भियोऽन्यतरस्याम्

6-4-115 भियः अन्यतरस्याम् असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके हलि इत्

Sampurna sutra

Up

भियः अङ्गस्य हलि सार्वधातुके क्ङिति इत् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

भी-धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति ।

Neelesh English Brief

Up

The last letter of the अङ्ग of verb root 'भी' is optionally converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय.

Kashika

Up

भी इत्येतस्याङ्गस्यान्यतरस्यामिकारादेशो भवति हलादौ क्ङिति सार्वधातुके परतः। बिभितः, बिभीतः। बिभिथः, बिभीथः। बिभिवः, बिभीवः। बिभिमः, बिभीमः। हलादावित्येव — बिभ्यति। क्ङितीत्येव — बिभेति। सार्वधातुक इत्येव — भीयते॥

Siddhanta Kaumudi

Up

इकारः स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः । बिभीतः । बिभ्यति । बिभयांचकार । बिभाय । भेता ।{$ {!1085 ह्री!} लज्जायाम्$} । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयांचकार । जिह्राय ।{$ {!1086 पॄ!} पालनपूरणयोः$} ॥

Laghu Siddhanta Kaumudi

Up

इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके। बिभितः, बिभीतः। बिभ्यति। बिभयाञ्चकार, बिभाय। भेता। भेष्यति। बिभेतु, बिभितात्, बिभीतात्। अबिभेत्। बिभीयात्। भीयात्। अभैषीत्। अभेष्यत्॥॥ {$ {! 3 ह्री !} लज्जायाम् $} (धातुपाठे <{03.0003}>) ॥ जिह्रेति। जिह्रीतः। जिह्रियति। जिह्रयाञ्चकार, जिह्राय। ह्रेता। ह्रेष्यति। जिह्रेतु। अजिह्रेत्। जिह्रियात्। ह्रीयात्। अह्रैषीत्। अह्रेष्यत्॥ {$ {! 4 पॄ !} पालनपूरणयोः $} (धातुपाठे <{03.0004}>)॥

Neelesh Sanskrit Detailed

Up

एतत् सूत्रम् जुहोत्यादिगणस्य 'ञिभी' (भये) धातोः विषये अस्ति । अस्य धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति । यथा, अस्य धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् - भी + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → भी + तस् [<<तिप्तस्..>> 3.4.78 इति तस्] → भी + शप् + तस् [<<कर्तरि शप्>> 3.1.68 इति शप्] → भी + तस् [<<जुहोत्यादिभ्यः श्लुः>> 2.4.75 इति श्लुः] → भी भी + तस् [<<श्लौ>> 6.4.10 इति द्वित्वम्] → भि भी + तस् [<<ह्रस्वः>> 7.4.59 इति ह्रस्वः] → भि भि + तस् / भि भी तस् [<<भियोऽन्यतरस्याम्>> 6.4.115 इति ईकारस्य वैकल्पिकः ह्रस्वः] → भिभितः / भिभीतः [विसर्गनिर्माणम्] → बिभितः / बिभीतः [<<अभ्यासे चर्च>> 8.4.55 इति जश्त्वम्]

Balamanorama

Up

<<भियोऽन्यतरस्याम्>> - भियोऽन्यतरस्याम् ।इद्दरिद्रस्ये॑त्यत इदिति,गमहने॑त्यतः क्ङितीति,ई हल्यघो॑रित्यतो हलीति,अत उ॑दित्यतः सार्वधातुके इति चानवर्तते इत्यभिप्रेत्य शेषं पूरयति — इकारः स्यादित्यादिना । बिभ्यतीति ।अदभ्यस्ता॑दित्यत् । बिभयामिति ।भीह्यीभृहुवां स्लुवच्चे॑ति श्लुवत्त्वाद्द्वित्वादीति भावः । बिभायेति । बिभ्यतुः । बिभयिथ — बिभेथ । बिभ्यिव बिभ्यिम । बेतति । भेष्यति । बिभेतु — बिभितात् — बिभीतात् बिभिताम् बिभीताम् — बिभ्यतु । बिभिहि — बिभीहि — बिभितात् — बिभीतात्, बिभीतम् — बिभीतम्, बिभित — बिभीत । बिभयानि बिभयाव बिभयाम । अबिभेत्, अबिभिताम् — अबिभीताम्, अबिभयुः । अबिभेः, अबिभितम् — अबिभीतम्, अबिभित-अबिभीत । अबिभयमबिभिव — अबिभीव अबिभम — अबिभीम । बिभियात् — बिभीयादित्यादि । आशीर्लिङ [भीयात्] भीयास्ताम् । अभैषीत् । अभेष्यत् । हृी लज्जायामिति । अनिट् । जिहियतीति ।अदभ्यस्ता॑दित्यत् । इयङ् । जिह्ययामिति । जिह्ययामिति । ह्येता । ह्येष्यति । जिह्येतु — जिह्यीतात् । जिह्यीहि । जिह्ययाणि । अजिह्येत् । जिह्यीयात् । ह्यीयात् । अह्रैषीत् । अह्येष्यत् । पृधातुः सेट् । लटस्तिपि शपः स्लौ द्वित्वे पृ पृ इति स्थिते —

Padamanjari

Up

हलादौ क्ङिति सार्वधातुक इति । नैतेषामत्रोपयोगः, तथा च प्रत्युदाहरणं न प्रदर्शितम् । थथा हि - उजादावप्यस्तु बिभ्यतीति, एरनेकाचः इति ह्रस्वस्यापि यण् भविष्यति । न चेत्वविधेर्वैयर्थ्यम् हलादौचरितार्थत्वात् । तथा विभेतीति अक्ङित्यपि भवतु गुणो भविष्यति । इत्वविधिश्च क्ङिति चचरितार्थः । तथा थाभ्यस्तस्य इत्यनुवृतेर्भीत इत्यादावार्धधातुके न भविष्यति । क्वसावपि तर्हि प्राप्नोति छान्दसः क्वसुः, दृष्टानुविधिश्च्छन्दसि ॥