जहातेश्च

6-4-116 जहातेः च असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके हलि इत् अन्यतरस्याम्

Sampurna sutra

Up

जहातेः अङ्गस्य हलि सार्वधातुके क्ङिति इत् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

हा-धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति ।

Neelesh English Brief

Up

The verb root 'हा' is converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय.

Kashika

Up

जहातेश्चेकारादेशो भवत्यन्यतरस्यां हलादौ क्ङिति सार्वधातुके परतः। जहितः, जहीतः। जहिथः, जहीथः। हलादावित्येव — जहति। क्ङितीत्येव — जहाति। सार्वधातुक इत्येव — हीयते। जेहीयते। पृथग्योगकरणमुत्तरार्थम्॥

Siddhanta Kaumudi

Up

इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्षे ईत्वम् । जहितः । जहीतः । जहति । जहौ ॥

Laghu Siddhanta Kaumudi

Up

इद्वा स्याद्धलादौ क्ङिति सार्वधातुके। जहितः॥

Neelesh Sanskrit Detailed

Up

ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे <<ई हल्यघोः>> 6.4.113 इत्यनेन ईकारादेशः विधीयते । तं विकल्पेन बाधित्वा वर्तमानसूत्रेण ह्रस्व-इकारादेशः अपि भवति । यथा, अस्य लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् - हा + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → हा + तस् [<<तिप्तस्..>> 3.4.78 इति तस् । <<सार्वधातुकमपित्>> 1.2.4 इति ङित्-वत् भावः] → हा + शप् + तस् [<<कर्तरि शप्>> 3.1.68 इति शप्] → हा + तस् [<<जुहोत्यादिभ्यः श्लुः>> 2.4.75 इति श्लुः] → हा हअ + तस् [<<श्लौ>> 6.4.10 इति द्वित्वम्] → ह हा + तस् [<<ह्रस्वः>> 7.4.59 इति ह्रस्वः] → झ हा + तस् [<<कुहोश्चुः>> 7.4.62 इत्यनेन संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः] → झ हि + तस् / झ ही तस् [<<जहातेश्च>> 6.4.116 इति वैकल्पिकः ह्रस्व-इकारादेशः । तदभावात् <<ई हल्यघोः>> 6.4.113 इत्यनेन ईकारादेशः] → झहितः / झहीतः [विसर्गनिर्माणम्] → जहितः / जहीतः [<<अभ्यासे चर्च्च>> 8.4.54 इति जश्त्वम्] आर्धधातुके प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'हा' धातोः कर्मणि लट्लकारस्य प्रथमपुरुषैकवचनम् 'हीयते' इति भवति । अत्र 'यक्' इति कित्-आर्धधातुकप्रत्ययः अस्ति, अतः अत्र ह्रस्व-इकारादेशः न भवति । केवलं <<घुमास्थागापाजहातिसां हलि>> 6.4.66 इत्यनेन दीर्घादेशे कृते रूपं सिद्ध्यति ।

Balamanorama

Up

<<जहातेश्च>> - जहातेश्च ।इद्दरिद्रस्ये॑त्यत इदिति,भियोऽन्यतरस्या॑मित्यतो हलीति चत्यभिप्रेत्य शेषं पूरयति — इत्स्याद्वेति । जहतीति । अब्यस्तत्वाददादेशेश्नाब्यस्तयो॑रित्याल्लोपः । जहाविति । जहतुः जहुः । जहिथ — जहाथ जहथुः दजह । जहौ जहिव जहिम । हाता । हास्यति । जहितादिति । जहिताम् — जहीताम् जहतु ।

Padamanjari

Up

अत्रापि न सार्वधातुके त्यिस्योपयोगः, अत एवास्य प्रत्युदाहरणं न प्रदर्शितम् । अभ्यस्तस्य इत्यनुवृतेरार्धधातुके न भविष्यति, लिडजादिः ॥