6-4-108 नित्यं करोतेः असिद्धवत् अत्र आभात् क्ङिति उतः प्रत्ययात् लोपः म्वोः
करोतेः अङ्गस्य उतः प्रत्ययस्य म्वोः नित्यं लोपः
कृ-धातोः विहितः यः प्रत्ययान्तः उकारः तस्य मकारे वकारे च परे नित्यम् लोपः भवति ।
The उकार occurring at end of a प्रत्यय that is attached to the verb root कृ is removed when followed by a मकार or a वकार.
करोतेरुत्तरस्योकारप्रत्ययस्य वकारमकारादौ प्रत्यये परतो नित्यं लोपो भवति। कुर्वः, कुर्मः। उकारलोपस्य दीर्घविधावस्थानिवद्भावाद् १.१.५८ <<हलि च>> ८.२.७७ इति दीर्घत्वं प्राप्तं <<न भकुर्छुराम्>> ८.२.७९ इति प्रतिषिध्यते॥
करोतेः प्रत्ययोकारस्य नित्यं लोपः स्यान्म्वोः परयोः । कुर्वः । कुर्मः । चकर्थ । चकृव । चकृषे । कर्ता । करिष्यति ॥
करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥
डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परस्य 'उ' इति विकरणप्रत्ययस्य मकारे वकारे च परे <<लोपश्चास्यान्यतरस्यां म्वोः>> 6.4.107 इत्यनेन विकल्पेन लोपे प्राप्ते वर्तमानसूत्रेण सः लोपः नित्यं भवति, विकल्पेन न । यथा, कृ-धातोः लट्-लकारस्य उत्तमपुरुषबहुवचनस्य प्रक्रिया इयम् - कृ + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → कृ + मस् [<<तिप्तस्..>> 3.4.78 इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः] → कृ + उ + मस् [<<तनादिकृञ्भ्यः उः>> 3.1.73 इति उ-प्रत्ययः] → कर् + उ + मस् [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → कुर् + उ + मस् [<<अत उत् सार्वधातुके>> 6.4.110 इत्यनेन अकारस्य उकारादेशः] → कुर् + मस् [<<लोपश्चास्यान्यतरस्यां म्वोः>> 6.4.107 इति उकारस्य वैकल्पिके लोपे प्राप्ते <<नित्यं करोतेः>> 6.4.108 इति नित्यं लोपः] → कुर् + मस् [लुप्त-उकारस्य <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन स्थानिवद्भावात् <<हलि च>> 8.2.77 इति उकारस्य दीर्घे प्राप्ते <<न भर्कुछुराम्>> 8.2.79 इति निषेधः । अतः उकारस्य दीर्घः न भवति] → कुर्मः [विसर्गनिर्माणम्] कृ-धातोः लट्-लकारस्य उत्तमपुरुषद्विवचनस्य प्रक्रिया अपि समाना एव वर्तते, येन 'कुर्वः' इति रूपं सिद्ध्यति ।
करोतेरुप्रत्ययान्तस्येति । उतश्च प्रत्ययाद् इत्यनुवृतेर्लभ्यते । उकारलोपस्येत्यादिना सोपपतिकां दीर्घप्रप्तिमनूद्य प्रतिषेधं दर्शयति । आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणं विस्पष्टार्थम् ॥