ईदूदेद्द्विवचनं प्रगृह्यम्

1-1-11 ईदूदेद् द्विवचनं प्रगृह्यम्

Sampurna sutra

Up

ईत्-ऊत्-एत् द्विवचनं प्रगृह्यम्

Neelesh Sanskrit Brief

Up

द्विवचनस्य दीर्घ-ईकारान्तम्, दीर्घ-ऊकारान्तम् तथा एकारान्तम् रूपम् 'प्रगृह्य'संज्ञकम् भवति ।

Neelesh English Brief

Up

दीर्घ-ईकारान्त, दीर्घ-ऊकारान्त and एकारान्त forms of द्विवचन are known as 'प्रगृह्य'.

Kashika

Up

ईत् ऊत् एत् इत्येवमन्तं द्विवचनं शब्दरूपं प्रगृह्यसंज्ञं भवति। अग्नी इति। वायू इति। माले इति। पचेते इति। पचेथे इति। ईदूदेदिति किम्? वृक्षावत्र। प्लक्षावत्र। द्विवचनमिति किम्? कुमार्यत्र। किशोर्यत्र। तपरकरणमसंदेहार्थम् । प्रगृह्यप्रदेशाः — <<प्लुतप्रगृह्या अचि>> ६.१.१२५ इत्येवमादयः। ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः।

मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम (महाभारत १२.१७७.१२)।

दम्प॑तीव (ऋ०२.३९.२)। जम्पतीव। रोदसीव॥

Siddhanta Kaumudi

Up

ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः ॥

Laghu Siddhanta Kaumudi

Up

ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> 1.1.11 इत्यतः <<ईदूतौ च सप्तम्यर्थे>> 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् प्रथमं सूत्रम् । द्विवचनस्य तिङन्तं तथा सुबन्तं शब्दरूपम् यदि दीर्घ-ईकारान्तम् / दीर्घ-ऊकारान्तम् / एकारान्तम् अस्ति, तर्हि तस्य प्रगृह्यसंज्ञा भवति - इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि — 1. 'हरि' शब्दस्य प्रथमाद्वितीयाद्विवचनम् हरी इति ईकारान्तत्वात् प्रगृह्यसंज्ञकं भवति । 2. 'साधु' शब्दस्य प्रथमाद्वितीयाद्विवचनम् साधू इति ऊकारान्तत्वात् प्रगृह्यसंज्ञकं भवति । 3. 'माला' शब्दस्य प्रथमाद्वितीयाद्विवचनम् माले इति एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति । 4. 'द्वि' शब्दस्य स्त्रीलिङ्गनपुंसकलिङ्गयोः प्रथमाद्विवचनम् द्वितीयाद्विवचनम् च द्वे इति एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति । 5. 'पच्' धातोः लट्लकारस्य द्विवचनस्य रूपाणि - पचेते, पचेथे, पचावहे एतानि एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति । कानिचन प्रत्युदाहरणानि एतानि — 1. 'बाल' शब्दस्य 'बालौ' इति रूपम् यद्यपि द्विवचनस्य अस्ति तथापि ईकारान्तम् / ऊकारान्तम् / एकारान्तम् नास्ति, अतः तस्य प्रगृह्यसंज्ञा न भवति । 2. 'बाल' शब्दस्य 'बाले' इति रूपम् यद्यपि एकारान्तम् अस्ति तथापि एतत् द्विवचनस्य रूपम् नास्ति (सप्तम्येकवचनस्य रूपम् अस्ति), अतः तस्य प्रगृह्यसंज्ञा न भवति । 3. 'पच्' धातोः 'पचते' इति रूपम् यद्यपि एकारान्तम् अस्ति तथापि एतत् द्विवचनस्य रूपम् नास्ति (एकवचनस्य रूपम् अस्ति), अतः तस्य प्रगृह्यसंज्ञा न भवति । प्रगृह्यसंज्ञाः प्रयोजनम् अष्टाध्याय्यां प्रगृह्यसंज्ञायाः निर्माणस्य मुख्यं प्रयोजनम् अस्ति <<प्लुतप्रगृह्याः अचि नित्यम्>> 6.1.125 इत्यनेन विहितः अच्सन्धिविषयकः प्रकृतिभावः । प्रगृह्यसंज्ञकानाम् शब्दानाम् अच्-सन्धिः कदापि नैव भवति (तत्र प्रकृतिभावः भवति) — इति <<प्लुतप्रगृह्याः अचि नित्यम्>> 6.1.125 अस्य सूत्रस्य आशयः । यथा - 'हरी एतौ', 'साधू इमौ', 'गङ्गे एते', 'द्वे अपि', 'पचेते अत्र' एतेषु उदाहरणेषु संहितायाम् सत्याम् अपि अच्सन्धिः न भवति । अष्टाध्याय्यां प्रगृह्यसंज्ञायाः प्रयोगः अष्टाध्याय्यां प्रगृह्यसंज्ञायाः प्रयोगः आहत्य त्रिषु स्थलेषु साक्षात् कृतः अस्ति — 1. <<प्लुतप्रगृह्याः अचि नित्यम्>> 6.1.125 2. <<एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ>> 8.2.107 3. <<अणोऽप्रगृह्यस्यानुनासिकः>> 8.4.57 विशिष्टप्रयोगानाम् ऊहः कुत्रचित् साहित्ये दीर्घ-ईकारान्तस्य द्विवचनस्य रूपस्य अपि अच्सन्धिः कृतः दृश्यते । यथा, 'मणीव' इति कश्चन सन्धिः महाभारते कृतः अस्ति — मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । शुद्धं हि दैवमेवेदं हठेनैवास्ति पौरुषम् ॥ (महाभारते 12.177.12) अत्र विद्यमानस्य 'मणीव' इति शब्दस्य 'मणी + इव' इति सन्धिच्छेदः स्वीक्रियते ।अत्र 'मणी' इति मणिशब्दस्य प्रथमाद्विवचनस्य रूपम् । अस्य शब्दस्य वस्तुतः <<ईदूदेद्द्विवचनं प्रगृह्यम्>> 1.1.11 इत्यनेन प्रगृह्यसंज्ञा भवेत्, अतश्च अचि परे <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इत्यनेन प्रकृतिभावः भवेत् । परन्तु तादृशं क्रियते चेत् 'मणीव' इति शब्दः साधुत्वं न हि प्राप्नुयात् । अतः, अस्य साधुत्वार्थम् काशिकाकारेण <!ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः!> इति वार्त्तिकसदृशः कश्चन सिद्धान्तः पाठितः अस्ति । अनेन सिद्धान्तेन 'मणीव' इत्यत्र, तथा च तादृशेषु 'जम्पतीव', 'दम्पतीव', 'रोदसीव' एतेषु अपि भिन्नेषु शब्देषु (प्रयोगसाधुत्वार्थम्) द्विवचनान्तस्य प्रगृह्यसंज्ञा एव निषिध्यते, येन सन्धिकार्यम् सुकरं भवति । परन्तु अयं सिद्धान्तः भाष्ये न कुत्रचित् लभ्यते अतः कैयटादिभिः सः उपेक्षितः अस्ति । सिद्धान्तकौमुद्याम् तु 'व' शब्दस्य 'इव' अस्मिन् अर्थे विधानं कृत्वा 'मणी व = मणी इव' इति अर्थविधानं कृतम् अस्ति, येन अच्सन्धेः प्राप्तिरेव संह्रियते ।

Balamanorama

Up

<<ईदूदेद्द्विवचनं प्रगृह्यम्>> - ईदूदेद्द्विचनम् । ईच्च ऊच्च एच्चेति समाहारद्वन्द्वः । ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधिः ।द्विवचन॑मित्यनेन तु प्रत्ययत्वे ।ञपि न तदन्तं गृह्रते,संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती॑ति तन्निषेधात् । तदाह — ईदूदेदन्तमित्यादिना । हरी एताविति । अत्र ईकारस्य परादिवत्त्वाश्रयणाद्द्विवचनत्वम् । प्रगृह्रत्वे सति 'प्लुतप्रगृह्रा' इति प्रकृतिभावान्न यण् । विष्णू इमावित्यत्राप्येवम् । गङ्गे अमू इत्यत्र त्वयादेशो न भवति ।ईदूदेदन्त॑मिति तदन्तविधेः प्रयोजनं दर्शयितुमाह-पचेते इमाविति । तदन्तविध्यबावे ईदूदेदात्मकं द्विवचनं प्रगृह्रमिति लभ्येत । एवं सति 'पचेते' इत्यत्रइते इति द्विवचनस्य एद्रूपत्वाऽभावात्प्रगृह्रत्वं न स्यादिति भावः ।ईदूदेदन्तं यद्द्विचनान्त॑मिति व्याख्याने तु कुमार्योरगारं कुमार्यगारमित्यत्रातिप्रसङ्गः स्यात् ।ईदूदेदन्तं द्विवचन॑मिति व्याख्याने तु नातिप्रसङ्गः, ओसो द्विवचनस्य ईदूदेदन्तत्वाऽभावात् । ननुमणीवोष्ट्रस्य सम्बेते प्रियौ वत्सतरौ ममे॑ति भारतश्लोकेमणी इवे॑ति ईकारस्य प्रगृह्रत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह-मणीवोष्ट्रस्येति ।वं प्रचेतसि जानीयादिवार्थे च तदव्यय॑मिति मेदिनी ।व वा यथा तथैवैवं साम्ये॑इत्यमरः ।

Padamanjari

Up

अत्र चत्वारः पक्षाः सम्भवन्ति-ईदादि विशेष्यम्, द्विवचनं विशेषणम्, तत्र द्विवचनान्तत्वमीदादेर्न सम्भवतीति द्विवचनसंज्ञकमीदादि प्रगृह्यमिति प्रथमः पक्षः । ईदादि विशेषणम्, द्विवचनं विशेष्यम्, विशेषणेन तदन्तविधावीदाद्यन्तं द्विवचनमिति द्वितीयः पक्षः । प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति पश्चाद् द्विवचनान्तस्येदादिभिर्विशेषणादीदाद्यन्तं द्विवचनान्तमिति तृतीयः । ईदादिविशिष्टेन द्विवचनेन तदन्तविधावीदाद्यन्तं यद् द्विवचनम्, तदन्तं प्रगृह्यमिति चतुर्थः । तत्राद्ये पक्षे-अग्नी, वायू, खट्वे इत्यादावेव स्यात्; एकादेशस्य परं प्रत्यादिवद्भावेन द्विवचनमीदादीति, पचेते पचेथे पचावहे इत्यादावेकारमात्रस्याद्विवचनत्वान्न स्यात् । तृतीये तु-कुमार्योरगारं कुमार्यगारम्, वध्वोरगारं वध्वगारम्; इत्यत्रापि स्यात्-एतद्धि प्रत्ययलक्षणेन द्विवचनान्तमीदाद्यन्तं च श्रूयते । यथा हि 'तावकीनः' इत्यादावादेशेन संख्याविशेषो व्यज्यते, तथेहापि सत्यां प्रगृह्यसंज्ञायां प्रकृतिभावेन द्वित्वमभिव्यज्येतेति स्याद् द्विवचनान्तस्यापि समासः । चतुर्थे कुमार्यगारमित्यादावप्रसङ्गः; द्विवचनस्यानीदाद्यन्तत्वात्, किन्त्वशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे-अत्रापि प्राप्नोति, कथम् ? शुक्लशब्दाद्वस्त्रवृतेर्द्विवचनमौ, ङपुंसकाच्च' इति शीभावः, ततश्च्विः, शीशब्दस्य शुपो धातु' इति लुक्, 'अस्य च्वौ' तद्धितान्तत्वात्सुः, अव्ययत्वाल्लुक्; अत्र शीशब्द ईकारान्तं द्विवचनम्, तदन्तश्च समुदायः प्रत्ययलक्षणेनेति प्रगृह्यसंज्ञा प्राप्नोति । अयं च तृतीयेऽपि पक्षे समानो दोषः । किं च-संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् तदन्तपक्षोत्थानमेव नास्ति, अतो द्वितीयं पक्षमाश्रित्याह-ऽईद् ऊद् एद् इत्येवमन्तं द्विवचनमिऽति । नन्वस्मिन्नपि पक्षे ईदूतोः केवलयोरेव संभव इत्यग्नी इत्यादिकं यद्यपि सिध्यति, तथाप्येकारान्तस्य तु द्विवचनस्य 'पचेते' इत्यादौ सम्भवातत्रैव स्यात्, न खट्वे इत्यादौ; व्यपदेशिवद्भावेनात्रापि भविष्यति । किं पुनरत्र प्रमाणमयमेव पक्ष आश्रीयत इति ? तृतीयचतुर्थयोस्तावदसम्भव एव; संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् । संज्ञायाश्च संज्ञ्यपेक्षायामनन्तरश्रुतं द्विवचनमेव संज्ञीत्युक्तमिति प्रथमस्याप्यसम्भवः । अत्र चतुर्थः पक्षोऽसम्भवादेव निरस्तः; न दोषवत्वात् । शुक्ल्यास्तां वस्त्र इत्यत्र हि 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्वाधते' इति अन्तरङ्गमपि शीभावं बाधित्वा शुपो धातु' इति लुकि कृतेऽनीकारान्तं द्विवचनं भवति । अग्नी इत्यादौ प्रगृह्यत्वात् 'प्लुतः प्रगृह्या अचि' इति प्रकृतिभावः । प्रत्युदाहरणेषु तदभावात् स्वरसन्धिः । तपरकरणं गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्, न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां निवृत्यर्थमिति चेत्, न; ईदूतोरनण्त्वात् । स्यादेतत्-जातिपक्षे यद्यपि दीर्घोच्चारणसामर्थ्यात् प्रयत्नाधिक्यात् अकुर्वह्यत्रेत्यादौ ह्रस्वानां न स्यात्, प्लुतानां तु स्यादेव । एकारस्य त्वण्त्वादपि प्लुतस्य प्रसङ्गः, अतः प्लुतनिवृत्यर्थं तपरकरणमिति, तन्न; इष्टत्वात् । किमर्थं पुनः प्लुतानां प्रगृह्यसंज्ञेष्यते ? प्रगृह्याः प्रकृत्येति प्रकृतिभावो यथा स्यात् । मा भूदेवम्, प्लुतः प्रकृत्येत्येव भविष्यति । यत्र तर्हि प्लुताश्रयः प्रकृतिभावः प्रतिषिध्यते-'अप्लुतवदुपस्थिते' इति, तत्र प्रगृह्याश्रयः प्रकृतिभावो यथा स्याद् अग्नी3 इतीति । इह च अग्नी3 अप्रगृह्यस्येत्यनुनासिकपर्युदासो यथा स्यात् । अतः प्लुतानामपि प्रगृह्यसंज्ञाया इष्टत्वान्न तन्निवृत्यर्थमपि तपरकरणमित्यत आह-ऽतपरकरणमसन्देहार्थमिऽति । असति हि तस्मिन् समाहारद्वन्द्वे नपुंसकह्रस्वत्वे च कृते य्वीति निर्देशे सन्देहः स्यात् । इतरेतरयोगाद्वन्द्वेऽपि सन्देह एव । तस्मादसन्देहार्थं तपरकरणम् । यद्यसन्देहार्थमपि तपरत्वं क्रियते, तदेव प्लुतस्येष्टां संज्ञां व्यावर्तयति,तत् प्लुतस्य कथं संज्ञा ? मा भूत् प्लुतस्य, तस्य त्वसिद्धत्वात् स्थानिनि प्रवृता संज्ञा स्वारसन्धिमनुनासिकं च प्रतिभन्त्स्यति, सिद्धः प्लुतः स्वरसन्धिषु,प्लुतः प्रकृत्येति लिङ्गात् । अन्यथा कार्यिणोऽसत्वात्कस्य प्रकृतिभावो विधीयते ! यस्य च विकारप्रसङ्गः, प्लुतप्रकरणे तस्य प्रकृतिभावो विधेयः, प्लुतस्यासिद्धत्वेन तस्य विकाराप्रसङ्ग इति प्लुतस्यासतः प्रकृतिभावविधानमनुपपन्नम् । अस्तु, स्वरसन्धिप्रकरणे प्लुतः सिद्धः, संज्ञाविधावसिद्धः । संज्ञाविधौ च सिद्धः, कथम् ? कार्यकालं संज्ञापरिभाषम्, ततश्च प्रगृह्याः प्रकृत्येत्यत्रास्योपस्थानात् संज्ञापि स्वरसन्धिप्रकरणान्तर्गता । एवं तर्हि सिद्धः प्लुतः स्वरसन्धिष्विति नाश्रीयते, प्लुतभावी प्रकृत्येति स्थानिन एव प्रकृतिभावो विधास्यते ? एवमप्यनुनासिकपर्युदासो न सिध्यति, कार्यकालपक्षे संज्ञायामपि प्लुतस्य सिद्धत्वात् । एवं तर्हि 'यथोद्देशं संज्ञापरिभाषम्' ततश्चास्मिन् प्रदेशे संज्ञायां क्रियमाणायां प्लुतस्यासिद्धत्वात् स्थानिनि प्रवृता संज्ञा स्वरसन्धिमनुनासिकं च प्रतिभन्त्स्यति । ननु यद्यपि संज्ञायामसिद्धः प्लुतः, अनुनासिकपर्युदासे तु सिद्धः, ततश्च यस्यानेन संज्ञा कृता द्विमात्रस्य, न सोऽनुनासिकविधिं प्रति स्थानी, किन्तु त्रिमात्र एव । न च स्थानिवद्भावातस्यापि प्रगृह्यत्वम्, अल्विधित्वात् । अवश्यं च 'सिद्धः प्लुतः स्वरसन्धिषु' इत्याश्रयणीयम्, दण्ड-आ3ढकमिति प्लुतस्य सवर्णदीर्घेण निवृत्तिर्यथा स्यात् । तथा च 'अङुण्' इत्यत्र सर्वैरेव ग्रन्थकारैरुक्तम् । तथा सुश्लोका3 इति सउश्लोकेति - अत्रापि 'अप्लुतवदुपस्थिते' इति प्लुताश्रये प्रकृतिभावे प्रतिषिद्धे गुणो भवन् प्लुतमेव निवर्तयति, न तु स्थानिनम्; अन्यथा ह्यादेशरूपे प्लुतः श्रूयेत । तदिह यथोद्देशेऽपि संज्ञापरिभाषे, कथमिवेष्टसिद्धिः ? कथं वा ग्रन्थेषु पूर्वापरविरोधपरिहारः ? इति विपश्चितः प्रष्टव्याः । ऽमणीवादीनामिऽति ।शिद्धये' इति शेषः । न पुनर्मणीवादीनामपरः प्रतिषेधो विधेयः । न चेदं वचनम्, भाष्यवार्तिककाराभ्यामपठितत्वात्; किन्तु मणीवादीनां निर्वाहः कर्तव्य इत्यर्थः । तत्र 'मणीवोष्ट्रस्य लम्बेते' इत्यत्र वाशब्दस्योपमानार्थस्य प्रयोगः । रोथसीवेत्यादौ थछान्दसत्वादिति निर्वाहः ॥