अद्ड् डतरादिभ्यः पञ्चभ्यः

7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः स्वमोः नपुंसकात्

Sampurna sutra

Up

डतरादिभ्यः पञ्चभ्यः अङ्गात् स्वमोः अद्ड्

Neelesh Sanskrit Brief

Up

नपुंसकलिङ्गवाचिभ्यः डतरप्रत्ययान्तशब्देभ्यः परस्य, डतमप्रत्ययान्तशब्देभ्यः परस्य, तथा - 'अन्य', 'अन्यतर', 'इतर' एतेभ्यः परस्य सुँ/अम्-प्रत्यययोः अद्ड्-आदेशः भवति ।

Neelesh English Brief

Up

The सुँ / अम् प्रत्यय occurring after the words ending in डतर and डतम प्रत्यय, and after the words 'अन्य', 'अन्यतर', 'इतर' gets the अद्ड् आदेश.

Kashika

Up

डतरादिभ्यः परयोः स्वमोरद्ड् इत्ययमादेशो भवति। कतरत् तिष्ठति। कतरत् पश्य। कतमत् तिष्ठति। कतमत् पश्य। इतरत्। अन्यतरत्। अन्यत्। पञ्चभ्य इति किम्? नेमं तिष्ठति। नेमं पश्य। डित्करणं किम्? कतरत् तिष्ठतीत्यत्र पूर्वसवर्णदीर्घो मा भूत्। इह तु कतरत् पश्येति स्थानिवद्भावादमिपूर्वत्वेन ६.१.१०७ अपि सिध्यति। एवं तर्हि तकारादेश एव कस्माद् न विधीयते? हे कतरदिति संबुद्घेर्लोपो मा भूत्।

अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु।

अद्ड्डित्त्वाड् डतरादीनां न लोपो नापि दीर्घता॥

Siddhanta Kaumudi

Up

एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात्॥

Neelesh Sanskrit Detailed

Up

सर्वादिगणे पाठिताः 'डतर-डतम-अन्य-अन्यतर-इतर' एतेषाम् पञ्चानामुल्लेखः अस्मिन् सूत्रे 'डतरादिभ्यः पञ्चभ्यः' इत्यनेन कृतः अस्ति । एतेषु 'डतर' तथा 'डतम' एतौ प्रत्ययौ, अतः सर्वे डतरप्रत्ययान्तशब्दाः डतमप्रत्ययान्तशब्दाः च अनयोः शब्दयोः गृह्यन्ते । एते शब्दाः तथा 'अन्य', 'अन्यतर', 'इतर' - एते त्रयः शब्दाः त्रिषु लिङ्गेषु भवन्ति । नपुंसकलिङ्गे एतेषां परस्य सुँ-प्रत्ययस्य तथा च अम्-प्रत्ययस्य 'अद्ड्' अयमादेशः भवति । अस्मिन् आदेशे डकारः इत्संज्ञकः अस्ति, अतः केवलंम् 'अत्' इत्येव अवशिष्यते । यथा - अन्य + सुँ / अम् → अन्य + अद् [<<स्वमोर्नपुंसकात्>> 7.1.23 इत्यनेन सुँ/अम् प्रत्यययोः लुक्-प्राप्ते, अपवादत्वेन <<अतोऽम्>> 7.1.24 इत्यनेन तयोः अम्-आदेशे प्राप्ते, अपवादत्वेन <<अद्ड् डतरादिभ्यः पञ्चभ्यः>> 7.1.25 इति अद्ड्-आदेशः । डकारस्य इत्संज्ञा, लोपः ।] → अन्य् + अद् [<<टेः>> 6.4.143 इत्यनेन डित्-प्रत्यये परे भस्य अङ्गस्य अन्तिमस्य टि-संज्ञकस्य लोपः भवति ।] → अन्यद् / अन्यत् [<<वाऽवसाने>> 8.4.56 इति विकल्पेन चर्त्वम्] एवमेव कतरत्, कतमत्, स्वल्पतमत्, अन्यतरत्, इतरत् - एतानि रूपाणि अपि सिद्ध्यन्ति । प्रश्नः - अद्ड् इत्यत्र अन्ते इत्संज्ञकः डकारः किमर्थम् स्थापितः अस्ति? उत्तरम् - यदि अस्मिन् प्रत्यये डकारः न अभविष्यत्, तर्हि <<टेः>> 6.4.143 इत्यनेन अङ्गस्य अन्तिम-अकारस्य लोपः अपि न अभविष्यत् । अस्यां स्थितौ 'अन्य + अद्' इत्यत्र <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे कृते 'अन्याद्' इति रूपं अभविष्यत् । तत् तथा मा भूत्, तथा च डित्वात् भस्य टिसंज्ञकस्य अन्तिमवर्णस्य अपि लोपः भवेत्, एतत् साधयितुम् डकारः स्थापितः अस्ति ।

Balamanorama

Up

<<अद्ड् डतरादिभ्यः पञ्चभ्यः>> - अद्ड्डतरादिभ्यः । 'अद्ड्-डतरादिभ्य' इति छेदः । दस्य ष्टुत्वेन डकारः, डस्य संयोगान्तलोपश्च आदेशस्वरूपावगतये न कृत इति कैयटः । डतर, डतम, अन्य, अन्यतर, इतर इति डतरादयः सर्वादिगणपठिताः । अत्र डक्त्रडतमौ प्रत्ययौ । अतस्तदन्तग्रहणं ।स्वमोर्नपुंसका॑दिति सूत्रमनुवर्तते तदाह — एभ्य इत्यादिना ।

Padamanjari

Up

अद्ड्डादेशो भवतीति । वविक्षितादेशरुपप्रतिपादनाय ष्टुअत्वं न कृतम् । कथं पुनर्ज्ञायते - डिदयमादेश एइति यदि हि डिन्नस्यात् डतरादिभ्यः पञ्चभ्योऽत् इत्येव ब्रूयात् । किं पुनः कारणं सावेव दीर्घनिवृत्तिः प्रयोजनमुच्यते, न त्वमि इत्याह - इह त्विति । एवं तर्हीति । पूर्वसूत्रविहितमममनुवर्त्य डतरादिभ्य इति पञ्चम्याः षष्ठी प्रकल्प्य तस्यैवामो दकारो विधास्यत इति चोद्यार्थः । हे कतरदित्यत्र सम्बुद्धिलोपो मा भूदिति । अयं च दोष पूर्वस्मिन्नपि पक्षे समानः । ननु च सम्बुद्धिलोपे हल्ड।लब्भ्यः इत्यतोऽपृक्तग्रहणमनुवर्तयिष्यते, इह च आदेः परस्य इत्यमोऽकारस्य दकारे कृते मकारस्य संयोगान्तलोपः, तस्यासिद्धत्वान्नायमपृक्तः, एवमदादेशो नापृक्तः, यद्यपृतग्रहणमनुवर्तते, हे काण्डेत्यामोऽपि न स्यादिति दोषः । तदिदमुक्तम् - अथ निवृतमपृक्तग्रहणम्, ततो निवृते डतरादिषु दोषः - हे कतरदित्यादौ लोपः स्यादिति । अतो डित्वादद्डादेशविधानातस्य च डित्वान्न सम्बुद्धिलोपः, नापि पूर्वसवर्णदीर्घत्वमित्यर्थः । यदि पुनः पूर्वसूत्रबिहितमममनुवर्त्य तस्यैवादादेशो विधीयते शक्यं डित्वमकर्तुम् ॥