5-4-96 अतेः शुनः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्
तत्पुरुषस्य अतेः शूनः टच्
यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।
अतिशब्दात् परो यः श्वन्शब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। अतिक्रान्तः श्वानम् अतिश्वो वराहः। जववानित्यर्थः। अतिश्वः सेवकः। सुष्ठु स्वामिभक्त इत्यर्थः। अतिश्वी सेवा। अतिनीचेत्यर्थः॥
अतिश्वो वराहः । अतिश्वी सेना ॥
यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति । यथा - अतिक्रान्तः श्वानम् (surpasses a dog in certain quality, e.g. speed of running) [<!अत्यादयः क्रान्ताद्यर्थे द्वितीयया!> इति प्रादिसमासः] → अति + श्वन् + टच् → अति + श्व् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → अतिश्व अतिक्रान्तः श्वानम् सः अतिश्वः वराहः । स्त्रीत्वे विवक्षिते प्रत्ययस्य टित्त्वात् <<टिड्ढाणञ्...>> 4.1.15 इत्यनेन ङीप्-प्रत्ययः भवति । अतिक्रान्तः श्वानम् सः अतिश्वी अजा । विशेषः - 'टच्' इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अत्र प्रक्रियायाम् <<श्वयुवमघोनामतद्धिते>> 6.4.133 इत्यनेन सम्प्रसारणम् न भवति ।
<<अतेः शुनः>> - अतेश्शुनः । अतीत्यव्ययात्परो यः आन्शब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः । अतिआ इति । आआनमतिकान्त इति विग्रहः । अत्यादय इति समासः । टचि, टिलोपः । आआपेक्षयाधिकवेगवान्वराह इत्यर्थः । अतिआई सेवेति । आआनमतिक्रान्तेत्यर्थः । आआपेक्षया नीचा सेवेति यावत् । टच्, टिलोपः । टित्त्वान्ङीप्, यस्येति चेत्यकारलोपः ।