8-2-79 न भकुर्छुराम् पदस्य पूर्वत्र असिद्धम् धातोः र्वोः उपाधायाः इकः
रेफवकारान्तस्य भस्य कुर् छुर् इत्येतयोश्च दीर्घो न भवति। धुरं वहति धुर्यः। धुरि साधुर्धुर्यः। दिव्यम्। कुर् — कुर्यात्। छुर् — छुर्यात्। रेफवकाराभ्यां भविशेषणं किम्? प्रतिदीव्ना। प्रतिदीव्ने॥
भस्य कुर्च्छुरोश्चोपधाया दीर्घो न स्यात् । धुर्यः । धौरेयः ॥
भस्य कुर्छुरोरुपधाया न दीर्घः। कुर्वन्ति ॥
<<न भकुर्छुराम्>> - न भकुर्छुराम् । 'र्वोरुपधायाः' इत्यत 'उपधाया' इति दीर्घ इति चानुवर्तते । तदाह — भस्येत्यादिना ।धूर्वहे धुर्यधौरेयधुरीणाः॑ इत्यमरः ।
छुर्यादिति ।'छुर छेदने' , आशिषि लिङ् । प्रतिदीव्नेति । योऽत्र वकारान्तो नासौ भसज्ञकः, यश्च भसंज्ञो नासौ वकारान्तः, किं तर्हि ? नकारान्तः ॥