6-4-108 नित्यं करोतेः असिद्धवत् अत्र आभात् क्ङिति उतः प्रत्ययात् लोपः म्वोः
index: 6.4.108 sutra: नित्यं करोतेः
करोतेः अङ्गस्य उतः प्रत्ययस्य म्वोः नित्यं लोपः
index: 6.4.108 sutra: नित्यं करोतेः
कृ-धातोः विहितः यः प्रत्ययान्तः उकारः तस्य मकारे वकारे च परे नित्यम् लोपः भवति ।
index: 6.4.108 sutra: नित्यं करोतेः
The उकार occurring at end of a प्रत्यय that is attached to the verb root कृ is removed when followed by a मकार or a वकार.
index: 6.4.108 sutra: नित्यं करोतेः
करोतेः उत्तरस्य उकारप्रत्ययस्य वकारमकारादौ प्रत्यये परतः नित्यं लोपो भवति। कुर्वः। कुर्मः। उकारलोपस्य दीर्घविधौ अस्थानिवद्भावाद् हलि च 8.2.77 इति दीर्घत्वं प्राप्तम्, न भकुर्छुराम् 8.2.71 इति प्रतिषिध्यते।
index: 6.4.108 sutra: नित्यं करोतेः
करोतेः प्रत्ययोकारस्य नित्यं लोपः स्यान्म्वोः परयोः । कुर्वः । कुर्मः । चकर्थ । चकृव । चकृषे । कर्ता । करिष्यति ॥
index: 6.4.108 sutra: नित्यं करोतेः
करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥
index: 6.4.108 sutra: नित्यं करोतेः
डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परस्य 'उ' इति विकरणप्रत्ययस्य मकारे वकारे च परे लोपश्चास्यान्यतरस्यां म्वोः 6.4.107 इत्यनेन विकल्पेन लोपे प्राप्ते वर्तमानसूत्रेण सः लोपः नित्यं भवति, विकल्पेन न । यथा, कृ-धातोः लट्-लकारस्य उत्तमपुरुषबहुवचनस्य प्रक्रिया इयम् -
कृ + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ कृ + मस् [तिप्तस्.. 3.4.78 इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः]
→ कृ + उ + मस् [तनादिकृञ्भ्यः उः 3.1.73 इति उ-प्रत्ययः]
→ कर् + उ + मस् [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]
→ कुर् + उ + मस् [अत उत् सार्वधातुके 6.4.110 इत्यनेन अकारस्य उकारादेशः]
→ कुर् + मस् [लोपश्चास्यान्यतरस्यां म्वोः 6.4.107 इति उकारस्य वैकल्पिके लोपे प्राप्ते नित्यं करोतेः 6.4.108 इति नित्यं लोपः]
→ कुर् + मस् [लुप्त-उकारस्य अचः परस्मिन् पूर्वविधौ 1.1.57 इत्यनेन स्थानिवद्भावात् हलि च 8.2.77 इति उकारस्य दीर्घे प्राप्ते न भर्कुछुराम् 8.2.79 इति निषेधः । अतः उकारस्य दीर्घः न भवति]
→ कुर्मः [विसर्गनिर्माणम्]
कृ-धातोः लट्-लकारस्य उत्तमपुरुषद्विवचनस्य प्रक्रिया अपि समाना एव वर्तते, येन 'कुर्वः' इति रूपं सिद्ध्यति ।
index: 6.4.108 sutra: नित्यं करोतेः
करोतेरुप्रत्ययान्तस्येति । उतश्च प्रत्ययाद् इत्यनुवृतेर्लभ्यते । उकारलोपस्येत्यादिना सोपपतिकां दीर्घप्रप्तिमनूद्य प्रतिषेधं दर्शयति । आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणं विस्पष्टार्थम् ॥