6-4-109 ये च असिद्धवत् अत्र आभात् क्ङिति उतः प्रत्ययात् लोपः नित्यं करोतेः
करोतेः अङ्गस्य उतः प्रत्ययस्य ये नित्यं लोपः
कृ-धातोः विहितः यः प्रत्ययान्तः उकारः तस्य यकारे परे नित्यम् लोपः भवति ।
The उकार occurring at end of a प्रत्यय that is attached to the verb root कृ is removed when followed by a यकार.
यकारादौ च प्रत्यये परतः करोतेरुत्तरस्योकारप्रत्ययस्य नित्यं लोपो भवति। कुर्यात्, कुर्याताम् ,कुर्युः॥
कृञ उलोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि । क्रियात् । कृषीष्ट । अकार्षीत् ।तनादिभ्यः -<{SK2547}> इति लुकोऽभावे ह्रस्वादङ्गात् <{SK2369}> इति सिचो लोपः । अकृत । अकृथाः ॥
कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥
डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परस्य 'उ' इति विकरणप्रत्ययस्य यकारे परे अनेन सूत्रेण नित्यं लोपः विधीयते । यथा, कृ-धातोः विधिलिङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपस्य प्रक्रिया इयम् - कृ + लट् [<<विधिनिमन्त्रणा...>> 3.3.161 इति लिङ्] → कृ + तिप् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → कृ + उ + ति [<<तनादिकृञ्भ्यः उः>> 3.1.73 इति उ-प्रत्ययः] → कृ + उ + त् [<<इतश्च>> 3.4.100 इति इकारलोपः]] → कृ + उ + यासुट् + त् [<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> 3.4.103 इति यासुट्-आगमः] → कृ + उ + यास् + सुट् + त् [<<सुट् तिथोः>> 3.4.107 इति सुट्-आगमः] --> कर् + उ + यास् + स् + त् [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → कुर् + उ + यास् + स् + त् [<<अत उत् सार्वधातुके>> 6.4.110 इत्यनेन अकारस्य उकारादेशः] → कुर् + उ + या त् [<<लिङः सलोपोऽनन्त्यस्य>> 7.2.79 इति उभयसकारयोः लोपः । अत्र अग्रे <<हलि च>> 8.2.77 इति दीर्घादेशः प्राप्नोति, परन्तु सः <<न भकुर्छुराम्>> 8.2.79 इति निषिध्यते ।] → कुर् यात् [<<ये च>> 6.4.109 इति उकारलोपः] → कुर्यात् । स्मर्तव्यम् - उकारस्य लोपे कृते <<हलि च>> 8.2.77 इति दीर्घादेशस्य विषये <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन लुप्तः उकारः स्थानिवत्त्वं न प्राप्नोति, यतः <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> 1.1.58 इत्यनेन दीर्घविध्यर्थम् स्थानिवद्भावः विशेषरूपेण निषिद्ध्यते ।