7-3-106 सम्बुद्धौ च झलि एत् च आपः
आपः अङ्गस्य सम्बुद्धौ सुपि एत्
आबन्तस्य अङ्गस्य सम्बुद्धि-एकवचनस्य प्रत्यये परे एकारादेशः भवति ।
An आबन्त अङ्ग gets an एकारादेश in presence of the सुँ-प्रत्यय of सम्बोधन-एकवचन.
आप इति वर्तते। संबुद्धौ च परत आबन्तस्याङ्गस्य एत्वं भवति। हे खट्वे। हे बहुराजे। हे कारीषगन्ध्ये॥
आप एकारः स्यात्संबुद्धौ । एङ्ह्रस्वात् <{SK193}>इति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः । स्त्रीत्वान्नत्वाऽभावः ॥
आप एकारः स्यात्सम्बुद्धौ। एङ्ह्रस्वादिति संबुद्धिलोपः। हे रमे। हे रमे। हे रमाः। रमाम्। रमे। रमाः॥
आकारान्तस्त्रीलिङ्गशब्दाः सर्वे टाप्/चाप्/डाप् प्रत्ययान्ताः सन्ति । 'आबन्त' इत्यनेन एतेषाम् एव ग्रहणम् क्रियते । एतेषाम् सर्वेषामङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे एकारादेशः भवति । यथा - माला + सुँ [सम्बुद्धिः] → माले + सुँ [<<सम्बुद्धौ च>> 7.3.106 इति एकारादेशः] → माले [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति सुँ-प्रत्ययस्य लोपः] ज्ञातव्यम् - <<एकवचनं सम्बुद्धिः>> 2.3.49 इत्यनेन सम्बोधन-एकवचनस्य सुँ-प्रत्ययस्य सम्बुद्धिः संज्ञा भवति ।
<<सम्बुद्धौ च>> - संबुद्धौ च ।बहुवचने झल्ये॑दित्यत एदिति, 'आङि चापः' इत्यत 'आप' इति चानुवर्तते । तदाह-आप इत्यादिना । आबन्तस्येत्यर्थः ।अलोऽन्त्यस्य॑ । हे रमे स् इति स्थिते प्रक्रियां दर्शयति — एङ्ह्रस्वादिति । हल्ङ्यादिलोपस्तु न, परत्वात्प्रतिपदोक्तत्वाच्च एत्त्वे कृते हल्ङ्यादिलोपस्याऽप्राप्तेः,एङ्ह्रस्वा॑दिति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः । रमामिति । 'अमि पूर्वः' इति पूर्वरूपम् । औङः शीभावे आद्गुणं मत्वाह — रमे इति । स्त्रीत्वादिति । शसि रमा-असिति स्थिते पूर्वसवर्णदीर्घे सति कृतपूर्वसवर्णदीर्घात्परत्वेऽपि 'तस्माच्छसः' इति नत्वं स्त्रीलिङ्गत्वान्न भवतीत्यर्थः । रमा-आ इति स्थिते ।