siddhanta Kaumudi

Up

अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । तेन नस्तद्धित इति टिलोपो न । युवतीनां समूहो यौवनम् ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इनण्यनपत्ये>> - इनण्यनपत्ये । इन्-अमीति छेदः प्रकृत्येति ।प्रकृत्यैका॑जित्यतस्तदनुवृत्तेरिति भावः । टिलोपो नेति । अञि तु प्रकृतिभावाऽप्रवृत्तेष्टिलोपः स्यादिति भावः । यौवनमिति ।कनिन्युवृषितक्षी॑त्यौणादिककनिन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । ततः स्त्रियांयूनस्ति॑रिति तिप्रत्ययस्य प्रत्ययस्वरेणोदात्तत्वे सतिशिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्त्वादञि प्राप्ते भिक्षादित्वादणि कृते सति 'भस्याऽढे' इति पुंवत्त्वे ति प्रत्ययस्य निवृत्तौ 'अन्' इति प्रकृतिभावाट्टिलोपाऽभावेयौवन॑मिति रूपम् । अञि तु प्रकृतिभावस्याऽप्रवृत्तेष्टिलोपः स्यादिति भावः । वस्तुतस्तु 'भस्याऽढे तद्धिते' इत्यस्य अढे तद्धिते विवक्षिते सति ततः प्रागेव पुंवदित्यर्थः । ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वादनुदात्तादित्वाऽभावादञभावे 'तस्य समूहः' इत्यणि प्रकृतिभावाट्टिलोपाऽभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्यातो भाष्यकैयटयोरित्यलम् । शत्रन्तादिति । प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्तादिरयं युवच्छब्दः । तत उगिल्लक्षङीपः पुवत्त्वेन निवृत्तौ युवच्छब्दादनुदात्तादेरञि यौवतमिति रूपमिति भावः ।

Padamanjari

Up

सांकूटिनमिति । कूट दाहे, दीर्घोपधः, अभिविधौ भावे इनुण्, अमिनुणः ॥